कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

प्रसाधनी

prasādhanīस्त्री · fem.

In 7 kośas: 5 synonym verses, 3 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.139
प्रसाधनी कङ्कतिका पिष्टातः पटवासकः ॥ १३९ ॥
अनुष्टुप्
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.263 · p. 143
वाट्यायनी भूरिबला तिष्या वीर्या बृहद्बला ।महागन्धा गन्धवल्ली मङ्गल्या च प्रसाधनी ॥ २६३ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.200 · p. 50
समुद्गकः संपुटकः कस्तूर्यादिकरण्डके ।प्रसाधनी कङ्कतिका केशशोधकदन्तके ॥ २०० ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.420 · p. 109
प्रसाधनी फली चेति फलिका कालवित्यपि ।कोटयीति च विख्याते पिष्टातः पटवासकः ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.869 · p. 109
प्रसाधनी कङ्कतिका पिष्टातः पटवासकः ।परिवारः परिकरः परिबर्हः परिच्छदः ॥ ८६९ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.51 · p. 268
श्लेष्मघना केतक्यां तृणशूल्येऽथ प्रसाधनी सिद्धौ ।कङ्कतिकायां वेषे पुनरूनं द्वंद्वतः[24a]प्रोक्तम् ॥ ५१ ॥
आर्या
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.345 · p. 56
शुश्रूषायां च नृस्त्री तु कङ्कते स्यात् प्रसाधनी ।प्रसादनस्तु प्रासादे पुमान् स्यादोदने तु नप् ॥ ३४५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.118 · p. 244
प्रसाधनी स्त्री कङ्कत्यां क्लीबन्तु सिद्धिवेशयोः ।पयस्विनी विभावर्य्यां धेनौ नद्यामपि स्त्रियाम् ॥पुण्यजनः सज्जने स्याद्यक्षराक्षसयोरपि ।पृण्यजनस्तु पुंसि स्यान्नीचे मूर्खे च पापिनि ॥फलकी मीनभेदे ना त्रिषु स्यात्फलकान्विते ।वार्वकी वे विचित्राश्वपर्ण्यजीवशरान्विषु (?) ॥भूतात्मा पुंसि भूतेशे देहे बुद्धे विधातरि ।महाधनं महामूल्यसुवर्णसिह्लकादिषु ॥महासेनः कुमारे स्यान्महासैन्यपतौ पुमान् ।मदयित्नुः स्मरे शौण्डे पुमान्मद्ये तु न द्वयोः ॥महामुनिः कुम्भयोनिबुद्धयोः क्लीबमोषधे ।मातुलानी तु भङ्गायां कलायं मातुलस्त्रियाम् ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 न्तु (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable); pāda 3, syllable 3 ज (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 र्ण (wrong syllable)