कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnākara

शब्दरत्नाकर Śabdaratnākara

2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)

द्वितीयः काण्डः · पुराध्यायः

इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे शकुन्ताध्यायश्चतुर्दशः ॥

पुराध्यायः

पुरपुटमेदनपट्टणनगराणि स्त्री तु पूः पुरी नगरी ।अन्यानि मूलनगराच्छाखानगराणि बाह्यनगराणि ॥ ८३१ ॥
2.6.831 · p. 105
गीतिः
प्राकारवरणसाला वप्रोऽस्त्री तस्य शिखरकूटानि ।क्षुद्राणि कपिशिरांसि प्राचीरं प्रान्ततोवृतिर्वाटः ॥ ८३२ ॥
2.6.832 · p. 105
गीतिः
प्राकारः परितः खाते परिखा परिखातनम् ।अयोध्योज्जयिनी माया मिथिला मृत्तिकावती ॥ ८३३ ॥
2.6.833 · p. 105
अनुष्टुप्
कौशाम्बी मधुरा राढा काञ्ची माहिष्मती जया ।द्वारका विदिशा चम्पा स्रुघ्नं पाटलिपुत्रकम् ॥ ८३४ ॥
2.6.834 · p. 105
अनुष्टुप्
प्रतिष्ठानं पुष्पपुरमित्याद्या बहवः पुरः ।पुष्करं रुद्रकोट्याख्यं केदारं पुरुषोत्तमम् ॥ ८३५ ॥
2.6.835 · p. 106
अनुष्टुप्
कोकामुखं कुरुक्षेत्रं रङ्गमाम्रातकेश्वरम् ।कुब्जाम्रं नैमिशं पञ्चनदं बदरिकाश्रमम् ॥ ८३६ ॥
2.6.836 · p. 106
अनुष्टुप्
रामेश्वरं महाकालं गोकर्णं विजयेश्वरम् ।श्रीशैलं शम्बलं काञ्चीं पद्मनाभं प्रभासकम् ॥ ८३७ ॥
2.6.837 · p. 106
अनुष्टुप्
सालग्रामं गयां काशीं प्रयागं वामनाश्रमम् ।पुण्यारण्यं कनखलं द्वारकां च महालयम् ॥ ८३८ ॥
2.6.838 · p. 106
अनुष्टुप्
प्राहुर्विमुक्तिस्थानानि कोणार्कप्रमुखान्यपि ।निषद्या त्वापणः पण्यवीथी तु विपणिः स्त्रियाम् ॥ ८३९ ॥
2.6.839 · p. 106
अनुष्टुप्
हट्टस्तु पण्यभूमिः स्याज्जुटङ्को लवणापणः ।प्रतोली विशिखा रथ्या बहिर्द्वास्ततोरणोऽस्त्रियाम् ॥ ८४० ॥
2.6.840 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पूर्द्वाःकूटं हस्तिनखः पुरद्वारं तु गोपुरम् ।गृहमुदवसितं निकेतमोकः शरणमगोरनिशान्तधाम वस्त्यम् ॥ ८४१ ॥
2.6.841 · p. 106
अनुष्टुप्two metres in one verse
सदनभवनवेश्मसद्मगेहावसथनिवेशनमन्दिरास्पदानि ।केचिदावसथं पुंसि निकेतं च प्रचक्षते ॥ ८४२ ॥
2.6.842 · p. 106
पुष्पिताग्राtwo metres in one verse
गृहाः पुंभूम्नि संस्त्यायो निकाय्यो निलयालयौ ।क्षयो वासः कूटमस्त्री शालाथ मुनिवेश्मनि ॥ ८४३ ॥
2.6.843 · p. 106
अनुष्टुप्
उटजोऽस्त्री पर्णशाला चन्द्रशाला शिरोगृहम् ।चतुःशालं संजवनं छात्रादिनलयो मठः ॥ ८४४ ॥
2.6.844 · p. 107
अनुष्टुप्
विहारः सौगतावासश्चैत्यमायतनं समे ।प्रपा पानीयशाला स्यात् सत्रशाला प्रतिश्रयः ॥ ८४५ ॥
2.6.845 · p. 107
अनुष्टुप्
अपवरकं गर्भगृहं प्रासादो देवभूभुजां सदनम् ।सौधोऽस्त्री राजगृहं धनिकगृहं पुंनपुंसकं हर्म्यम् ॥ ८४६ ॥
2.6.846 · p. 107
गीतिः
वेश्याजनाश्रयो वेशो मण्डपोऽस्त्री जनाश्रयः ।हस्तिनां चतुरं शाला वाजिशाला तु मन्दुरा ॥ ८४७ ॥
2.6.847 · p. 107
अनुष्टुप्
अन्वासनं कारुगृहमरिष्टं सूतिकागृहम् ।संदाननी गवां शाला संधानी कुप्यशालिका ॥ ८४८ ॥
2.6.848 · p. 107
अनुष्टुप्
गञ्जा तु मदिराशाला चित्रशाला तु जालिनी ।श्रावेशनं शिल्पशाला पक्षिशाला तु नालिका ॥ ८४९ ॥
2.6.849 · p. 107
अनुष्टुप्
संवासनं कर्मशाला पाकशाला महासनम् ।क्लीबे तु कायमानं स्यादुपकार्योपकारिका ॥ ८५० ॥
2.6.850 · p. 107
अनुष्टुप्
आवालीर्भट्टिगेहाली निगमस्तु वणिक्पथः ।द्वाः स्त्री द्वारं प्रतीहारः पक्षद्वारे तु पक्षकः ॥ ८५१ ॥
2.6.851 · p. 107
अनुष्टुप्
प्रच्छन्नमन्तर्द्वारं स्याद्भित्तिः कुड्यं नपुंसकम् ।वेश्मस्थूणा गृहस्थूणं वेदिका तु वितर्दिका ॥ ८५२ ॥
2.6.852 · p. 107
अनुष्टुप्
द्वारस्योपरि यद्दारु नासा यद्दार्वधःशिला ।उत्तरङ्गस्तु यत्तिर्यग् दारु नासोपरि स्थितम् ॥ ८५३ ॥
2.6.853 · p. 107
अनुष्टुप्
तोरणस्योपरिस्थं यद्दाम वन्दनमालिका ।स्यात् कवाटं त्रिष्वररं तद्विष्कम्भेऽर्गलार्गलम् ॥ ८५४ ॥
2.6.854 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्रि (wrong syllable)
सूचिरल्पार्गला तुल्ये द्वारयन्त्रं तु तालकम् ।तदुद्घाटनयन्त्रं तु कुञ्चिका प्रतितालिका ॥ ८५५ ॥
2.6.855 · p. 108
अनुष्टुप्
कुट्टिमोऽस्त्री निबद्धा भूरङ्गणं चत्वराजिरे ।वलभी छादनं वक्रदारु गोपानसी स्त्रियाम् ॥ ८५६ ॥
2.6.856 · p. 108
अनुष्टुप्
कपोतपालिकायां स्याद्विटङ्कं पुंनपुंसके ।नीव्रं वलीकमस्यान्ते चोलो ना पटलं छदिः ॥ ८५७ ॥
2.6.857 · p. 108
अनुष्टुप्
गृहावग्रहणी देहल्यथ द्वारप्रकोष्ठके ।प्रघाणः प्रघणोऽलिन्दः पिण्डकश्च चतुष्टये ॥ ८५८ ॥
2.6.858 · p. 108
अनुष्टुप्
बन्धालीर्मुण्डकं तस्य पार्श्वयोश्छादनं दली ।शिलास्थूणादिषूत्कीर्णा वनिता सालभञ्जिका ॥ ८५९ ॥
2.6.859 · p. 108
अनुष्टुप्
वंशो गृहोर्ध्वके काष्ठे स्त्रीगृहं तु महीभृताम् ।अन्तःपुरं तु शुद्धान्तावरोधाववरोधनम् ॥ ८६० ॥
2.6.860 · p. 108
अनुष्टुप्
स्वस्तिकः सर्वतोभद्रो नन्द्यावर्तादयोऽपि च ।विच्छन्दकविभेदाः स्युर्मेदिनीपतिवेश्मनाम् ॥ ८६१ ॥
2.6.861 · p. 108
अनुष्टुप्
द्वयोः प्रणाली हर्म्यादिजलनिर्गमपद्धतिः ।आरोहणं तु सोपानं निश्रेणिरधिरोहिणी ॥ ८६२ ॥
2.6.862 · p. 108
अनुष्टुप्
स्थूणा तु भवनस्तम्भे स्वल्पस्थूणा तु पाटिका ।मेध्री स्यात् पाटिकामूर्ध्नि स्थूणाशीर्षे शिली शिला ॥ ८६३ ॥
2.6.863 · p. 109
अनुष्टुप्
कला कपोतायनिका संधिः पटलकुड्ययोः ।वातायनं गवाक्षं स्याज्जालकं पीठमासनम् ॥ ८६४ ॥
2.6.864 · p. 109
अनुष्टुप्
अपटीका काण्डपटी प्रतिसीरा यवनिका तिरस्करिणी ।शय्या शयनं तल्पं शयनीयं तलिममास्तरणम् ॥ ८६५ ॥
2.6.865 · p. 109
आर्या
खट्वा तु मञ्चपर्यङ्कपल्यङ्काः पुंसि च स्त्रियाम् ।उपधानं तूपबर्हः पतद्ग्राहः प्रतिग्रहः ॥ ८६६ ॥
2.6.866 · p. 109
अनुष्टुप्
समुद्रकः संपुटक उल्लोचोऽस्त्री वितानकम् ।वस्त्रवेश्म स्थुलं दूष्यं गृहचन्द्रस्तु दर्पणः ॥ ८६७ ॥
2.6.867 · p. 109
अनुष्टुप्
आदर्शो मुकुरो दीपप्रदीपौ तु प्रदीपिका ।सम्मार्जनी शोधनी स्यात् संकरावकरौ समौ ॥ ८६८ ॥
2.6.868 · p. 109
अनुष्टुप्
प्रसाधनी कङ्कतिका पिष्टातः पटवासकः ।परिवारः परिकरः परिबर्हः परिच्छदः ॥ ८६९ ॥
2.6.869 · p. 109
अनुष्टुप्
आर्द्रा जलार्द्रा व्यजने वास्त्रे जलसमुक्षिते ।व्यजनं तालवृन्तं स्यात् समौ गेण्डुककन्दुकौ ॥ ८७० ॥
2.6.870 · p. 109
अनुष्टुप्
कन्दुकास्फालने स्त्रीणां चापे यस्तटितामिव ।सैव गोमूत्रिकाथ स्यात् सविलासः स मनोहरः ॥ ८७१ ॥
2.6.871 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 सवि (syllable split)
पञ्चावर्तप्रहारो यः पञ्चबिन्दुर्मृगीदृशाम् ।शतपदगमनं तु गीतमार्गः सरसविलासमनोहरं युवत्याः ॥ ८७२ ॥
2.6.872 · p. 110
अनुष्टुप्two metres in one verse
अविरलविरलः पदक्रमो यश्चतुरगमागमनेषु चूर्णपादः ।कोष्ठागारं कुसूलं स्याद्वस्त्रकोशो वाटकम् ॥ ८७३ ॥
2.6.873 · p. 110
पुष्पिताग्राmetre not read in every line
वस्त्रं निवसनमंशुकमम्बरमाच्छादनं वासः ।वसनं चेलं सिचयः पुंसि सुचेलो द्वयोस्तु पटशाटौ ॥ ८७४ ॥
2.6.874 · p. 110
उद्गीतिः
परिधानान्तरीयोपसंव्योनान्यधराम्बरे ।प्रावार उत्तरासंगस्तस्मिन् बृहतिका स्त्रियाम् ॥ ८७५ ॥
2.6.875 · p. 110
अनुष्टुप्
शय्यास्वङ्गप्रावरणं यदसावुत्तरच्छदः ।संव्यानमुत्तरीयं स्याच्चोलः कूर्पासमस्त्रियाम् ॥ ८७६ ॥
2.6.876 · p. 110
अनुष्टुप्
तद्भेदे चोलकः पुंसि वराशिः स्थूलशाटकः ।निचोलः प्रच्छदपट उष्णीषं शीर्षवेष्टनम् ॥ ८७७ ॥
2.6.877 · p. 110
अनुष्टुप्
पटच्चरं जीर्णविस्त्रं पुंसि नक्तककर्पटौ ।परिवीतं त्रिषूत्सृष्टं निवीतं प्रावृतं त्रिषु ॥ ८७८ ॥
2.6.878 · p. 110
अनुष्टुप्
नवाम्बरं निष्प्रवाणि तन्त्रकं च समं त्रयम् ।गात्रिका तु स्त्रियां गात्रे गाढग्रन्थिमदंशुकम् ॥ ८७९ ॥
2.6.879 · p. 110
अनुष्टुप्
वस्त्रे तु चीवरं चीरं चीरा चीवरिका स्त्रियाम् ।पत्रोर्णं धौतकौशेयं राङ्कवं मृगरोमजम् ॥ ८८० ॥
2.6.880 · p. 110
अनुष्टुप्
नीशारः स्यात् प्रावरणं हिमवातनिवारणम् ।स्याल्लाक्षिकं रौचनिकं शाकलं कार्दमं क्रमात् ॥ ८८१ ॥
2.6.881 · p. 111
अनुष्टुप्
त्रिषु लाक्षादिना रक्ते युगलं धौतवस्त्रयोः ।यत्तदुद्गमनीयं स्याद्दशा स्त्री भूम्नि वर्तयः ॥ ८८२ ॥
2.6.882 · p. 111
अनुष्टुप्
अर्धोरुकं वरस्त्रीणां चण्डातकमथोच्चयः ।नीवी च वसनग्रन्थौ वस्त्रान्ते त्वञ्चलोऽस्त्रियाम् ॥ ८८३ ॥
2.6.883 · p. 111
अनुष्टुप्
वायस्तु तन्तुसंतानो वेमा ना वायदण्डकः ।सूत्राणि तन्तवो द्वौ तु समौ रल्लककम्बलौ ॥ ८८४ ॥
2.6.884 · p. 111
अनुष्टुप्
कक्ष्या तु चल्लणं कच्छः कौपीनं मलमूलकम् ।कञ्चुको वारवाणोऽस्त्री तद्भेदे कञ्चुली स्त्रियाम् ॥ ८८५ ॥
2.6.885 · p. 111
अनुष्टुप्
निर्णिक्तं शोधितं मृष्टं धौतं वीध्रमपि त्रिषु ।तत्तद्रक्ते तु काषायमञ्जिष्टप्रमुखं त्रिषु ॥ ८८६ ॥
2.6.886 · p. 111
अनुष्टुप्
शुक्लशुचिशुभ्रधवलश्वेतवलर्क्षावदातसितहरिणाः ।पाण्डरपाण्डुरविशदश्वेतार्जुनगौरपाण्डवश्व समाः ॥ ८८७ ॥
2.6.887 · p. 111
गीतिः
कालश्यामश्यामलकृष्णासितनीलमेचकास्तु समाः ।रक्तो रोहितलोहितताम्रारुणशोणपाटलाश्च समाः ॥ ८८८ ॥
2.6.888 · p. 111
गीतिः
पीतो हारिद्राभो गौरो हरितो हरिच्च पालाशाः ।श्यावः कपिशो धूमलधुम्रौ कृष्णारुणोऽथ पिङ्गः स्यात् ॥ ८८९ ॥
2.6.889 · p. 111
गीतिः
कडारः कपिलः कद्रुः पिशङ्गः पिङ्गलश्च सः ।चित्रकर्बुरकिर्मीकल्माषैताः सशारकाः ॥ ८९० ॥
2.6.890 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शबलोऽथ गुणाः पुंसि गुणिनस्तद्वति त्रिषु ।एतैनी सैव सारङ्गी कल्माषी कर्बुरा च सा ॥ ८९१ ॥
2.6.891 · p. 112
अनुष्टुप्
प्रस्फोटनं शूर्पमस्त्री तितउः पुंसि चालनी ।कटः किलिञ्जः कण्डोलः पिटः स्यूतः प्रसेवकः ॥ ८९३ ॥
2.6.893 · p. 112
अनुष्टुप्
अस्त्री तु मुसलोऽयोग्रमुदूखलमुलूखलम् ।तुषस्तु त्वचि धान्यानामवघातस्तु खण्डनम् ॥ ८९४ ॥
2.6.894 · p. 112
अनुष्टुप्
फलीकृतास्तण्डुलाः स्युः शम्बूकास्तत्कणाः स्त्रियः ।तन्मलं पुंसि शम्बूको ज्येष्ठाम्बु स्यात्तदम्बुनि ॥ ८९५ ॥
2.6.895 · p. 112
अनुष्टुप्
अवगाहो जलद्रोणिः कटाहः कर्परः समौ ।स्थाल्युखा पिठरः कुण्डं मणिकं तु त्रिलिङ्गकम् ॥ ८९६ ॥
2.6.896 · p. 112
अनुष्टुप्
अलिञ्जरो द्वयोः कुम्भघटौ पुंसि निपः कुटः ।कलशं त्रिषु वा क्लीबे करीरः कर्करी स्त्रियाम् ॥ ८९७ ॥
2.6.897 · p. 112
अनुष्टुप्
आलूर्गलन्तिका तुल्ये शृङ्गारः कनकालुका ।पारी तु स्वल्पकलशी कलशे(शी?) कर्परः पुमान् ॥ ८९८ ॥
2.6.898 · p. 112
अनुष्टुप्
समौ करङ्ककरकौ विधानं स्यादुदञ्चनम् ।शालाजिरो वर्धमानः शरावं पुंनपुंसकम् ॥ ८९९ ॥
2.6.899 · p. 113
अनुष्टुप्
भद्रकुम्भः पूर्णकुम्भ उष्ट्रिका मदिरादिभृत् ।कन्दुर्ना स्वेदनो भ्राष्ट्रोऽम्बरीषमथ कौशिका ॥ ९०० ॥
2.6.900 · p. 113
अनुष्टुप्
मल्ली मल्लोऽथ मञ्जूषा पेटा पिटकपेटकौ ।स्नेहपात्रे कुतूः कृत्तेः सैवाल्पा कुतुपः पुमान् ॥ ९०१ ॥
2.6.901 · p. 113
अनुष्टुप्