पिष्टात
piṣṭātaपुं · masc.In 11 kośas: 13 synonym verses.
genderपुंmasc.
genderपुंmasc.
स्थानात्स्थानान्तरं गच्छन्धूमो गन्धपिशाचकः ।तरूणां प्रसवाधायी भवेद्दोहदधूपकः ।चूर्णोऽस्त्री वासयोगाः स्युर्भावितं वासितं त्रिषु ।पिष्टातः पटवासः[95a] स्यादुद्य(?)लिप्तक इत्यपि ॥ १९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
वारुण्डः सेकपात्रे गडु-वरुण-गुण-भ्रूण-नाडीव्रणाः स्युःकर्णो वृष्णिश्च घृष्णिर्घृणिरथ वमति-ज्ञाति-पिष्टात-पोताः ।व्रातः कुन्तोऽस्त्रवाची हरिदपि पृषत-ग्रन्थिरर्थोऽतिथिः स्या-दुद्गीथो रोमन्थ-सार्थावगद-गद-मदाः कासदः कासमर्दः ॥ १६ ॥
स्रग्धराmetre not read in every linenearly स्रग्धरा
genderपुंmasc.
आकल्पो वेषनेपथ्ये संस्क्रियोद्वर्तनं पुनः ।पटवासकपिष्टातौ चूर्णं स्याद्वासयोगतः ॥ २९० ॥
अनुष्टुप्
genderपुंmasc.
अलक्तकुन्तौ पृषताः कपर्दोगदागदौ बुद्बुदपोतगन्धाः ।अगाधपिष्टातसुदर्शनाश्चशम्बाम्बतिष्याः सिचयोल्लपुण्ड्राः ॥ १९ ॥
उपजातिः
genderपुंmasc.
पतद्ग्रहे प्रतिग्राहः पिष्टातस्तालवृन्तके ।वीटिकापेटिकायां तु कल्मानी चूर्णमन्दने ॥ २०१ ॥
अनुष्टुप्
genderपुंmasc.
चूर्णानि वासयोगाः स्युः पिष्टातः पटवासकः ।वस्त्रादेर्यस्तु गन्धाद्यैः संस्कारः सोऽधिवासनम् ॥ ६१ ॥
अनुष्टुप्
genderपुंmasc.
वासयोगश्च चूर्णं स्यात् पिष्टातपटवासकौ ।गन्धमाल्यादिना यस्तु संस्कारः सोऽधिवासनम् ॥ १०२९ ॥
अनुष्टुप्
genderपुंmasc.
प्रसाधनी फली चेति फलिका कालवित्यपि ।कोटयीति च विख्याते पिष्टातः पटवासकः ॥
अनुष्टुप्
genderपुंmasc.
प्रसाधनी कङ्कतिका पिष्टातः पटवासकः ।परिवारः परिकरः परिबर्हः परिच्छदः ॥ ८६९ ॥
अनुष्टुप्
genderपुंmasc.
कज्जले स्यादिरिपके कन्दुकश्चोदनागुडः ।निश्चुक्कणं दन्तशाणं पिष्टातो धूलिगुच्छकः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
अञ्जनं त्वक्षिसंस्कारः कज्जलं धूमयोनि तत् ।चूर्णानि वासयोगाः स्युः पिष्टातः पटवासकः ॥ १५७ ॥
अनुष्टुप्
genderपुंmasc.