परिच्छद
paricchadaपुं · masc.In 13 kośas: 10 synonym verses, 2 as a nānārtha head word, 33 as a meaning of another word.
परिस्यन्दः परिकरः परिवारः परिग्रहः ॥ ७१५ ॥परिच्छदः परिबर्हस्तन्त्रोपकरणे अपि ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable); pāda 4, syllable 3 स (wrong syllable)
genderपुंmasc.
genderपुंmasc.
परिवारः परिकरः परिस्पन्दः परिग्रहः ।तथोपकरणं प्रोक्तं परिवर्हः परिच्छदः ॥ ३०६ ॥
अनुष्टुप्
genderपुंmasc.
परिस्पन्दः परिकरः परिबर्हः परिच्छदः ।परिग्रहः परीवारस्तन्त्रोपकरणे अपि ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
परिग्रहः परिवारः परिस्यन्दपरिच्छदौ ।पुल्लिङ्गे परिकरस्तन्त्रोपकरणे समे ॥ ३४१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable); pāda 3, syllable 1 पु (syllables merged)
genderपुंmasc.
परिवारः परिकरः परिबर्हः परिच्छदः ।प्रतिहारो द्वारपालो दौवारिकश्च वेत्रभृत् ॥ १४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
genderपुंmasc.
परिवारः परिस्यन्दः परिकरः परिच्छदः ।तन्त्रं च परिबर्हश्च परिजनः परिग्रहः ॥ ११६५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable); pāda 4, syllable 3 ज (wrong syllable)
genderपुंmasc.
प्रसाधनी कङ्कतिका पिष्टातः पटवासकः ।परिवारः परिकरः परिबर्हः परिच्छदः ॥ ८६९ ॥
अनुष्टुप्
genderपुंmasc.
चण्डाली तु श्वचण्डालं शबरी तु परिच्छदम् ।कालकिञ्चं तु करणी यवनी यावशादनम् ॥ ८ ॥
अनुष्टुप्
genderपुंmasc.
रचना स्यात् परिस्कन्धो भावना वासना समे ।अथोपकरणं सर्वं परिबर्हः परिच्छदः ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
पक्वे मृदुनि युक्ते स्यात् कणादिभिरिदं नपि ।शुष्कमात्रे तु तत् त्रि स्यादथोपकरणे पुमान् ॥ ३५१ ॥
अनुष्टुप्
meaningsउपकरण
doubtful
परिच्छदो जातिभेदे शबरीविप्रजे द्वयोः ।पटच्चरं तु जीर्णे क्ली वस्त्रे भूम्नि तु पुंस्यदः ॥ ३५२ ॥
अनुष्टुप्
परिच्छद as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् परीवापपरिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ १२९ ॥ Amarakośa 3.3.129
- नामलिङ्गानुशासनम् परीवारस्याज्जङ्गमे परीवारः खड्गकोषे परिच्छदे ॥ १६९ ॥ Amarakośa 3.3.169
- नामलिङ्गानुशासनम् मात्राक्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्टकारिका ॥ १७७ ॥ त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे । अल्पे च परिमाणे सा मात्रं कार्त्स्न्येऽवधारणे ॥ १७८ ॥ Amarakośa 3.3.178
- नामलिङ्गानुशासनम् तन्त्रतन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे ॥ १८५ ॥ Amarakośa 3.3.185
- नामलिङ्गानुशासनम् परिबर्हपरिच्छदे नृपार्हेऽर्थे परिबर्होऽव्ययाः परे । Amarakośa 3.3.466
- हलायुधकोशः (अभिधानरत्नमाला) मात्राकरणं कायेऽपि स्यादुष्णीषो मूर्धवेष्टनेऽप्युक्तः । मात्रा परिच्छदेऽपि क्षुद्रः क्रूरे श्रुतौ निगमः ॥ ७९६ ॥ Abhidhānaratnamālā (Halāyudha) 5.796
- हलायुधकोशः (अभिधानरत्नमाला) तन्त्रतन्त्रं तन्तुषु मन्त्रेषु सिद्धान्तपरिच्छदप्रधानेषु । उत्साहनसूचनयोः प्रकाशने गन्धनं प्रोक्तम् ॥ ८७० ॥ Abhidhānaratnamālā (Halāyudha) 5.870
- धरणिकोश तन्त्रतन्त्रं कारणशास्त्रयोश्च शपथे भैषज्यसिद्धान्तयो- र्मुख्यार्थेऽपि परिच्छदेऽपि च तथा तन्त्रं कुटुम्बात्मनि । तन्त्रं शाकटसूत्रछन्दमुभयार्थप्रयोजकस्तु सः तन्त्रीः स्यात्तु विपञ्चिकादिकगुणे स्याद्देह[85]नाडीषु च ॥ Dharaṇikośa 26.3.3
- धरणिकोश मात्रामात्रा कर्णविभूषायां धने माने परिच्छदे । अक्षरावयवे चाल्पे मात्रं कार्त्स्नेऽवधारणे ॥ Dharaṇikośa 26.3.9
- धरणिकोश परिबर्हअवरोहोऽवतरणे [108] पादपाङ्गे लतोद्भवे । परिबर्हस्तु [राजाहवस्तु?]न्यथ परिच्छदे ॥ Dharaṇikośa 32.2.12
- कोषकल्पतरु परिवापकृत्रिमधूपे सरल- द्रवके वृकधूप आम्नातः । परिवापो जलनिलये पर्युप्तौ स्यात्परिच्छदे तद्वत् ॥ १८ ॥ Koṣakalpataru 6.22.18
- कोषकल्पतरु परिधायपरिधायोऽम्भःस्थाने परिच्छदे स्यान्नितम्बे च । समुदय आजौ वृन्दे समुपक्रमवाचकश्चापि । प्रतिश्रयस्त्वाश्रयसंसदोः स्या- त्समुच्छ्रयस्तूच्छ्रयके विरोधे । हिरण्मयः स्यादिह लोकधातौ विशेष्यवद्धेममये प्रदिष्टः ॥ ८२ ॥ Koṣakalpataru 6.26.82
- कोषकल्पतरु श्रीबिल्वद्रुमे स्या[44a]त्सरलद्रुमेऽपि परिच्छदे धूस्तु सुरापगायाम् । भारेऽपि यानस्य मुखेऽपि सा स्या- त्स्त्रियां तु पूः पत्तनदेहयोश्च ॥ Koṣakalpataru 6.27.3
- कोषकल्पतरु मात्रग्रन्थे निदेशे च वदन्ति शास्त्रं मात्रं तु कार्त्स्न्ये च धृतौ द्वयोनम् । स्त्री त्वक्षरस्यावयवे तथाल्पे परिच्छदश्रोत्रविभूषयोश्च ॥ ३२ ॥ Koṣakalpataru 6.27.32
- कोषकल्पतरु परिवारस्याद्द्यूतयुद्धादिकविश्रमेऽपि ग्राहाख्ययादस्यपि संप्रदिष्टः । स्यात्खड्गकोषे परिवार आद्ये परिच्छदे चापि कुटुम्बके च ॥ १७ ॥ Koṣakalpataru 6.27.17
- कोषकल्पतरु बर्हन स्त्री बर्हं पत्रे मयूर पिच्छे परिच्छदे पुंसि । पुंसि क्लीबे च गृहाः पत्न्यां प्रायो बहुत्वे स्युः ॥ ३७ ॥ Koṣakalpataru 6.32.37
- कोषकल्पतरु पारिबर्हस्यात्पारिबर्हः क्षितिपालयोग्य- वस्तुन्यपि स्याच्च परिच्छदेऽपि । वीणानिबन्धेऽप्युपनाह उक्तः पिण्डे व्रणालेपनके तथैव ॥ ६० ॥ Koṣakalpataru 6.32.60
- नानार्थार्णवसंक्षेप तन्त्रजीलं करकपत्र्यां स्यात् कोशे चर्मपुटे दृतौ । तन्त्रं स्वराष्ट्रव्यापारे तन्तुवाने परिच्छदे ॥ २५ ॥ Nānārthārṇavasaṃkṣepa 2.3.25
- नानार्थार्णवसंक्षेप मात्रामात्रा प्रवृत्तौ कर्णस्य परिष्कारान्तरे धने । परिच्छदे परिच्छेदे शैलेऽन्ये त्वेकदेशके ॥ ९७९ ॥ Nānārthārṇavasaṃkṣepa 2.5.979
- नानार्थार्णवसंक्षेप परिवापइयं तु लाजेष्वप्युक्ता शिष्टैरथ परिच्छदे । पर्युप्तावालवाले च परिवापोऽत्र शाश्वतः ॥ ८३ ॥ Nānārthārṇavasaṃkṣepa 6.83
- नानार्थार्णवसंक्षेप परीवारस्याज्जङ्गमे परीवारः खड्गकोशे परिच्छदे । परिग्रहस्तु शपथे मूले परिजने तथा ॥ ८५ ॥ Nānārthārṇavasaṃkṣepa 6.85
- परमानन्दीयनाममाला तन्त्रपरिच्छदे प्रधानेऽथ त्रपु सीसकरङ्गयोः । तन्त्री नाड्यां तथा वीणागुणे त्यागो विसर्जने ॥ २२० ॥ Paramānandīyanāmamālā 5.15.220
- शब्दरत्नावली परिवापउपतापस्त्वराव्याधिसमुत्तापाशुभार्त्तिषु । जलकूपी पुष्करिण्यां कूपे गर्तेऽपि च स्त्रियाम् ॥ नागपुष्पं चम्पके स्यात्पुन्नागे नागकेशरे । परिवापो जलस्थाने पर्याप्तौ च परिच्छदे ॥ परितापः पुमान् दुःखे शोके च नरकान्तरे ॥ Śabdaratnāvalī 7.21.21
- शब्दरत्नावली तन्त्रकुस्तुम्बुरुण्यतिच्छत्रे छत्रः पर्वतभिद्यपि । तन्त्रं प्रधाने सिद्धान्ते तन्त्रवाये परिच्छदे ॥ कुटुम्बकृत्ये हेतौ स्यादुभयार्थप्रयोजके । इतिकर्तव्यतोषध्योः श्रुतिशाखान्तरेऽपि च ॥ शास्त्रभेदे प्रबन्धे च तन्त्री वीणागुणे स्त्रियाम् । गुडूची देहशिरयोर्नदीभिद्युवतीभिदोः ॥ तन्त्रा स्यात्तु प्रमीलायां निद्रायामपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.27.13
- शब्दरत्नावली परिवारप्रभाकरोऽनले सूर्ये शीतभावुसमुद्रयोः । परिवारः परिजने खड्गकोषे परिच्छदे ॥ Śabdaratnāvalī 7.27.136
- शब्दरत्नावली पटलपरिच्छदे च तिलके न क्लीबं ग्रन्थवृक्षयोः । प्रवालोऽस्त्री पल्लवे स्याद् वीणादण्डे च विद्रुमे ॥ Śabdaratnāvalī 7.28.72
- शब्दरत्नाकर तन्त्रपरिच्छदे तन्तुवाये प्रयोगे क्रतुकर्मणाम् । तीर्थं मन्त्राद्युपाध्यायशास्त्रेष्वम्भसि पावने ॥ १९३१ ॥ Śabdaratnākara 4.1.1931
- शब्दरत्नाकर मात्राअंशे परिच्छदे मात्रा मात्रं कार्त्स्न्येऽवधारणे । मदो दाने स्मये मूलं शिफातारादिहेतुषु ॥ १९८० ॥ Śabdaratnākara 4.1.1980
- शब्दरत्नाकर परीवापहस्तिनां पादपार्श्वेऽथ पितुः पितरि वेधसि । पितामहः परीवाप आलवाले परिच्छदे ॥ २२१५ ॥ Śabdaratnākara 4.1.2215
- शब्दरत्नाकर परिवारपरिवारः परिजने शस्त्रकोशे परिच्छदे । विगाढगात्रिकाबन्धे समूहारम्भयोरपि ॥ २२१८ ॥ Śabdaratnākara 4.1.2218
- वैजयन्ती तन्त्रतंत्रं स्वराष्ट्रव्यापारे तन्तुवाने परिच्छदे । शास्त्रौषधान्त्रमुख्येषु प्रयोगेऽध्वरकर्मणां ॥ ११ ॥ Vaijayantī 6.3.11
- वैजयन्ती मात्राअक्ली मणिरजाकण्ठस्तने रत्नेऽप्यलिंजरे । मात्रा परिच्छदेऽर्थेंशें प्रवृत्तौ कर्णभूषणे ॥ ६२ ॥ Vaijayantī 6.5.62
- वैजयन्ती परीवापपरिवर्तो जगन्नाशे निमयेऽब्दे परिभ्रमे । पर्युप्तौ च परीवाप आलवाले परिच्छदे ॥ २९ ॥ Vaijayantī 8.1.29