शिरोस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका ॥ ६९ ॥
2.6.69
अनुष्टुप्
अङ्गं प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् ।गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥कायो देहः क्लीबपुंसोः स्त्रियां मूर्तिस्तनुस्तनूः ।
2.6.122
अनुष्टुप्
पादाग्रं प्रपदं पादः पदङ्घ्रिश्चरणोऽस्त्रियाम् ॥ ७१ ॥
2.6.71
अनुष्टुप्
तद्ग्रन्थी घुटिके गुल्फौ पुमान्पार्ष्णिस्तयोरधः ।
2.6.124
अनुष्टुप्
जङ्घा तु प्रसृता जानूरुपर्वाष्ठीवदस्त्रियाम् ॥ ७२ ॥
2.6.72
अनुष्टुप्
सक्थि क्लीबे पुमानूरुस्तत्सन्धिः पुंसि वङ्क्षणः ।
2.6.126
अनुष्टुप्
गुदं त्वपानं पायुर्ना वस्तिर्नाभेरधो द्वयोः ॥ ७३ ॥
2.6.73
अनुष्टुप्
कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती ।
2.6.128
अनुष्टुप्
पश्चान्नितम्बः स्त्रीकट्याः क्लीबे तु जघनं पुरः ॥ ७४ ॥
2.6.74
अनुष्टुप्
कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे ।
2.6.130
अनुष्टुप्
स्त्रियाम्स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः ॥ ७५ ॥
2.6.75
अनुष्टुप्
भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी ।
2.6.132
अनुष्टुप्
मुष्कोऽण्डकोशो वृषणः पृष्ठवंशाधरे त्रिकम् ॥ ७६ ॥
2.6.76
अनुष्टुप्
पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ ।
2.6.134
अनुष्टुप्
चूचुकं तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम् ॥ ७७ ॥
2.6.77
अनुष्टुप्
उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः ।
2.6.136
अनुष्टुप्
स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी ॥ ७८ ॥
2.6.78
अनुष्टुप्
बाहुमूले उभे कक्षौ पार्श्वमस्त्री तयोरधः ।
2.6.138
अनुष्टुप्
मध्यमं चावलग्नं च मध्योऽस्त्री द्वौ परौ द्वयोः ॥ ७९ ॥
2.6.79
अनुष्टुप्
भुजबाहू प्रवेष्टो दोः स्यात्कफोणिस्तु कूर्परः ।
2.6.140
अनुष्टुप्
अस्योपरि प्रगण्डः स्यात्प्रकोष्ठस्तस्य चाप्यधः ॥ ८० ॥
2.6.80
अनुष्टुप्
मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।
2.6.142
अनुष्टुप्
पञ्चशाखः शयः पाणिस्तर्जनी स्यात्प्रदेशिनी ॥ ८१ ॥
2.6.81
अनुष्टुप्
अङ्गुल्यः करशाखाः स्युः पुंस्यङ्गुष्ठः प्रदेशिनी ।मध्यमानामिका चापि कनिष्ठा चेति ताः क्रमात् ॥ ८२ ॥
2.6.82
अनुष्टुप्
पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् ।
2.6.145
अनुष्टुप्
प्रादेशतालगोकर्णास्तर्जन्यादियुते तते ॥ ८३ ॥
2.6.83
अनुष्टुप्
अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः ।
2.6.147
अनुष्टुप्
पाणौ चपेटप्रतलप्रहस्ता विस्तृताङ्गुलौ ॥ ८४ ॥
2.6.84
अनुष्टुप्
द्वौ संहतौ संहतलप्रतलौ वामदक्षिणौ ।
2.6.149
अनुष्टुप्
पाणिर्निकुब्जः प्रसृतिस्तौ युतावञ्जलिः पुमान् ॥ ८५ ॥
2.6.85
अनुष्टुप्
प्रकोष्ठे विस्तृतकरे हस्तो मुष्ट्या तु बद्धया ।स रत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना ॥ ८६ ॥
2.6.86
अनुष्टुप्
व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् ।
2.6.152
अनुष्टुप्
ऊर्ध्वविस्तृतदोः पाणिनृमाने पौरुषं त्रिषु ॥ ८७ ॥
2.6.87
अनुष्टुप्
कण्ठो गलोऽथ ग्रीवायां शिरोधिः कन्धरेत्यपि ।
2.6.154
अनुष्टुप्
कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका ॥ ८८ ॥
2.6.88
अनुष्टुप्
वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम् ।
2.6.156
अनुष्टुप्
क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका ॥ ८९ ॥
2.6.89
अनुष्टुप्
ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ।
2.6.158
अनुष्टुप्
अधस्ताच्चिबुकं गण्डौ कपोलौ तत्परा हनुः ॥ ९० ॥
2.6.90
अनुष्टुप्
रदना दशना दन्ता रदास्तालु तु काकुदम् ।
2.6.160
अनुष्टुप्
रसज्ञा रसना जिह्वा प्रान्तावोष्ठस्य सृक्किणी ॥ ९१ ॥
2.6.91
अनुष्टुप्
ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भ्रुवौ स्त्रियौ ।
2.6.162
अनुष्टुप्
कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥ ९२ ॥
2.6.92
अनुष्टुप्
लोचनं नयनं नेत्रमीक्षणं चक्षुरक्षिणी ।दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च ॥ ९३ ॥
2.6.93
अनुष्टुप्
अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने ।
2.6.165
अनुष्टुप्
कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः ॥ ९४ ॥
2.6.94
अनुष्टुप्
उत्तमाङ्गं शिरः शीर्षं मूर्धा ना मस्तकोऽस्त्रियाम् ।
2.6.167
अनुष्टुप्
चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः ॥ ९५ ॥
2.6.95
अनुष्टुप्
तद्वृन्दे कैशिकं कैश्यमलकाश्चूर्णकुन्तलाः ।
2.6.169
अनुष्टुप्
ते ललाटे भ्रमरकाः काकपक्षः शिखण्डकः ॥ ९६ ॥
2.6.96
अनुष्टुप्
कबरी केशवेशोऽथ धम्मिल्लः संयताः कचाः ।
2.6.171
अनुष्टुप्
शिखा चूडा केशपाशी व्रतिनस्तु सटा जटा ॥ ९७ ॥
2.6.97
अनुष्टुप्
वेणी प्रवेणी शीर्षण्यशिरस्यौ विशदे कचे ।
2.6.173
अनुष्टुप्
पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे ॥ ९८ ॥
2.6.98
अनुष्टुप्
तनूरुहं रोम लोम तद्वृद्धौ श्मश्रु पुम्मुखे ।
2.6.175
अनुष्टुप्
आकल्पवेषौ नेपथ्यं प्रतिकर्म प्रसाधनम् ॥ ९९ ॥
2.6.99
अनुष्टुप्
दशैते त्रिष्वलङ्कर्तालङ्करिष्णुश्च मण्डितः ।प्रसाधितोऽलङ्कृतश्च भूषितश्च परिष्कृतः ॥ १०० ॥
2.6.100
अनुष्टुप्
विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलङ्क्रिया ।
2.6.178
अनुष्टुप्
अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम् ॥ १०१ ॥मण्डनं चाथ मुकुटं किरीटं पुन्नपुंसकम् ।
2.6.179
अनुष्टुप्
चूडामणिः शिरोरत्नं तरलो हारमध्यमगः ॥ १०२ ॥
2.6.102
अनुष्टुप्
वालपाश्या पारितथ्या पत्रपाश्या ललाटिका ।
2.6.181
अनुष्टुप्
कर्णिका तालपत्रं स्यात्कुण्डलं कर्णवेष्टनम् ॥ १०३ ॥
2.6.103
अनुष्टुप्
ग्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका ।
2.6.183
अनुष्टुप्
स्वर्णैः प्रालम्बिकाथोरःसूत्रिका मौक्तिकैः कृता ॥ १०४ ॥हारो मुक्तावली देवच्छन्दोऽसौ शतयष्टिका ।हारभेदा यष्टिभेदाद्गुच्छगुच्छार्धगोस्तनाः ॥ १०५ ॥
2.6.105
अनुष्टुप्
अर्धहारो माणवक एकावल्येकयष्टिका ।
2.6.185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
सैव नक्षत्रमाला स्यात्सप्तविंशतिमौक्तिकैः ॥ १०६ ॥
2.6.106
अनुष्टुप्metre not read in every line
आवापकः पारिहार्यः कटको वलयोऽस्त्रियाम् ।
2.6.187
अनुष्टुप्
केयूरमङ्गदं तुल्ये अङ्गुलीयकमूर्मिका ॥ १०७ ॥
2.6.107
अनुष्टुप्
साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम् ।
2.6.189
अनुष्टुप्
स्त्रीकट्यां मेखला काञ्ची सप्तमी रशना तथा ॥ १०८ ॥क्लीबे सारसनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु ।
2.6.190
अनुष्टुप्
पादाङ्गदं तुलाकोटिर्मञ्जीरो नूपुरोऽस्त्रियाम् ॥ १०९ ॥
2.6.109
अनुष्टुप्
हंसकः पादकटकः किङ्किणी क्षुद्रघण्टिका ।
2.6.192
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ल (wrong syllable)
त्वक्फलकृमिरोमाणि वस्त्रयोनिर्दश त्रिषु ॥ ११० ॥
2.6.110
अनुष्टुप्metre not read in every line
वाल्कं क्षौमादि फालं तु कार्पासं बादरं च तत् ।
2.6.194
अनुष्टुप्
कौशेयं कृमिकोशोत्थं राङ्कवं मृगरोमजम् ॥ १११ ॥
2.6.111
अनुष्टुप्
अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरे ।
2.6.196
अनुष्टुप्
तत्स्यादुद्गमनीयं यद्धौतयोर्वस्त्रयोर्युगम् ॥ ११२ ॥
2.6.112
अनुष्टुप्
पत्रोर्णं धौतकौशेयं बहुमूल्यं महाधनम् ।
2.6.198
अनुष्टुप्
क्षौमं दुकूलं स्याद्द्वे तु निवीतं प्रावृतं त्रिषु ॥ ११३ ॥
2.6.113
अनुष्टुप्
स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोर्द्वयोः ।
2.6.200
अनुष्टुप्
दैर्घ्यमायाम आरोहः परिणाहो विशालता ॥ ११४ ॥
2.6.114
अनुष्टुप्
पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ ।
2.6.202
अनुष्टुप्
वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम् ॥ ११५ ॥
2.6.115
अनुष्टुप्
सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूलशाटकः ।
2.6.204
अनुष्टुप्
निचोलः प्रच्छदपटः समौ रल्लककम्बलौ ॥ ११६ ॥
2.6.116
अनुष्टुप्
अन्तरीयोपसंव्यानपरिधानान्यधोंशुके ।
2.6.206
अनुष्टुप्
द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ ११७ ॥
2.6.117
अनुष्टुप्
संव्यानमुत्तरीयं च चोलः कूर्पासकोऽस्त्रियाम् ।
2.6.208
अनुष्टुप्
नीशारः स्यात्प्रावरणे हिमानिलनिवारणे ॥ ११८ ॥
2.6.118
अनुष्टुप्
अर्धोरुकं वरस्त्रीणां स्याच्चण्डातकमस्त्रियाम् ।
2.6.210
अनुष्टुप्
स्यात्त्रिष्वाप्रपदीनं तत्प्राप्नोत्याप्रपदं हि यत् ॥ ११९ ॥
2.6.119
अनुष्टुप्
अस्त्री वितानमुल्लोचो दूष्याद्यं वस्त्रवेश्मनि ।
2.6.212
अनुष्टुप्
प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा ॥ १२० ॥
2.6.120
अनुष्टुप्
परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा ।
2.6.214
अनुष्टुप्
उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः ॥ १२१ ॥स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम् ।अनुबोधः पत्रलेखा पत्राङ्गुलिरिमे समे ॥ १२२ ॥
2.6.122
अनुष्टुप्
तमालपत्रतिलकचित्रकाणि विशेषकम् ।
2.6.216
अनुष्टुप्
द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कुमम् ॥ १२३ ॥काश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने ।रक्तसंकोचपिशुनं धीरं लोहितचन्दनम् ॥ १२४ ॥
2.6.124
अनुष्टुप्
लाक्षा राक्षा जतु क्लीबे यावोऽलक्तो द्रुमामयः ।
2.6.218
अनुष्टुप्
लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम् ॥ १२५ ॥
2.6.125
अनुष्टुप्
कालीयकं च कालानुसार्यं चाथ समार्थकम् ।वंशिकागुरुराजार्हलोहकृमिजजोङ्गकम् ॥ १२६ ॥
2.6.126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ह (wrong syllable)
कालागुर्वगुरु स्यात्तु मङ्गल्या मल्लिगन्धि यत् ।
2.6.221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
यक्षधूपः सर्जरसो रालसर्वरसावपि ॥ १२७ ॥बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ ।
2.6.222
अनुष्टुप्metre not read in every line
तुरुष्कः पिण्डकः सिह्लो यावनोऽप्यथ पायसः ॥ १२८ ॥श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ ।
2.6.223
अनुष्टुप्
मृगनाभिर्मृगमदः कस्तूरी चाथ कोलकम् ॥ १२९ ॥कक्कोलकं कोशफलमथ कर्पूरमस्त्रियाम् ।घनसारश्चन्द्रसंज्ञः सिताभ्रो हिमवालुका ॥ १३० ॥
2.6.130
अनुष्टुप्
गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम् ।
2.6.225
अनुष्टुप्
तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥ १३१ ॥
2.6.131
अनुष्टुप्
तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम् ।कुचन्दनं चाथ जातीकोशजातीफले समे ॥ १३२ ॥
2.6.132
अनुष्टुप्
कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः ।
2.6.228
अनुष्टुप्
गात्रानुलेपनी वर्तिर्वर्णकं स्याद्विलेपनम् ॥ १३३ ॥
2.6.133
अनुष्टुप्
चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु ।
2.6.230
अनुष्टुप्
संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम् ॥ १३४ ॥
2.6.134
अनुष्टुप्
माल्यं मालास्रजौ मूर्ध्नि केशमध्ये तु गर्भकः ।
2.6.232
अनुष्टुप्
प्रभ्रष्टकं शिखालम्बि पुरोन्यस्तं ललामकम् ॥ १३५ ॥
2.6.135
अनुष्टुप्
प्रालम्बमृजुलम्बि स्यात्कण्ठाद्वैकक्षिकं तु तत् ।
2.6.234
अनुष्टुप्
यत्तिर्यक्क्षिप्तमुरसि शिखास्वापीडशेखरौ ॥ १३६ ॥
2.6.136
अनुष्टुप्
रचना स्यात्परिस्यन्द आभोगः परिपूर्णता ।
2.6.236
अनुष्टुप्
उपधानं तूपबर्हः शय्यायां शयनीयवत् ॥ १३७ ॥शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः ।
2.6.237
अनुष्टुप्
गेन्दुकः कन्दुको दीपः प्रदीपः पीठमासनम् ॥ १३८ ॥
2.6.138
अनुष्टुप्
समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः ।
2.6.239
अनुष्टुप्
प्रसाधनी कङ्कतिका पिष्टातः पटवासकः ॥ १३९ ॥
2.6.139
अनुष्टुप्