कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārthārṇavasaṃkṣepa

नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa

5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)

चतुरक्षरकाण्डः (6/9)

मयूरस्य शिखण्डे स्यात् कृकलासान्तरे पुनः ।नानावर्णकरे द्वे स्याद् बिम्बाख्ये च प्रभञ्जनः ॥ ३३५ ॥
6.335 · p. 55
अनुष्टुप्
पुमान् समीरणेऽत्रापि समासार्थादि पूर्ववत् ।उत्से प्रस्रवणं क्लीबं प्रसूतौ चाथ पर्वते ॥ ३३६ ॥
6.336 · p. 55
अनुष्टुप्
माल्यवानिति विख्याते समासाद्यत्र पूर्ववत् ।प्रतारिका तु स्त्री नाभौ वञ्चके त्रिः प्रतारकः ॥ ३३७ ॥
6.337 · p. 55
अनुष्टुप्
अत्रापि पूर्ववत् सादि पुमांस्तु स्यात् प्रजाकरः ।खड्गेऽत्रापि समासार्थलिङ्गान्यूह्यानि पूर्ववत् ॥ ३३८ ॥
6.338 · p. 55
अनुष्टुप्
प्रतापसो ना श्वेतार्के द्वयोस्तु स्यान्मृगान्तरे ।मृगशृङ्गे समासार्थलिङ्गाद्यत्रापि पूर्ववत् ॥ ३३९ ॥
6.339 · p. 55
अनुष्टुप्
प्रद्योतनस्तु ना सूर्ये दीप्तौ क्ल्यर्थादि पूर्ववत् ।न ना प्रसरणी ख्यात आसारे युद्धकारिणाम् ॥ ३४० ॥
6.340 · p. 55
अनुष्टुप्
क्लीबं विसरणेऽत्रापि समासार्थादि पूर्ववत् ।प्रकीर्णकं चामरे क्ली द्वयोस्त्वश्वे त्रिषु त्विदम् ॥ ३४१ ॥
6.341 · p. 55
अनुष्टुप्
सङ्कीर्णे पूर्ववत् सादिरत्राथ स्यात् प्रवासना ।न ना विवासने चापि वधेऽप्यर्थादि पूर्ववत् ॥ ३४२ ॥
6.342 · p. 55
अनुष्टुप्
प्रमापणा तु न पुमान् ज्ञापने (उ ? च) वधेऽपि च ।प्रबोधना तु न पुमान् ज्ञापनेऽप्यनुवोधने ॥ ३४३ ॥
6.343 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आलेपविषये क्ली तु प्रबुद्धौ सादि पूर्ववत् ।प्रसाधना तु न पुमानभ्यङ्गप्रतिकर्मणोः ॥ ३४४ ॥
6.344 · p. 55
अनुष्टुप्
शुश्रूषायां च नृस्त्री तु कङ्कते स्यात् प्रसाधनी ।प्रसादनस्तु प्रासादे पुमान् स्यादोदने तु नप् ॥ ३४५ ॥
6.345 · p. 56
अनुष्टुप्
न ना प्रसन्नीकरणे स्त्री तु प्रसहनी भवेत् ।लताबृहत्यां क्लीबे तु भवेत् प्रसहनं तथा ॥ ३४६ ॥
6.346 · p. 56
अनुष्टुप्
अभिभूतौ समासादि पूर्ववत् स्यादथो पुमान् ।प्रसर्पको दर्शनाय यज्ञस्थानमुपागते ॥ ३४७ ॥
6.347 · p. 56
अनुष्टुप्
प्रसर्प्तरि पुनस्त्रि स्यादर्थलिङ्गादि पूर्ववत् ।प्रवङ्गमः कपौ भेके द्वे द्वे तु कपिभेकयोः ॥ ३४८ ॥
6.348 · p. 56
अनुष्टुप्
प्लवङ्गमोऽथ स्त्री दण्डहीनस्रुचि परिप्लवा ।चञ्चले पुनरेष त्रिरथो परिणतः पुमान् ॥ ३४९ ॥
6.349 · p. 56
अनुष्टुप्
तिर्यग्दन्तप्रहारे स्याद् गजे प्रौढे तु स त्रिषु ।परिशुष्कं पुनर्मांसे घृते सिक्तोष्णवारिणि ॥ ३५० ॥
6.350 · p. 56
अनुष्टुप्
पक्वे मृदुनि युक्ते स्यात् कणादिभिरिदं नपि ।शुष्कमात्रे तु तत् त्रि स्यादथोपकरणे पुमान् ॥ ३५१ ॥
6.351 · p. 56
अनुष्टुप्
परिच्छदो जातिभेदे शबरीविप्रजे द्वयोः ।पटच्चरं तु जीर्णे क्ली वस्त्रे भूम्नि तु पुंस्यदः ॥ ३५२ ॥
6.352 · p. 56
अनुष्टुप्
मध्यदेशगते नीवृद्विशेषे स्युः पटच्चराः ।परम्परा तु वस्तूनां सन्ताने स्त्री द्वयोः पुनः ॥ ३५३ ॥
6.353 · p. 56
अनुष्टुप्
पुत्रपौत्रादिमालायां स्याद्गृहस्थस्य पञ्चमे ।षष्ठे च मृगभेदे च गोकर्ण इति विश्रुते ॥ ३५४ ॥
6.354 · p. 56
अनुष्टुप्
पलङ्कषा पुनः स्त्री स्याद् गोक्षुरे गुल्गुलौ तु ना ।पचम्पचा तु स्त्री दार्व्यां ना तु चम्पकपादपे ॥ ३५५ ॥
6.355 · p. 56
अनुष्टुप्
पर्परीकस्तु ना वह्नौ भक्षे च द्वे तु कुक्कुरे ।कुररे पर्परीका तु पुंस्य नापाकरे(?) त्रि तु ॥ ३५६ ॥
6.356 · p. 57
अनुष्टुप्
अप्रत्तौ(?) परजातस्तु द्वे दासे सादि पूर्ववत् ।परैधितस्तु द्वे दासे लिङ्गाद्यत्रापि पूर्ववत् ॥ ३५७ ॥
6.357 · p. 57
अनुष्टुप्
पञ्चाङ्गुलस्तु पुंसि स्यादेरण्डाह्वयपादपे ।पञ्चाङ्गुलिप्रमाणे तु त्रिष्वथो वह्निवातयोः ॥ ३५८ ॥
6.358 · p. 57
अनुष्टुप्
पवमानो विशेषाच्च गार्हपत्याख्यपावके ।यज्ञस्तोत्रविशेषेषु त्रिष्वप्येष पुमांस्त्रि तु ॥ ३५९ ॥
6.359 · p. 57
अनुष्टुप्
कारके पवनाख्यस्य कर्मणोऽथ नपुंसकम् ।पर्याणे स्यात् पल्ययनं द्वे तु पुत्रस्य पञ्चमे ॥ ३६० ॥
6.360 · p. 57
अनुष्टुप्
परम्पराख्ये सन्ताने पलगण्डस्तु लेपके ।भित्त्यादेः सुधया मर्त्यजातिभेदेऽपि च द्वयोः ॥ ३६१ ॥
6.361 · p. 57
अनुष्टुप्
किरातात् करणीजाते पट्टबन्धः पुनर्द्वयोः ।पत्यौ जीवति जारेण जनितः क्षत्त्रियेण यः ॥ ३६२ ॥
6.362 · p. 57
अनुष्टुप्
क्षत्त्रियायां भवेत् तस्मिन् नाम्ना क्षत्त्रियकुण्डके ।पूर्ववत् स्यात् समासाद्यमथो परकुलो द्वयोः ॥ ३६३ ॥
6.363 · p. 57
अनुष्टुप्
मन्त्राख्ये जलमार्जारे समासार्थादि पूर्ववत् ।पयोगर्भस्तु ना मेघे समासार्थादि पूर्ववत् ॥ ३६४ ॥
6.364 · p. 57
अनुष्टुप्
पचेलिमस्तु ना वह्नौ माषे च द्वे तुरङ्गमे ।पद्मासनो विरिञ्चे ना क्ली तु स्यादासनान्तरे ॥ ३६५ ॥
6.365 · p. 57
अनुष्टुप्
अत्रापि पूर्ववत् सादि प्रत्यग्वृष्टिः पुनः स्त्रियाम् ।मीमांसने समासादि पूर्ववत् स्यादथो पुमान् ॥ ३६६ ॥
6.366 · p. 57
अनुष्टुप्
यस्याकृतविवाहस्य कनीयान् दारसङ्ग्रही ।परिवित्तिः स्मृतस्तस्मिन् स्त्रियां तु परिवेदने ॥ ३६७ ॥
6.367 · p. 58
अनुष्टुप्
प्रतिहर्ता त्रिषु ज्ञेयः प्रतिनेतरि तस्करे ।साम्नस्तु प्रतिहाराख्यभक्तेर्नर्त्विजि गातरि ॥ ३६८ ॥
6.368 · p. 58
अनुष्टुप्
अथो परशुभृद्विघ्नराजे ना त्रिः कुठारिणि ।परमेष्ठी विरिञ्चे ना स्त्र्युमायां परमेष्ठिनी ॥ ३६९ ॥
6.369 · p. 58
अनुष्टुप्
त्रिरुत्तमेऽन्यः कश्चित् तु निर्वृतेऽन्यो हरादिषु ।परिवादिध्वनिस्तु स्यात् परिवादवति त्रिषु ॥ ३७० ॥
6.370 · p. 58
अनुष्टुप्
तथापवादशीले च स्त्रियां नु परिवादिनी ।वीणायामथ पुंसि स्यात् पारावत इति ध्वनिः ॥ ३७१ ॥
6.371 · p. 58
अनुष्टुप्
अतस्यां व्रीहिभेदे च तरुभेदेन्द्रनीलयोः ।पारावते वर्णभेद ईषत्पाण्डावथ त्रिषु ॥ ३७२ ॥
6.372 · p. 58
अनुष्टुप्
तद्युक्तार्थे च नीचे च क्ली तु (वर्मेऽपि ?) शाखिनः ।अत्रोक्तस्य फले द्वे तु कपोते गृहवर्तिनि ॥ ३७३ ॥
6.373 · p. 58
अनुष्टुप्metre not read in every line
द्वे तु पारशवो विप्रस्योढशूद्रासुतेऽथ ना ।मौक्तिके नृनपोस्तु स्याल्लोहे कालायसाह्वये ॥ ३७४ ॥
6.374 · p. 58
अनुष्टुप्
शस्त्र इत्यभिधेयोक्तिर्दृष्टा पारशवध्वनेः ।पूर्वशास्त्रेषु (शञ्च ? शस्त्रे च) तत्रायोर्थो विवक्षितः ॥ ३७५ ॥
6.375 · p. 58
अनुष्टुप्metre not read in every line
अनालोच्यैव कथितं यादवैरिदमीदृशम् ।अयोर्थमुक्त्वा भूयोऽपि ह्यर्थमस्त्रतया पृथक् ॥ ३७६ ॥
6.376 · p. 58
अनुष्टुप्
अत्रापि पूर्ववत् सादि ना तु पाशुपतध्वनिः ।भूरुहे शिवमल्लीति प्रसिद्धे (ब)कसंज्ञके ॥ ३७७ ॥
6.377 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्रतभेदे त्वदः क्लीबं तथा पशुपतेः पुनः ।सम्बन्धिनि त्रिर्ना त्वब्धौ पारावारो नपि त्विमे ॥ ३७८ ॥
6.378 · p. 58
अनुष्टुप्
पारावारे परार्वाचोः कुलयोरसमाहृतौ ।समाहारे त्वेकवचः प्राजापत्यं पुनर्नपि ॥ ३७९ ॥
6.379 · p. 59
अनुष्टुप्
द्वादशाहकृते कृच्छ्रे गर्भाधानाख्यसस्कृ(ते?तौ) ।प्रजापतित्वे पत्यन्ताद् यक्प्रत्ययविधानतः ॥ ३८० ॥
6.380 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
केषुचित् सामभेदेषु कृतोद्वाहद्विजे तु ना ।विवाहभेदेष्वष्टासु द्वितीये गौतमोदिते ॥ ३८१ ॥
6.381 · p. 59
अनुष्टुप्
प्रजापतेस्त्वपत्ये द्वे तत्सम्बन्धिनि तु त्रिषु ।पत्युत्तरपदण्येन प्राणिद्यूतं तु पुन्नपोः ॥ ३८२ ॥
6.382 · p. 59
अनुष्टुप्
युद्धे पश्वहिपक्ष्याद्यैर्युद्धमात्रेऽप्यथो पुमान् ।प्रावृषेण्यः कदम्बद्रौ त्रिषु प्रावृड्भवादिषु ॥ ३८३ ॥
6.383 · p. 59
अनुष्टुप्
जातार्थादितरत्राथ प्राचेतस इति ध्वनिः ।ना वाल्मीकिमुनौ त्रिस्तु सम्बन्धे स्यात् प्रचेतसः ॥ ३८४ ॥
6.384 · p. 59
अनुष्टुप्
पितामहो विरिञ्चे ना पितुश्च जनके तथा ।पितामही तु स्त्री तत्र जनयित्र्यामथ द्वयोः ॥ ३८५ ॥
6.385 · p. 59
अनुष्टुप्
प्रियापत्यः कङ्कसंज्ञे शकुनौ सादि पूर्ववत् ।प्रियंवदा पुष्पवल्ल्यां मालतीनाम्नि सा स्त्रियाम् ॥ ३८६ ॥
6.386 · p. 59
अनुष्टुप्
प्रियस्य वक्तरि त्रि स्यादथ पिण्डफला स्त्रियाम् ।अलाबुवल्ल्यामत्रापि समासादिकमुन्नयेत् ॥ ३८७ ॥
6.387 · p. 59
अनुष्टुप्
पिण्डारको ना पिण्डीकसंज्ञवृक्षे द्वयोः पुनः ।चित्राङ्ग इति विख्याते व्याघ्रभेदे द्वयोः पुनः ॥ ३८८ ॥
6.388 · p. 59
अनुष्टुप्
पक्षिणि स्यात् पिपतिषत् पतितुं त्विच्छति त्रिषु ।पीनस्कन्धो वराहे द्वे समासादि तु पूर्ववत् ॥ ३८९ ॥
6.389 · p. 59
अनुष्टुप्
पीतपुष्पस्तु ना कासमर्दे कूश्माण्डकेऽपि च ।अत्रापि पूर्ववत् सादि पीलुपर्णी पुनः स्त्रियाम् ॥ ३९० ॥
6.390 · p. 59
अनुष्टुप्
दूर्वायां तुण्डिकेर्यां च समासाद्यत्र पूर्ववत् ।पीतदारु पुनः क्लीबं देवदारुणि चन्दने ॥ ३९१ ॥
6.391 · p. 60
अनुष्टुप्
ताम्रसारेऽथ लिङ्गादि पूर्ववत् कल्पयेदिह ।पुण्डरीकं सिते छत्रे कुष्ठव्याध्यन्तरे तथा ॥ ३९२ ॥
6.392 · p. 60
अनुष्टुप्
पद्ममात्रे सिताम्भोजे वालुकाख्यविषान्तरे ।स्यादाम्रस्य फले गन्धद्रव्ये मदनकाह्वये ॥ ३९३ ॥
6.393 · p. 60
अनुष्टुप्
क्लीबं ना त्वग्निदिग्भागगजे हस्तिज्वरान्तरे ।इक्षुजातिप्रभेदे च शालिजात्यन्तरेऽपि च ॥ ३९४ ॥
6.394 · p. 60
अनुष्टुप्
इतिहासप्रसिद्धे च विष्णुभक्ते द्विजान्तरे ।द्वयोस्तु सर्पभेदाः स्तू राजिलाख्यास्त्रयोदश ॥ ३९५ ॥
6.395 · p. 60
अनुष्टुप्
तेषामेकत्र भेदे च व्याघ्रे च कथितो बुधैः ।अनूपमांसवर्गस्य मध्ये यः प्लवसंज्ञकः ॥ ३९६ ॥
6.396 · p. 60
अनुष्टुप्
हंसादिर्गण उद्दिष्टस्तत्र चैकत्र पक्षिणि ।पुष्पदन्तस्तु ना वायुदिग्गजे शार्ङ्गधन्वनः ॥ ३९७ ॥
6.397 · p. 60
अनुष्टुप्
चतुर्णामपि चाश्वानामेकस्मिंश्चन्द्रसूर्ययोः ।सहोक्तौ पुष्पदन्तौ स्तः समासाद्यत्र पूर्ववत् ॥ ३९८ ॥
6.398 · p. 60
अनुष्टुप्
कपित्थे ना पुष्पफलः क्ली तु द्वन्द्वे समाहृतौ ।कूश्माण्डे तु पुमान् पुष्यफलो लिङ्गादि पूर्ववत् ॥ ३९९ ॥
6.399 · p. 60
अनुष्टुप्
पुनर्वसुर्वररुचौ पुमान्नारायणे तथा ।अदितेस्त्वपि नक्षत्रे द्विवचोन्तः पुनर्वसू ॥ ४०० ॥
6.400 · p. 60
अनुष्टुप्
तद्युक्ते कालमात्रे च तत्र जाते त्रिषु स्मृतः ।तस्मिन्नर्थे यथायोगं सर्वाणि वचनान्यपि ॥ ४०१ ॥
6.401 · p. 60
अनुष्टुप्
पुरोगामी शुनि द्वे स्यात् त्रिषु तु स्यात् पुरस्सरे ।पूर्णपात्रस्तु नृनपोरुत्सवेषु सुहृज्जनैः ॥ ४०२ ॥
6.402 · p. 60
अनुष्टुप्
गृह्यते वस्त्रमाल्यादि बलादाकृष्य तत्र यत् ।यम्य प्रमाणमुष्टीनां पत्पञ्चाशच्छतद्वयम् ॥ ४०३ ॥
6.403 · p. 61
अनुष्टुप्
तत्रापि तण्डुलाद्येऽथ पूर्णे पात्रे जलादिना ।लिङ्गत्रयं स्यादत्रार्थे पूर्णानकपदं पुनः ॥ ४०४ ॥
6.404 · p. 61
अनुष्टुप्
उत्सवेषु सुहृद्भिर्यद् बलादाकृष्य गृह्यते ।वस्त्रमाल्यादि तत्र क्ली न तु स्त्री पूर्ण आनके ॥ ४०५ ॥
6.405 · p. 61
अनुष्टुप्
पूर्णकोशा प्रशस्तायां क्वचित् स्यादोषधौ स्त्रियाम् ।अपूपे तु पुमानत्र समासादीनि पूर्ववत् ॥ ४०६ ॥
6.406 · p. 61
अनुष्टुप्
पूर्णकूटो द्वयोः कूटपूरिसंज्ञे विहङ्गमे ।चापसंज्ञे च लिङ्गार्थसमासाः पूर्ववत् स्मृताः ॥ ४०७ ॥
6.407 · p. 61
अनुष्टुप्
पूतिपुष्पी मातुलुङ्ग्यां स्त्री समासादि पूर्ववत् ।स्त्री तु पूतिफली सोमराजीति प्रथितौषधौ ॥ ४०८ ॥
6.408 · p. 61
अनुष्टुप्
पूर्वत्रेवात्र लिङ्गादि पुल्लिँङ्गस्तु पृषातकः ।साज्ये दध्नि क्ली तु दुग्धे निषिक्तघृतके भवेत् ॥ ४०९ ॥
6.409 · p. 61
अनुष्टुप्
पृथुच्छदस्तु ना शाकसंज्ञवृक्षेऽथ पूर्ववत् ।समासादिकमत्रापि पृथुहस्तस्तु हस्तिनः ॥ ४१० ॥
6.410 · p. 61
अनुष्टुप्
ऊर्ध्वं कृत्वाङ्गुलेः सप्त भागान् भागे च सप्तमे ।पूर्ववत् स्यात् समासादि पृथुचित्रः पुनर्नरि ॥ ४११ ॥
6.411 · p. 61
अनुष्टुप्
कुण्डप्रमितधान्यस्य गृहस्थे सङ्ग्रहीतरि ।सादि पूर्ववदत्रापि पृथुरोमा पुनर्झषे ॥ ४१२ ॥
6.412 · p. 61
अनुष्टुप्
पूर्ववत् स्यात् समासादि ना तु प्रेतालयो द्रुमे ।शाकोटाख्ये समासादि पूर्ववन्ना पुनर्नडे ॥ ४१३ ॥
6.413 · p. 61
अनुष्टुप्
काशे च स्यात् पोडगलो वैकरञ्जाख्यभोगिनाम् ।भवेत् त्रयाणामेकत्र द्वे अथो पोषयित्नुवाक् ॥ ४१४ ॥
6.414 · p. 61
अनुष्टुप्
ना मेघे कोकिले तु द्वे पौरुषेयं पुनस्त्रिषु ।पुरुषेण कृते तस्य विकारे च वधेऽथ नप् ॥ ४१५ ॥
6.415 · p. 62
अनुष्टुप्
वृन्दे पौरोहितं तु त्रि सम्बन्धिनि पुरोधसः ।अथर्ववेदे तु क्लीबं द्वयोस्तु स्यात् फलाशनः ॥ ४१६ ॥
6.416 · p. 62
अनुष्टुप्
शुके पूर्ववदत्रापि पाटल्यां तु फलेरुहा ।स्त्री ना तु तालवृक्षे स्याद् वन्धुजीवः पुनर्नरिः ॥ ४१७ ॥
6.417 · p. 62
अनुष्टुप्
बन्धूके तस्य पुष्पे क्ली समासाद्यत्र पूर्ववत् ।शतावर्यां बहुसुता स्त्री समासादि पूर्ववत् ॥ ४१८ ॥
6.418 · p. 62
अनुष्टुप्
बहुरूपो महादेवे पुंस्यराल इति श्रुते ।स्यान्निर्यासविशेषे च समासाद्यत्र पूर्ववत् ॥ ४१९ ॥
6.419 · p. 62
अनुष्टुप्
बहुप्रजो द्वे वराहे समासादि च पूर्ववत् ।बलिपुष्टो द्वयोः काके समासादीनि पूर्ववत् ॥ ४२० ॥
6.420 · p. 62
अनुष्टुप्
ब्रह्मघोषस्तु गरलविशेषे पुन्नपुंसकम् ।वेदघोषे तु पुल्लिँङ्गः समासादीनि पूर्ववत् ॥ ४२१ ॥
6.421 · p. 62
अनुष्टुप्
ब्रह्मदण्डः पुनः पुंसि धनुर्भेदे स्त्रियां पुनः ।भार्ङ्गीसंज्ञौषधे ब्रह्मदण्डी स्यादोषधौ क्वचित् ॥ ४२२ ॥
6.422 · p. 62
अनुष्टुप्
सादि पूर्ववदत्रापि ब्रह्मपुत्रस्तु ना विषे ।ब्रह्मवालुकसंज्ञे स्याद् रुद्रे केतुग्रहेऽपि च ॥ ४२३ ॥
6.423 · p. 62
अनुष्टुप्
अत्रापि पूर्ववत् सादि ब्रह्मचारी पुनर्नरि ।उपनीते तथा स्कन्दे स्त्रियां तु ब्रह्मचारिणी ॥ ४२४ ॥
6.424 · p. 62
अनुष्टुप्
दुर्गायां त्रिषु तु ज्ञेयः स्यादमैथुनकारिणि ।बाहुलेयस्तु ना स्कन्दे द्वयोस्तु बहुलासुते ॥ ४२५ ॥
6.425 · p. 62
अनुष्टुप्
बालवत्सो द्वयोरुक्तः कपोताख्यविहङ्गमे ।पारावताख्यादन्यस्मिन् समासादीनि पूर्ववत् ॥ ४२६ ॥
6.426 · p. 62
अनुष्टुप्
बिलखण्डं रक्तपद्मे क्ली समासादि पूर्ववत् ।विलेशयो द्वे नकुले मूषिके मुजगेऽपि च ॥ ४२७ ॥
6.427 · p. 63
अनुष्टुप्
विलेशया तु गोधायां स्त्री स्याद्वृन्दारकः पुनः ।द्वे देवे त्रि तु मुख्येऽपि सुन्दरेऽथ बृहच्छदः ॥ ४२८ ॥
6.428 · p. 63
अनुष्टुप्
ना शोथशत्रुसंज्ञे स्यात् स्तम्बे सादीनि पूर्ववत् ।बोधनीया स्त्रियां वृद्धिसंज्ञके भेषजान्तरे ॥ ४२९ ॥
6.429 · p. 63
अनुष्टुप्
त्रि तु बोधयितत्र्ये च बोद्धव्ये चाप्यथ द्वयोः ।भयानको वराहेऽपि व्याघ्रे स्यान्मूषिकान्तरे ॥ ४३० ॥
6.430 · p. 63
अनुष्टुप्
भट्टारको ना नाट्योक्तौ राज्ञि पूज्ये च पूरुषे ।स्त्री तु भट्टारिका ज्ञेया नाट्योक्तावेव मातरि ॥ ४३१ ॥
6.431 · p. 63
अनुष्टुप्
भ्रमरेष्टस्तु पुंस्याम्रे नीपे जम्बूटपादपे ।पूर्ववत् स्यात् समासादि भारद्वाजः पुनर्द्वयोः ॥ ४३२ ॥
6.432 · p. 63
अनुष्टुप्
व्याघ्राटाख्ये पक्षिभेद ऋषिभेदे तु पुंस्ययम् ।स्त्रियां तु वन्यकार्पास्यां भारद्वाजी द्वयोः पुनः ॥ ४३३ ॥
6.433 · p. 63
अनुष्टुप्
भरद्वाजस्य वंश्येषु सम्बन्धिनि पुनस्त्रिषु ।भागधेयं तु भाग्ये क्ली दायादे तु पुमानयम् ॥ ४३४ ॥
6.434 · p. 63
अनुष्टुप्
राजदेयकरे न क्ली भागधेयी द्वयोः पुनः ।जाते भागवतो व्रात्याद्वैश्या क्षत्त्रिपूर्विका ॥ ४३५ ॥
6.435 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
या तस्यां त्रिस्तु भगवत्सम्बन्धिनि पुमान् पुनः ।भारस्य वहने भारवाहः क्लीबं तु वाजिनः ॥ ४३६ ॥
6.436 · p. 63
अनुष्टुप्
रेचिताख्यगतौ त्रिस्तु तद्वति स्याच्च वोढरि ।भारस्य भासयन्तस्तु भास्करे पुंस्यथ त्रिषु ॥ ४३७ ॥
6.437 · p. 63
अनुष्टुप्
विज्ञेयो भासयितरि स्त्र्यर्थे तत्रापि ङीष्यथ ।भासयन्ती भिन्नकुम्भः पुनस्त्रिर्दास्यमोचिते ॥ ४३८ ॥
6.438 · p. 64
अनुष्टुप्
पूर्ववत् स्यात् समासादि भीरुचेताः पुनर्द्वयोः ।मृगे पूर्ववदत्रापि भूतकेशी पुनः स्त्रियाम् ॥ ४३९ ॥
6.439 · p. 64
अनुष्टुप्
(शिते?) शेफालिकायां स्याद्गोलोम्यां तु पुमानयम् ।अत्रापि पूर्ववत् सादि ज्ञेयं भूरिफला पुनः ॥ ४४० ॥
6.440 · p. 64
अनुष्टुप्metre not read in every line
अन्यस्मिन् पुष्पवल्लेः स्त्री स्थावरे सप्तलाह्वये ।अत्रापि पूर्ववत् सादि भृङ्गराजः पुनः पुमान् ॥ ४४१ ॥
6.441 · p. 64
अनुष्टुप्
वास्तुदेवविशेषे स्याद् यो दक्षिणपदावलेः ।वास्तुनः सप्तमपदे प्राक्त आरभ्य वर्तते ॥ ४४२ ॥
6.442 · p. 64
अनुष्टुप्
स्थावरे मार्कराख्ये च द्वे तु धूम्याटभृङ्गयोः ।द्वयोस्तु भृज्जकण्ठः स्यान्मर्त्यजात्यन्तरे द्विजात् ॥ ४४३ ॥
6.443 · p. 64
अनुष्टुप्
वैश्यायां जनिते जाते व्रात्याच्च द्विजयोषिति ।भोजनीयं तु सामुद्रलवणे क्ली त्रिषु त्वदः ॥ ४४४ ॥
6.444 · p. 64
अनुष्टुप्
भोक्तव्यादौ महादेवः पुनर्ना परमेश्वरे ।पार्वत्यां तु महादेवी स्त्रियां राज्ञश्च योषिति ॥ ४४५ ॥
6.445 · p. 64
अनुष्टुप्
ज्ञेया कृताभिषेकायां समासाद्यत्र पूर्ववत् ।महानटस्तु ना भर्गे समासाद्यत्र पूर्ववत् ॥ ४४६ ॥
6.446 · p. 64
अनुष्टुप्
महाव्रतस्तु शम्भौ ना क्ली त्वेकाहमखान्तरे ।व्रते तु महति क्लीबे पुंसि चार्थादि पूर्ववत् ॥ ४४७ ॥
6.447 · p. 64
अनुष्टुप्
महेश्वरस्तु ना मृत्युञ्जये स्याद्गुल्गुलावपि ।महेश्वरी तु स्त्री ब्रह्मरीतिसंज्ञकलोहके ॥ ४४८ ॥
6.448 · p. 64
अनुष्टुप्
महावीरो महादेवे पावके गरुडे च ना ।सोमवंशसमुद्भूते वृहद्रथसुते नृपे ॥ ४४९ ॥
6.449 · p. 64
अनुष्टुप्
प्रवर्ग्यपात्रे सुभटे वीरे वज्रेऽप्यथ त्रिषु ।प्रवरे द्वे तु हंसे च श्वेताश्वे च खगेऽपि च ॥ ४५० ॥
6.450 · p. 65
अनुष्टुप्
अत्र पि पूर्ववत् सादि महासेनस्तु ना गुहे ।अत्रापि पूर्ववत् सादि महापुत्रः पुनस्त्रिषु ॥ ४५१ ॥
6.451 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 पि (wrong syllable)
समृद्धे कथितः सद्भिर्हस्त्यारो धिपे तु ना ।अत्रापि पूर्ववत् सादि महासर्पः पुनर्द्वयोः ॥ ४५२ ॥
6.452 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
षड्विंशतिप्रभेदानां दर्वीकरफणामृताम् ।एकभेदे नपि त्वेतत् संसर्पाख्येषु सामसु ॥ ४५३ ॥
6.453 · p. 65
अनुष्टुप्
दशस्वपि समासादि पूर्वत्रेवात्र तर्कयेत् ।महापद्मो द्वयोर्दर्वीकरसंज्ञफणाभृताम् ॥ ४५४ ॥
6.454 · p. 65
अनुष्टुप्