कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śabdaratnāvalī

शब्दरत्नावली Śabdaratnāvalī

4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)

भूमिकाण्डः · सिंहादिवर्गप्रकाशः (4/4)

क्षौमं क्षोमं दुकूलञ्च सूक्ष्मवस्त्रे भवेत् त्रयम् ।निवीतं प्राकृतञ्चेति वस्त्रे परिहिते त्रिषु ॥
3.5.361 · p. 106
अनुष्टुप्
वर्तिर्वर्ती द्वयोर्वस्तिर्बहुत्वे च दशा स्त्रियाम् ।असंख्येकाधिकरणे द्वित्वैकत्वे तदन्यतः (?) ॥
3.5.362 · p. 106
अनुष्टुप्
दैर्घ्यमायाम आरोहः दीर्घतायामिदं त्रयम् ।ओसार इति विख्याते परिणाहो विशालता ॥
3.5.363 · p. 106
अनुष्टुप्
सामान्ये च विशालत्वे क्वचित् केचित् प्रचक्षते ।पुराणवसने ज्ञेयं जीर्णवस्त्रं पटच्चरम् ॥
3.5.364 · p. 106
अनुष्टुप्
खण्डखण्डे जीर्णवस्त्रे स्यातां नक्तककर्पटौ ।वस्त्रं वासश्च वसनं वासनं सिचयोंऽशुकम् ॥
3.5.365 · p. 106
अनुष्टुप्
च्छादनाच्छादनं प्रोतं चेलं बासमपि क्वचित् ॥
3.5.366 · p. 106
सुचेलकः पटोऽस्त्री तु प्रशस्तवसने द्वयम् ।पटिपटी वस्त्रभेदे पतीनाम्नी निगद्यते ॥
3.5.367 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
वराशिः स्याद्वरासिस्तु स्थूलशाटक इत्यपि ।पटवासः पटमयं शाटी शाटक इत्यपि ॥
3.5.368 · p. 106
अनुष्टुप्
निचोलः प्रच्छदपटः प्रच्छदो निचुलोऽपि च ।वेशको रोमयोनिः स्यात् कम्बलो रल्लकोऽपि च ॥
3.5.369 · p. 106
अनुष्टुप्
परिधानोपसंव्यानान्तरीयं स्यादधोंऽशुकम् ।प्रावार उत्तरासङ्गः संव्यानमुत्तरीयकम् ॥
3.5.370 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
तथा बृहतिका चेति द्वितीयवसनाह्वये ।कूर्पासकः कुञ्चुलिका कञ्चुली चोल इत्यपि ॥
3.5.371 · p. 106
अनुष्टुप्
निशारोऽपि च नीशारः काँठारादिसमाह्वये ।चण्डातकं वरस्त्रीणामर्धोरुप्राप्तवस्त्रके ॥
3.5.372 · p. 106
अनुष्टुप्
त्रिषु चाप्रपदीनं तत् पादाग्रप्रापितं हि यत् ।उल्लोचः स्यात् वितानोऽस्त्री चन्द्रा चन्द्रातपः पुमान् ।पटवासः पटमयं दूः षं वस्त्रगृहं स्थूलम् ॥
3.5.373 · p. 106
अनुष्टुप्metre not read in every line
खरग्रहः खरगृहं खरगेहे निगद्यते ॥
3.5.374 · p. 106
अथावगुण्ठिका चावगुण्ठनञ्च निरिङ्गिनी ।अन्तःपटो यवनिका स्यात् तिरस्करिणी पटी ।प्रतिसीरा जवनिका चित्रा कान्तपटोऽपि च ॥
3.5.375 · p. 106
अनुष्टुप्
प्रतिकर्माङ्गसंस्कारः स्यात्तथा परिकर्म च ।मार्ष्टिर्माष्टी मार्जना स्यात् मृजा मार्जनमित्यपि ॥
3.5.376 · p. 107
अनुष्टुप्
उच्छादनोद्वर्तनञ्च शरीरोद्वर्तने द्वयम् ।अथ स्नानञ्चाभिषेकः भवेदाप्लावः आप्लवः ॥
3.5.377 · p. 107
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 वः (wrong syllable)
स्थासकः स्थाषकश्चर्चा चार्चिक्यञ्च चतुष्टयम् ।वस्त्रादौ कुङ्कुमादीनां छटादिषु निगद्यते ॥
3.5.378 · p. 107
अनुष्टुप्
ललाटिका शङ्खचर्ची शङ्खपात्रस्थचन्दने ।स्नानादौ सौरभे व्यक्ते त्वनुरोधः प्रवोधनम् ॥
3.5.379 · p. 107
अनुष्टुप्
पत्राङ्गुलिः पत्रलेखा पत्रभङ्गी च पत्रकम् ।पत्रभङ्गिः पत्रभङ्गस्तथा पत्रावलीत्यपि ॥
3.5.380 · p. 107
अनुष्टुप्
तमालपत्रं चित्रं स्यात्तिलकञ्च विशेषकम् ।द्वयमस्त्री चित्रकञ्च तिलके चन्दनादिभिः ॥
3.5.381 · p. 107
अनुष्टुप्
सामालभनमुच्छित्तिरङ्गरागः कषायकम् ।कुङ्कुमं घुसृणं रक्तं सङ्कोचं हरिचन्दनम् ॥
3.5.382 · p. 107
अनुष्टुप्
पिशुनं शिखरं धीरं वरं लोहितचन्दनम् ।काश्मीरजन्म काश्मीरं खलमग्निशिखं रजम् ॥
3.5.383 · p. 107
अनुष्टुप्
दीपकं लोहितञ्चाग्रसौरभं चापि चन्दनम् ।लाक्षा राक्षा जतु क्लीबे जतुकं यावयावकौ ॥
3.5.384 · p. 107
अनुष्टुप्
द्रुमामयोऽलक्तकः स्यात् रक्तालक्तोऽपि कुत्रचित् ।श्रीसंज्ञं देवकुसुमं लवङ्गञ्च लवङ्गकम् ॥
3.5.385 · p. 107
अनुष्टुप्
कालीयकन्तु कालानुसार्यं जाषकजायकम् ।वंशिकं कृमिजं लोहं राजर्हागुरुजोङ्गकम् ॥
3.5.386 · p. 107
अनुष्टुप्
कालागुरु स्यादगुरु वंशिकं जोङ्गलाहकम् ।यद्भवेत् मल्लिकागन्धि मङ्गल्या संभवेदिह ॥
3.5.387 · p. 107
अनुष्टुप्
यक्षधूपः सर्वरसो रालः सर्जरसोऽपि च ।अवालो बहुरूपश्च विरूपोऽपि च कुत्रचित् ॥
3.5.388 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
अथ कृत्रिमधूपस्तु वृकधूप इति द्वयम् ।दशाङ्गप्रमुखे धूपे पर्यायः कथितः बुधैः ॥
3.5.389 · p. 107
अनुष्टुप्
सिह्लकः सिह्लपिण्याककपिचञ्चलयावनाः ।तैलाख्यः पिण्डको जीव वस्तुरुष्को यावनोऽपि च ॥
3.5.390 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
श्रीपिष्टः वृकधूपः स्यात् श्रीवासः सरलद्रवः ।श्रीवेष्टः पायासो यासो यवासोऽपि घृताह्वयः ॥
3.5.391 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
दधिक्षोराह्वयावक्रौ क्षीरश्रीरपि वायसः ।सालवेष्टः सर्जमानो द्वयं सालरसे मतम् ॥
3.5.392 · p. 107
अनुष्टुप्
कस्तुरिका च कस्तूरीमृगः कस्तूरिकामदः ।नाभीलता मृगमदो मृगनाभिर्मदाह्वयः ॥
3.5.393 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
मदो योजनगन्धा च मार्गोऽपि गन्धचेलिका ।कालाङ्गी धूपसञ्चारी मिश्रागन्धपिशाचिका ।पर्यायः स्वल्पकस्तूरी नाभिभेदे निगद्यते ॥
3.5.394 · p. 108
अनुष्टुप्metre not read in every line
कक्कोलकं कोषलकं कक्कोलं कोषकं तथा ।कर्पूरोऽस्त्री चन्द्रसंज्ञ इन्दुश्चन्द्रहिमाह्वयः ॥
3.5.395 · p. 108
अनुष्टुप्
सिताभ्रोऽपि शीताभ्रः सिताभो हिमावालुका ।घनसारश्चन्द्रभस्मवेधकौ रेणुसारकः ।चन्दनोऽस्त्री मलयजः पटीरो वर्णकोऽस्त्रियाम् ॥
3.5.396 · p. 108
अनुष्टुप्metre not read in every line
भद्राश्रयो गन्धसारः भद्रश्रीः सेव्यरोहिणौ ।तैलपर्णिकगोशीर्षे हरिचन्दनमस्त्रियाम् ॥
3.5.397 · p. 108
अनुष्टुप्
एवं चन्दनभेदं स्यात् ख्याते त्रिविधचन्दने ।पतङ्गमपि पत्राङ्गं पतुङ्गञ्च कुचन्दनम् ॥
3.5.398 · p. 108
अनुष्टुप्
तिलपर्णी रक्तवीजं रञ्जनं रक्तचन्दनम् ।फलं जातिर्जातिफलं जाती जातीफलं तथा ॥
3.5.399 · p. 108
अनुष्टुप्
कोशं कोषं जातिकोषं जातीकोषञ्च कोषकम् ।कर्पूरागुरुकक्कोल कस्तूरी समभागतः ।यक्षकर्दम इत्युक्तः यक्षकर्दमकोऽपि च ॥
3.5.400 · p. 108
अनुष्टुप्metre not read in every line
कर्पूरागुरु कक्कोलकस्तूरीभूस्तृणानि च ।एकीकृत्य तुल्यभागे भवेद्वा यक्षकर्दमः ॥
3.5.401 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्य (wrong syllable)
गात्रानुसारिणी वर्तिर्वर्ती गात्रानुलेपनी ।विलेपनं वर्णकं स्यात् अनुलेपननामनि ॥
3.5.402 · p. 108
अनुष्टुप्
तूली च तूलिका तूला वर्ती वर्तिश्च वर्तिका ।वर्णको वर्णिका चेति स्यात् चित्रा चित्रकापि च ॥
3.5.403 · p. 108
अनुष्टुप्
गन्धचूर्णं वासयोगः पटवासन्तु चूर्णकम् ।जलादौ वासिते द्वे तु भावितं वासितं त्रिषु ॥
3.5.404 · p. 108
अनुष्टुप्
गन्धमाल्यादिसंस्कारो यः स्यात्तदधिवासनम् ।माल्यं स्रक् मालिका माला मालाका मालकापि च ॥
3.5.405 · p. 108
अनुष्टुप्
केशमध्ये तु यन्माल्यं गर्भकं सोऽभिधीयते ।अथ माल्यं शिखालम्बि प्रभ्रष्टकमुदाहृतम् ॥
3.5.406 · p. 108
अनुष्टुप्
भालपर्यन्तमालम्बि ललामकमुदाहृतम् ।ऋजुकण्ठात् लम्बमानं माल्यं प्रालम्बमुच्चते ॥
3.5.407 · p. 109
अनुष्टुप्
कण्ठतो हृदये तिर्यक् माल्यमारोपितं हि यत् ।वैकक्षन्तु वैकक्ष्यं द्वयं तत्र निगद्यते ॥
3.5.408 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वै (syllables merged)
शिखाविन्यस्तमालायामापीडः शेखरोऽपि च ।निर्माल्यं निर्मल्यञ्चेति द्वयं पर्युसिते मतम् ॥
3.5.409 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्म (wrong syllable)
रचना च परिस्यन्द पत्रबन्ध इति त्रयम् ।पत्रभङ्ग प्रसूनादिरचनायां निगद्यते ॥
3.5.410 · p. 109
अनुष्टुप्
पूर्णतायां द्वयमिदन्त्वाभोगः परिपूर्णता ।उपधानञ्चोपवर्हः उपधानीयमित्यपि ॥
3.5.411 · p. 109
अनुष्टुप्
शयनीयञ्च शयनं शय्या च शयनीयकम् ।पल्लवाद्यैर्विरचिते शयनीये तु सम्भवः ॥
3.5.412 · p. 109
अनुष्टुप्
अस्तरः प्रस्तरश्चेति प्रस्तरोऽपि च कुत्रचित् ।खट्टा पर्यङ्कपल्यङ्कमञ्चतल्पशया अपि ॥
3.5.413 · p. 109
अनुष्टुप्
चतुरश्चातुरः गेण्डुश्चक्रगण्डूर्मसूरकम् ।गेण्डूको गण्डूको गण्डूकन्दुको देशनागुडः ॥
3.5.414 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण्डू (wrong syllable)
चातूरको गिरिपको गिरिपाकश्च कुत्रचित् ।दीपः प्रदीपः स्नेहाशः दीपकः कज्ज्वलध्वजः ॥
3.5.415 · p. 109
अनुष्टुप्
शिखातरुर्गृहमणिर्ज्योत्स्नावृक्षो दशेन्धनः ।दोषा तिलको दोषास्यो नयनोत्सव इत्यपि ॥
3.5.416 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
कज्ज्वलः कज्ज्वलोऽपि स्यात् लोचकः कज्ज्वलेत्यपि ।वर्ती वर्तिर्दशा चेति त्रितयं दीपवर्तिषु ॥
3.5.417 · p. 109
अनुष्टुप्
आसनोपासनं पीठं पीठा विस्तर इत्यपि ।समुद्गकः सम्पुटकः समुद्गः सम्पुटोऽपि च ॥
3.5.418 · p. 109
अनुष्टुप्
प्रतिग्रहं प्रतिग्राहः पतद्ग्राहः पतद्ग्रहः ।स्यात् कङ्कती कङ्कतिका कङ्कतञ्च प्रसाधनम् ॥
3.5.419 · p. 109
अनुष्टुप्
प्रसाधनी फली चेति फलिका कालवित्यपि ।कोटयीति च विख्याते पिष्टातः पटवासकः ॥
3.5.420 · p. 109
अनुष्टुप्
स्यादात्मदर्श आदर्शः मुकुरो मकुरोऽपि च ।दर्शनं दर्शनश्चेति प्रतिविम्वातमित्यपि ॥
3.5.421 · p. 110
अनुष्टुप्
व्यजनं तालवृन्तञ्च तालवृन्तकमित्यपि ॥
3.5.422 · p. 110