कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

फलवत्

phalavatवि · adj.

In 7 kośas: 7 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.12
वन्ध्योऽफलोऽवकेशी च फलवान्फलिनः फली ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.178 · p. 22
अवकेशी स विज्ञेयः फलैर्बन्ध्यस्तु यो भवेत् ।क्षुपो ह्रस्वशिफाशाखी फलवान् फलिनः फली ॥ १७८ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.18 · p. 136
फलेग्रहिः फलावन्ध्योऽप्यवकेशी तु सोऽफलः ।पुष्पितः स्यात्कुसुमितः फलवान्फलिनः फली ॥ १८ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1960 · p. 323
फलयुक्ततरोर्नाम फलवान् फलिनः फली ॥ १९६० ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.12 · p. 57
अवकेश्यफलो बन्ध्यस्त्रयं निष्फलभूरुहे ।फलयुक्ते तु वृक्षे स्यात् फलवान् फलिनः फली ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.125 · p. 228
फलाप्तवृक्षे फलवान् फलिनश्च फली तथा ।फलपाकावसानायामौषध्यौषधिरोषधी ॥ १२५ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.440 · p. 58
वन्ध्योऽफलोऽवकेशी स्यादवन्ध्यस्तु फलेग्रहिः ।पुष्पितो जातपुष्पः स्यात् फलिनः फलवान् फली ॥ ४४० ॥
अनुष्टुप्
genderविadj.