फलिन्
phalinवि · adj.In 13 kośas: 12 synonym verses, 2 as a nānārtha head word.
genderपुंmasc.
genderविadj.
अवकेशी स विज्ञेयः फलैर्बन्ध्यस्तु यो भवेत् ।क्षुपो ह्रस्वशिफाशाखी फलवान् फलिनः फली ॥ १७८ ॥
अनुष्टुप्
genderविadj.
फलिते फलिनोपि स्यात्फलपर्यायवान् फली ।नञर्थात्फलपर्यायोऽवकेशी बन्ध्य इत्यपि ॥ १७ ॥
अनुष्टुप्
genderविadj.
फलेग्रहिः फलावन्ध्योऽप्यवकेशी तु सोऽफलः ।पुष्पितः स्यात्कुसुमितः फलवान्फलिनः फली ॥ १८ ॥
अनुष्टुप्
genderविadj.
अनोकहस्तरुः शाखी विटपी फलिनो नगः ।द्रुमोऽङ्घ्रिपः फलेग्राही पादपोऽगो वनस्पतिः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
वनस्पतिः फलवांस्तु विशेषः फलजन्मतः ।फलेग्रहिः फलवान्ध्यः फलिनः फलवान्फली ॥ २७ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable); pāda 3, syllable 6 ल (wrong syllable)
genderपुंmasc.
genderविadj.
अवकेश्यफलो बन्ध्यस्त्रयं निष्फलभूरुहे ।फलयुक्ते तु वृक्षे स्यात् फलवान् फलिनः फली ॥
अनुष्टुप्
genderपुंmasc.
फलाप्तवृक्षे फलवान् फलिनश्च फली तथा ।फलपाकावसानायामौषध्यौषधिरोषधी ॥ १२५ ॥
अनुष्टुप्
genderविadj.
वन्ध्योऽफलोऽवकेशी स्यादवन्ध्यस्तु फलेग्रहिः ।पुष्पितो जातपुष्पः स्यात् फलिनः फलवान् फली ॥ ४४० ॥
अनुष्टुप्
genderविadj.
वन्ध्यो वृक्षोऽवकेशी स्यादवन्ध्यस्तु फलेग्रहिः ।पुष्पितः स्यात् कुसुमितः फलितः फलिनः फली ॥ ८ ॥
अनुष्टुप्
genderविadj.
फल्गु तु त्रिष्वसारे स्त्री काकोदुम्बरिकाह्वये ।वृक्षभेदे त्रि तु फली फलयुक्ते स्त्रियां पुनः ॥ ८२९ ॥
अनुष्टुप्
meaningsफलयुक्त
फलिन्यग्निशिखायान्तु फल्यां स्त्री तद्वति त्रिषु ।फाल्गुणोऽर्जुनवृक्षे च गुडाकेशनदीजयोः ॥मासभेदे पुमानेव पौर्णमास्यान्तु फाल्गुनी ।ब्रह्मा प्रजापतौ ऋत्विग्योगभेदद्विजेषु ना ॥ब्रह्म तत्त्वे च वेदे च तपस्यपि च न द्वयोः ।वन्धनी वटिजीवातु नङिमाठनकर्मसु (?) ॥बन्धनञ्च वधे बन्धे हिंसायाञ्च नपुंसकम् ॥
अनुष्टुप्
meaningsतद्वत्