कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

फलेग्रहि

phalegrahiपुं · masc.

In 10 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.7 · p. 44
पुष्पैस्तु फलवान्वृक्षो वानस्पत्यो विना तु तैः ॥ १११५ ॥फलवान्वनस्पतिः स्यात्फलावन्ध्यः फलेग्रहिः ।
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 न्व (wrong syllable); pāda 3, syllable 6 व (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.6
ओषध्यः फलपाकान्ताः स्युरवन्ध्यः फलेग्रहिः ॥ ६ ॥
अनुष्टुप्
genderविadj.
महीरहो महीरुट् स्यात् वानस्पत्यो वनस्पतिः ।द्रुमः स्याद्द्रुश्च तुल्यौ द्वौ फलेग्रही फलग्रही ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.16 · p. 250
निर्लुटोऽथाप्यबन्ध्यः स्यात्स च वृक्षः फलेग्रहिः ।फलग्रह्यपि स ज्ञेयो ह्यमोघफल इत्यपि ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.18 · p. 136
फलेग्रहिः फलावन्ध्योऽप्यवकेशी तु सोऽफलः ।पुष्पितः स्यात्कुसुमितः फलवान्फलिनः फली ॥ १८ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.27 · p. 55
वनस्पतिः फलवांस्तु विशेषः फलजन्मतः ।फलेग्रहिः फलवान्ध्यः फलिनः फलवान्फली ॥ २७ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable); pāda 3, syllable 6 ल (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.16 · p. 322
फलेग्रहिः फलावन्ध्यो यः फलत्येव स द्रुमः ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.11 · p. 57
या भवेत् फलपाकान्ता सेयमोषधिरोषधी ।वृक्षे त्वनिष्फले वन्यः फलेग्रहिः फलग्रहिः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्र (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.440 · p. 58
वन्ध्योऽफलोऽवकेशी स्यादवन्ध्यस्तु फलेग्रहिः ।पुष्पितो जातपुष्पः स्यात् फलिनः फलवान् फली ॥ ४४० ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.8 · p. 45
वन्ध्यो वृक्षोऽवकेशी स्यादवन्ध्यस्तु फलेग्रहिः ।पुष्पितः स्यात् कुसुमितः फलितः फलिनः फली ॥ ८ ॥
अनुष्टुप्
genderविadj.