कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भगाल

bhagālaक्ली · neut.

In 3 kośas: 3 synonym verses.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.42 · p. 223
कपालोऽस्त्री कर्परोऽस्त्रि निर्मूटं दन्तसंभवः ।रुचकं नलकं त्वन्यच्छङ्खोऽस्त्र्यास्थिललाटजः ॥शरीरास्थि करङ्कः स्यात्कङ्कालोऽस्त्र्यस्थिपञ्जरः ।भगालं नृकपाले स्यात्खट्वाङ्गं नरपञ्जरम् ॥शिरोस्थनि करोटिः स्त्री पृष्ठास्थि तु कशेरुका ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.77 · p. 175
भगालं नरमुण्डे स्यात् चुलुकः प्रसृतौ पुमान् ।भावे पदार्थो धर्मश्च तत्त्वं सत्त्वञ्च वस्तु च ।स्यादाकूतमभिप्राये समुदाचार इत्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.190 · p. 204
मस्तकस्नेहे गोदोऽस्त्री करोटं शिरसोऽस्थनि ।करोटीवत् करोटिश्च भकालं च भगालयुक् ॥ १९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 हे (wrong syllable)
genderक्लीneut.