कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वस्तु

vastuक्ली · neut.

In 13 kośas: 8 synonym verses, 2 as a nānārtha head word, 14 as a meaning of another word.

कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.39 · p. 239
भावः पदार्थो धर्मः स्यात्सत्त्वं तत्त्वं च वस्तु च ।वर्धनं छेदनं व्युष्टिः फलमाम्नाय इत्यपि ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
पुरादीनि नपुंसके विजानीयात् । इदं पुरं नगरम् । मधु क्षौद्रम् । जगद्विश्वम् । अर्च्चिःशब्दः स्त्रियां भवति वा । इयमर्चिः । इदमर्चिर्दीप्तिः । त्वतलौप्रत्ययौ यथासङ्ख्यं नपुंसकस्त्रीविधौ द्रष्टव्यौ । ब्राह्मणस्य भावो ब्राह्मणत्वं ब्राह्मणता । एवमिदं शूद्रत्वं इयं शूद्रता । अहःशब्दः यदा सङ्ख्यादिः तदा पुंल्लिङ्गो भवति । अयमेकाहः द्व्यहः त्र्यहः । सङ्ख्यादेरिति किम् । पुन्याहम्? । प्रत्यहम् ।रुत्वन्ताः पुंसि कशेरुदारुजतुवस्तुमस्तूभिस्त्यक्ताः ।स्युः सग्रन्थिप्रस्था इसुसू ष्य[घ्य]ञन्तानां नपुंसकता ॥ ४४ ॥
metre not recognised
genderक्लीneut.
रुशब्दान्तास्तुशब्दान्तास्तु कशेरुदारुजतुवस्तुमस्तुभिस्त्यक्ता रहिताः । सग्रन्थिप्रस्था पुंसि भवेयुरित्यर्थः । यथाऽयं त्सरुः खड्गमुष्टिः । भरुर्भर्त्ता । मरुर्निर्जलो देशः । चरुर्मन्त्रतप्तपाकः । शत्रुः रिपुः । तरुर्वृक्षः । मरुर्मृगः । मेरुः पर्वत इत्यादिः । अयं केतुरुत्पातः । सेतुः बन्धः । हेतुः कारणम् । तन्तुः षट्प्रकृतिः । धातुः श्लेष्मादिः । कशेरुप्रभृतयो नपुंसके भवन्ति । इदं कशेरु भूसम्भवम् । इदं दारु काष्ठम् । जतु लाक्षा । वस्तु वाक्यप्रबन्धहेतुः । मस्तु दधिसम्भवम् । ग्रन्थिप्रस्थौ च पुंसि भवतः । अयं ग्रन्थिः गाण्ठिरिति प्रसिद्धः । प्रस्थः परिमाणम् । इसन्तानामुसन्तानां च घ्यञन्तानां च नपुंसकता स्यात् । इदं सर्पिः घृतम् । हविर्देवान्नम् । बर्हिः पवित्रमित्यादि । इदं वपुः शरीरम् । आयुः जीवितपरिमाणम् । धनुः शस्त्रमित्यादिः । ष्य[घ्य]ञ्ग्रहणेन "वर्णदृढादिभ्यः ष्य[घ्य]ञि"ति गृह्यते । न ब्राह्मणादिभ्यः । सौकुमार्य्यं शौक्ल्यं[क्यं] कार्ष्ण्यं[र्त्स्न्यं] दाक्ष्यमित्यादि ।पुंसि स्त्रियां च पाटलिगोमुष्ट्यशनिबाहुसिन्धुमणयः ।आशीर्धूःपूक्षुत्तृ[तृ]ड्गिरः स्त्रियां मुद्रुषौ च ॥ ४६ ॥
metre not recognised
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 95 · p. 47
वित्तं वस्तु वसु द्रव्यं स्वार्थं रा द्रविणं धनम् ।कस्वरं तत्पतिं प्राहुः कुवेरं चैकपिङ्गलम् ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति विड्वर्गः Śāradīyākhyanāmamālā 3.3.47 · p. 39
मूलद्रव्यं परिपणो नीवी लाभोऽधिकं फलम् ।सत्यापनं सत्यंकारो मूल्यवस्त्वर्थवक्रयाः ॥ ४७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.77 · p. 175
भगालं नरमुण्डे स्यात् चुलुकः प्रसृतौ पुमान् ।भावे पदार्थो धर्मश्च तत्त्वं सत्त्वञ्च वस्तु च ।स्यादाकूतमभिप्राये समुदाचार इत्यपि ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.8 · p. 87
श्रुत्थुको विक्रियामात्रादुद्भटायनमुच्यते ।बुद्धद्रव्यं स्तौपिकं स्यात्सत्त्वं द्रव्यं च वस्तु च ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.21 · p. 89
शालिनीकरणं न्यग्भावनं गन्धनसूचने ।भावः पदार्थो धर्मः स्यात्सत्त्वं सत्त्वं च वस्तु च ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.56 · p. 38
कानने गहने यज्ञे धनप्रीतिगभस्तिषु ।वस्तु ग्रामनगर्यादिपदार्थे स्वापतेयके ॥ ५६ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नपुंसकलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.3.57 · p. 38
पदार्थमात्रेऽप्यस्यार्थं पण्डितः शाकटायनः ।सदित्याह स्म वर्चस्तु विष्ठायामन्नतेजसोः ॥ ५७ ॥
अनुष्टुप्
doubtful

वस्तु as a meaning in nānārtha verses