कपाल
kapālaपुंक्ली · m. n.In 16 kośas: 23 synonym verses, 7 as a nānārtha head word, 16 as a meaning of another word.
कपालकर्परौ तुल्यौ पृष्ठस्यास्थ्नि कशेरुका ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्थ्नि (wrong syllable)
genderपुंmasc.
कपालं शकलमपि पृष्ठास्थनि कशारुका ॥ ४८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च ॥ ६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शरीरस्यास्थि कङ्कालं तथा स्यादस्थिपञ्जरम् ।शिरसोऽस्थि करोटिः स्यात्कपालं शकलं च तत् ॥ ६३३ ॥
अनुष्टुप्
genderक्लीneut.
द्वयोर्मौलिः कपालं षण् केशपर्यायभूरपि ।शिरसोरुड्रुहभवपर्यायाश्चिकुराः कचाः ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
दन्तपर्यायसद्मार्थमथ स्याद्भालमस्त्रियाम् ।महाशंखश्च शंखश्च कपालोप्यस्त्रियाममी ॥ १४१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शिरसोस्थि करोढिः स्त्री कपालः कर्परोऽस्त्रियाम् ।पृष्ठास्थनि कसेरुस्यात्स्त्रियां क्लीबे सुखंखणः ॥ २३४ ॥
अनुष्टुप्
genderपुंmasc.
कपालशैलकवलप्रवालानां चलस्य च ।शवलोत्पलयोः शीलोपलयोर्मुसलस्य च ॥ १८४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कपालोऽस्त्री कर्परोऽस्त्रि निर्मूटं दन्तसंभवः ।रुचकं नलकं त्वन्यच्छङ्खोऽस्त्र्यास्थिललाटजः ॥शरीरास्थि करङ्कः स्यात्कङ्कालोऽस्त्र्यस्थिपञ्जरः ।भगालं नृकपाले स्यात्खट्वाङ्गं नरपञ्जरम् ॥शिरोस्थनि करोटिः स्त्री पृष्ठास्थि तु कशेरुका ॥ ४२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
प्रवालं विशालं चषालं तमालं ।कपालं च भालं सतैलालवाले ।सजम्बाल-कङ्काल-कोलाहलानिस्मृतान्यत्र काकोलहालाहलानि ॥ ६७ ॥
भुजङ्गप्रयातम्
genderपुंक्लीm. n.
यवाग्वां तरला पुष्पे पाटलं [पटलं] गणे ।भिक्षुपात्रे कपालं च विश्वं शुण्ठ्यां मले च विट् ।लक्षं मान उषः संध्या सदो रोदो विषः सरः ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
एते स्त्रीलिङ्गे उदिताः कथिताः । इयं शाला गृहविशेषः । माला स्रक् । दोला क्रीडासाधनम् । वेला कूलं समुद्रस्य । फेला भक्तोच्छिष्टं धानाश्च । शिला अश्मा । तुला पलशतानुमानम् । लीला अतिरसकोविदश्च । सेना हस्त्यश्वपदातिसमुदायः । पालिः पङ्क्तिप्रदेशः । बलिः करः उपहारः । दद्रुः कुष्ठविशेषः । वागुरा मृगबन्धनी रज्जुः ।पातालजालमलखलकपालशैवालशीलनालानिचीरचीवरवियन्ति च विद्धि तृतीयाप्रकृतिकानि ॥ ३७ ॥
metre not recognised
genderक्लीneut.
चतुष्पथादीनां नपुंसकत्वं विद्धि जानीहि । इदं चतुष्पथम् । युगलं युग्मम् । छलं व्याजः । चेलं वस्त्रजातिः । खोलं भग्नभाण्ड[ड]म् । धिष्ण्यं गृहम् । अर्गलं द्वारपिधानम् । शफं खुरः । पण्यं विक्रेतव्यम् । पिच्छं मयूरस्य । पलं चतुःपलिपरिमाणम् ।रयमण्डपनरककपालगुडमणिमेढ्रदर्दुरकुसूलाः ।युग्माकाशव्रतशृङ्गवर्जिताः मञ्चः सदा पुंसि ॥ ६९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चे (wrong syllable)
genderपुंmasc.
मेदो मांसस्य तेजो हि मांसजं गौतमं बसा ।कर्परं तु कपाले स्यात्पृष्ठास्थि स्यात्कशेरुका ॥ २८२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
काकोलकोलाहलतैलतूलंजम्बाललाङ्गूलकपालमुल्वः ।कङ्कालगाण्डीवशरावभावानिष्ठेवरावौ शवदैवपूर्वाः ॥ १६० ॥
इन्द्रवज्रा
genderपुंक्लीm. n.
कपालं भिक्षुपात्रे स्यादङ्के क्रोडस्तथैव हि ।अट्समासान्तनौशब्दः पूर्वार्धपदपूर्वकः ॥ १६९ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
कपालकर्परौ तुल्यौ शकलञ्चापि मन्यते ।कशारुका कशेरुका पृष्ठस्यास्थ्नि निगद्यते ॥ १०११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 रु (wrong syllable)
genderपुंmasc.
उच्चारावस्करौ कल्कं पुरीषं मलवर्चसा ।कर्परः स्यात् कपालोऽस्त्री ललाटास्थि च कल्वनः ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्यादस्थि कीकसं कुल्यं करोटिः स्त्री शिरोस्थनि ।कर्परस्तु कपालोऽस्त्री नलकं त्वस्थि बाहुजम् ॥ ११२० ॥
अनुष्टुप्
genderपुंक्लीm. n.
पात्राणि स्युः स्रुवो यज्ञे स्रुग्जुहूरुपभृद्ध्रुवा ।शम्याग्निहोत्रहवनी दृषच्छूर्पमुलूखलम्कपालमुसलौ कृष्णाजिनं स्फ्य उपला स्त्रियाम् ॥ ११७६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
खट्वाङ्गा च कपालाख्या डमरुः शिवतोषदाः ।सूर्य्यस्यैकैव पद्माख्या सप्तमुद्रा गणेशितुः ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
घटी पारी कपाली तु त्रयी घोलश्च कर्परः ।शालाजिरो वर्धमानः शरावोऽस्त्री दृतिस्तु ना ॥ ५९ ॥
अनुष्टुप्
genderपुंस्त्रीक्लीm. f. n.
पार्श्वस्य वंक्रिः पर्श्वस्त्री पृष्ठस्यास्थि कशेर्वना ।कर्परो ना करोटिः स्त्री कपालोऽस्त्री शिरोऽस्थनि ॥ ११५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
जालं कपटेऽप्युक्तं कपालमुक्तं घटादिशकलेऽपि ।रिष्टं पापाशुभयोररिष्टमशुभेऽपि निर्दिष्टम् ॥ ८०४ ॥
आर्या
meaningsघटादिशकल
विशालं बृहदाख्यातं विशालोज्जयिनी पुरी ।कपालं मस्तकाद्यस्थि घटादिशकलोदरे ॥
अनुष्टुप्
यवाक्यं तरलं पुष्पे पाटलं तरलं च ये ।वसन्ततिलकं वृत्ते कपालं भिक्षुभाजने ॥ १२८ ॥
अनुष्टुप्
meaningsभिक्षुभाजन
भवेदवेलाथ कपालमस्त्रीशिरोस्थ्नि खण्डे च घटादिकानाम् ।कुष्ठान्तरे भिक्षुकभाजने नाकिट्टाल उक्तो नरि लोहगूथे ॥ ४१ ॥
उपजातिः
कपाल as a meaning in nānārtha verses
- धरणिकोश कन्दलकन्दली कदली चेति मृगवृक्षविशेष[96]योः । कन्दलः कलहे युद्धे कपाले च कलध्वनौ ॥ Dharaṇikośa 27.3.27
- कोषकल्पतरु कर्परस्त्री कृष्णवृन्तासु जले तु षण्ढे तथा सुवर्णे शबलेऽन्यवत्स्यात् । स्यात्कर्परः शस्त्रविशेषवाची न स्त्री कपालेऽपि[54b]कटाहके च ॥ १९ ॥ Koṣakalpataru 6.27.19
- नानार्थार्णवसंक्षेप घोलकष्ट इत्यपरे द्वे तु सृगाले क्ली तु कुङ्कुमे । घोलस्तु ना कपाले स्यात् क्ली दण्डाहतके तु सः ॥ ३९१ ॥ Nānārthārṇavasaṃkṣepa 2.5.391
- नानार्थार्णवसंक्षेप मल्लिकश्चित् प्रायुङ्क्त घण्टायां धातौ तु मणतौ पुमान् । मल्लिस्तु मत्स्यभेदे स्त्री स्यात् कपालकरङ्कयोः ॥ ९५२ ॥ Nānārthārṇavasaṃkṣepa 2.5.952
- नानार्थार्णवसंक्षेप खर्बरखजकस्त्वपि मन्थाने घृते चाप्यथ खर्बरः । भिक्षापात्रे कपाले च करे चाप्यथ खण्डिकः ॥ ७८ ॥ Nānārthārṇavasaṃkṣepa 3.2.78
- नानार्थार्णवसंक्षेप करोटकरटा तु स्त्रियां दुःखदोह्यायां गवि नप् पुनः । करोटं वस्त्रकोशे च कपाले शिरसस्तथा ॥ ३६५ ॥ Nānārthārṇavasaṃkṣepa 4.365
- नानार्थार्णवसंक्षेप कर्परगृहप्रवेशनायोग्ये पक्षिभेदेऽथ कर्परः । पुमान् घटादिशकले कपालाख्ये शिरोस्थनि ॥ ३६८ ॥ Nānārthārṇavasaṃkṣepa 4.368
- परमानन्दीयनाममाला कन्दलकन्दलं तु नवाङ्कूरे कपाले कलहे ध्वनौ । कलङ्कस्त्वपवादेऽङ्के कमलं जलताम्रयोः ॥ ११७ ॥ Paramānandīyanāmamālā 5.7.117
- शब्दरत्नावली शिखण्डिन्वैरोचनो वलौ बुद्धे सिद्धे सूर्याग्निपुत्रयोः । शिखरी द्रुममात्रे स्यादपामार्गे महीधरे ॥ शिखण्डिनी स्त्रियां यूथीगुञ्जयोः प्रमदाभिदि । शिखण्डी वैरिगाङ्गेयकपालबर्हिणेषु च ॥ शृङ्गारी तु सशृङ्गारे सुवेशे गजपूगयोः । भवेच्श्लेष्मधना मल्लीकेतक्योरपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.20.125
- शब्दरत्नावली कर्परशबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् । कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥ कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् । कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥ करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् । करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥ Śabdaratnāvalī 7.27.60
- शब्दरत्नावली कन्दलकरालं सर्जतैले स्याद्भीषणे दन्तुरेऽन्यवत् । कन्दलोऽस्त्री कलध्वाने नवाङ्कुरकपालयोः ॥ Śabdaratnāvalī 7.28.48
- शब्दरत्नावली गण्डशैलखतमालो घने धूमे गन्धमालोऽनिले रवौ । गण्डशैलो गिरिध्वस्तस्थूलग्रावकपालयोः ॥ Śabdaratnāvalī 7.28.106
- शब्दरत्नाकर कर्परकुम्भीरस्तस्करे नक्रे क्षवथुः क्षवकासयोः । कलहो द्वन्द्वरणयोः कर्परोऽग्निकपालयोः ॥ २०८१ ॥ Śabdaratnākara 4.1.2081
- त्रिकाण्डशेष कर्परकट्वरं कुत्सिते तक्रे किर्म्मीरौ शबलासुरौ । कपाले च कटाहे च शस्त्रभेदे च कर्परः ॥ ३४२ ॥ Trikāṇḍaśeṣa 3.3.342
- त्रिकाण्डशेष खर्परभिक्षापात्रे कपाले च खर्परस्तस्करेऽपि च । देवताडे खरा स्त्री स्यात्खरो गर्द्दभतीक्ष्णयोः ॥ ३४३ ॥ Trikāṇḍaśeṣa 3.3.343
- वैजयन्ती कर्परकर्परोऽग्नौ कपालेऽपि करभोऽपि खरोष्ट्रयोः । शरे किंशारुकादंबौ कुरण्डस्तु झषेऽपि च ॥ १९ ॥ Vaijayantī 7.1.19