कर्पर
karparaपुं · masc.In 14 kośas: 20 synonym verses, 8 as a nānārtha head word, 3 as a meaning of another word.
कपालकर्परौ तुल्यौ पृष्ठस्यास्थ्नि कशेरुका ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्थ्नि (wrong syllable)
genderपुंmasc.
नालिकेरजः करङ्कस्तुल्यौ कटाहकर्परौ ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
स्यात्कर्परः कपालोऽस्त्री कीकसं कुल्यमस्थि च ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कटाहः कर्परो ज्ञेयो भृङ्गारः कनकालुका ।शालाजिरो वर्धमानः शरावः स्मर्यते बुधैः ॥ ३१५ ॥
अनुष्टुप्
genderपुंmasc.
शिरसोस्थि करोढिः स्त्री कपालः कर्परोऽस्त्रियाम् ।पृष्ठास्थनि कसेरुस्यात्स्त्रियां क्लीबे सुखंखणः ॥ २३४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कपालोऽस्त्री कर्परोऽस्त्रि निर्मूटं दन्तसंभवः ।रुचकं नलकं त्वन्यच्छङ्खोऽस्त्र्यास्थिललाटजः ॥शरीरास्थि करङ्कः स्यात्कङ्कालोऽस्त्र्यस्थिपञ्जरः ।भगालं नृकपाले स्यात्खट्वाङ्गं नरपञ्जरम् ॥शिरोस्थनि करोटिः स्त्री पृष्ठास्थि तु कशेरुका ॥ ४२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अलिंजरोऽस्त्री मणिके कटाहस्त्रिषु कर्परम् ।कर्क्करी कर्क्करीका स्यादालुरालूर्गलन्तिका ॥ ६२ ॥
अनुष्टुप्
genderक्लीneut.
कटाहकर्परौ तुल्यौ करङ्को नालिकेरजः ।मन्थानः खजको मन्थो वैशाखो मन्थदण्डकः ॥ ३०० ॥
अनुष्टुप्
genderपुंmasc.
मेदो मांसस्य तेजो हि मांसजं गौतमं बसा ।कर्परं तु कपाले स्यात्पृष्ठास्थि स्यात्कशेरुका ॥ २८२ ॥
अनुष्टुप्
genderपुंmasc.
वर्चस्कं गूथमुच्चारो विष्ठा विट् चापि कथ्यते ।कपाले कर्परोऽथास्थ्नि कुल्यं शल्यं च कीकसम् ॥ १३७ ॥
अनुष्टुप्
genderपुंmasc.
कपालकर्परौ तुल्यौ शकलञ्चापि मन्यते ।कशारुका कशेरुका पृष्ठस्यास्थ्नि निगद्यते ॥ १०११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 रु (wrong syllable)
genderपुंmasc.
genderपुंmasc.
उच्चारावस्करौ कल्कं पुरीषं मलवर्चसा ।कर्परः स्यात् कपालोऽस्त्री ललाटास्थि च कल्वनः ॥
अनुष्टुप्
genderपुंmasc.
करकोऽस्त्री लोहकर्णवत्पात्रे कटहः स्मृतः ।कटाहः कर्परस्तद्वत् खर्परस्त्रितयं त्रिषु ॥ ६४ ॥
अनुष्टुप्
genderविadj.
अवगाहो जलद्रोणिः कटाहः कर्परः समौ ।स्थाल्युखा पिठरः कुण्डं मणिकं तु त्रिलिङ्गकम् ॥ ८९६ ॥
अनुष्टुप्
genderपुंmasc.
आलूर्गलन्तिका तुल्ये शृङ्गारः कनकालुका ।पारी तु स्वल्पकलशी कलशे(शी?) कर्परः पुमान् ॥ ८९८ ॥
अनुष्टुप्
genderपुंmasc.
स्यादस्थि कीकसं कुल्यं करोटिः स्त्री शिरोस्थनि ।कर्परस्तु कपालोऽस्त्री नलकं त्वस्थि बाहुजम् ॥ ११२० ॥
अनुष्टुप्
genderपुंmasc.
कटाहः कर्परो लट्वो मणिकः स्यादलिंजरम् ।भ्राष्ट्रः पुंस्यंबरीषोऽस्त्री कंदुर्ना स्वेदनी स्त्रियाम् ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
घटी पारी कपाली तु त्रयी घोलश्च कर्परः ।शालाजिरो वर्धमानः शरावोऽस्त्री दृतिस्तु ना ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
पार्श्वस्य वंक्रिः पर्श्वस्त्री पृष्ठस्यास्थि कशेर्वना ।कर्परो ना करोटिः स्त्री कपालोऽस्त्री शिरोऽस्थनि ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
स्त्री कृष्णवृन्तासु जले तु षण्ढेतथा सुवर्णे शबलेऽन्यवत्स्यात् ।स्यात्कर्परः शस्त्रविशेषवाचीन स्त्री कपालेऽपि[54b]कटाहके च ॥ १९ ॥
उपजातिःmetre not read in every line
कटाहे शस्त्रभेदे च वृक्षस्यावयवान्तरे ।रसाञ्जने तु स्त्रीलिङ्गा कर्परीति विदुर्बुधाः ॥ ३६९ ॥
अनुष्टुप्
कूर्मास्थनि तु ना क्ली तु भिक्षापात्रेऽथ कक्खटम् ।कठिने त्रिः कक्खटी तु शुक्लधातुसमाख्यके ॥ ३९३ ॥
अनुष्टुप्
doubtful
शबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् ।कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् ।कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् ।करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ल (wrong syllable)
कर्पर as a meaning in nānārtha verses
- कोषकल्पतरु कटाहनवे दिने च व्यवहारवाची प्रवाह उक्तोऽम्बुसृतौ[93a]स्वतोऽपि । त्रये कटाहो धृततैलपात्रे स्यात्पाकपात्रेऽपि च कर्परेऽपि ॥ ४९ ॥ Koṣakalpataru 6.32.49
- नानार्थार्णवसंक्षेप पात्रटपात्रटस्तु कृशे त्रि स्यात् कर्परे तु पुमानयम् । पाण्डुरं क्ली मरुवके शुक्ले ना तद्वति त्रिषु ॥ ११४४ ॥ Nānārthārṇavasaṃkṣepa 4.1144
- शब्दरत्नाकर कपालवंशाङ्कुरे हस्तिदन्तमूलभागेऽपि न स्त्रियाम् । यज्ञायुधे कर्परे च कपालं पुंनपुंसकम् ॥ २०७७ ॥ Śabdaratnākara 4.1.2077