कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धर्म

dharmaपुं · masc.

In 21 kośas: 51 synonym verses, 13 as a nānārtha head word, 51 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.28 · p. 5
एतस्यामवसर्पिण्यामृषभोऽजितशंभवौ ।अभिनन्दनः सुमतिस्ततः पद्मप्रभाभिधः ॥ २६ ॥सुपार्श्वश्चन्द्रप्रभश्च सुविधिश्चाथ शीतलः ।श्रेयांसो वासुपूज्यश्च विमलोऽनन्ततीर्थकृत् ॥ २७ ॥धर्मः शान्तिः कुंथुररो मल्लिश्च मुनिसुव्रतः ।नमिर्नेमिः पार्श्वो वीरश्चतुर्विंशतिरर्हताम् ॥ २८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.17 · p. 52
स्वाद्रूपं लक्षणं भावश्चात्मप्रकृतिरीतयः ।सहजो रूपतत्त्वं च धर्मः सर्गो निसर्गवत् ॥ १३७६ ॥शीलं सतत्त्वं संसिद्धिरवस्था तु दशा स्थितिः ।
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1379 · p. 52
धर्मः पुण्यं वृषः श्रेयः सुकृते नियतौ विधिः ।दैवं भाग्यं भागधेयं दिष्टं चायस्तु तच्छुभम् ॥ १३७९ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.38
स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ।
अनुष्टुप्
genderपुंक्लीm. n.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शब्दादिवर्गः Amarakośa 1.6.5
श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.125 · p. 16
सनातनं ध्रुवं नित्यं शाश्वतं स्यादनश्वरम् ।धर्मः पुण्यं वृषः श्रेयः सुकृतं च समं स्मृतम् ॥ १२५ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.782 · p. 89
उन्माथः कूटयन्त्रं स्यादवपातोऽवटः स्मृतः ।धर्मः स्वभावः आत्मा स्यादवेक्षा प्रतिजागरः ॥ ७८२ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षष्ठोपदेशः Bālaprabodhikā 6.91 · p. 74
वैराग्य… मर्थमुद्वेगो निर्वेदविरागवत् ।पुण्यं तु सुकृतं धर्मं पापोऽधर्मस्तु दुष्कृतिः ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
गणितनाममाला Gaṇitanāmamālā · हरदत्त राशिसञ्ज्ञा Gaṇitanāmamālā 4.46 · p. 3
निमीलनं च निधनं रंध्रमृत्युर्विनाशनम् ।छिद्रं वसु ततो भाग्यं धर्मं च नवमं तपः ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.59 · p. 75
इज्या स्त्रियां पुंसि मेनो धर्मो ना सत्रमस्त्रियाम् ।बर्हिः क्लीबे वितानं स्यादस्त्रियां च धृतिः स्त्रियाम् ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.39 · p. 239
भावः पदार्थो धर्मः स्यात्सत्त्वं तत्त्वं च वस्तु च ।वर्धनं छेदनं व्युष्टिः फलमाम्नाय इत्यपि ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नभःस्थदेवप्रकाण्डः Kalpadrukośa 2.3.50 · p. 385
कालिन्दी सोदरः कर्मकर औदुम्बरश्च सः ।विश्वप्साः शमनो धर्मो यमनो दण्ड इत्यपि ॥ ५० ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.86 · p. 415
पुंसि पाप्माथ सुकृतं श्रेयः पुण्यं वृषः पुमान् ।क्लीबे धर्म च धर्मोऽस्त्री मुदा मुच्च स्त्रियामुभे ॥ ८६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.80 · p. 470
धर्मं दानादिके तुल्यभागेऽर्द्धं ब्राह्मणं श्रुतौ ।न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नु (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.141 · p. 477
धर्मः स्वभावे रुचको भूषाभिन्मातुलुङ्गयोः ।पाताले वाडवो वध्रः सीस आमलकः फले ॥ १४१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.144 · p. 22
श्राद्धदेवो दण्डधरो धर्मश्च महिषध्वजः ।यमराट् जीवितेशश्च दण्डधारोऽपि कीर्त्तितः ॥ १४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.196 · p. 97
भावः स्वभावः सहजो धर्मोऽस्त्री स्वो निसर्गकः ।आजानलक्षणानूकरूपतत्त्वानि शीलकम् ।संसिद्धि-प्रकृती रीतिः शीलीयं शीलजे त्रिषु ॥ १९६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.5 · p. 107
द्रुवयं भयं त्रिसंध्यंकिसलय-शयनीय-साय-खेयानि ।********इन्द्रिय-धान्ये लवङ्गके दिव्यम् ।धर्मं दानादिकेऽध्यात्मं सीम स्यादुपशल्यके ।अनुमत्यां तथा कामं पद्मं च गजबिन्दुषु ॥ ५ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.55 · p. 113
धर्मः स्वभावे कमले तु पद्मःसंख्याविशेषेऽप्यथ कामलेऽसौ ।अर्माश्र[233a]मोद्यामललामहेमंक्षेमं हिमं कुट्टिमसंगमाश्च ॥ ५५ ॥
इन्द्रवज्राmetre not read in every line
genderपुंक्लीm. n.
एते शब्दाः सदा पुंसि भवन्ति । यथा पाषाणः प्रस्तरः । उपलः शिला पाषाण एव । शृङ्गारो विदग्धता । प्रस्थः परिमाणम् । भृङ्गारः सुवर्णमयः कलशः । मस्तकः शिरः । स्तबकः पुष्पोत्करः । शब्दो ध्वनिः । रसो माधुर्यादिः । स्पर्शो मृदुकर्कशादिः । गन्धो नासिकाग्राह्यः कुसुमादेः । रूपं मुक्त्वा रूपं विहाय ।रूपं नपुंसके भवति । इदं रूपं चक्षुर्ग्राह्यम् ।शेखरयूपपुरोडाशकूपसूपलवशष्पाः ।धर्ममयवासोदशादाराः पुंसि बहुत्वं चैषाम् ॥ ५५ ॥
metre not recognised
genderपुंmasc.
एते शब्दाः पुंसि भवन्ति । अयं शेखरः पुष्पसङ्घातः उत्तुङ्गो वा । यूपो यज्ञभाण्डम् । पुरोडाशो यज्ञपिण्डकिः । कूपोऽवटः । सूपो व्यञ्जनम् । लवो लेशः । शष्पो बालतृणम् । धर्म उपवासादिः । मयो वेश्म । वासांसि वस्त्राणि तेषां दशाः । दाराः स्त्रियश्च पुंसि भवन्ति बहुत्वं चैषां सदा भवति । इमे वासोदशाः वस्त्रान्तसूत्रम् । इमे दाराः स्त्रियः । वास इति किम् । दशा अवस्था ।मांसविवराभिधानं नपुंसके विद्धि तीर्थतुण्डे च ।यवमाषाद्या व्रीहयः पुंसि प्रियङ्गवश्च स्त्रियामेव ॥ ५६ ॥
metre not recognised
genderपुंmasc.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 79 · p. 40
कार्मुकं धन्व चापं च धर्म कोदण्डकं धनुः ।शिलीमुखादेरसनं तत्कोटिमटनीं विदुः ॥ ७९ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.269 · p. 85
मङ्गः पुण्यं वृषो धर्मः सुकृतं श्रेयसा सह ।अशुभं कल्मषं पापं वृजिनं किण्वपातके ॥ २६९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.125 · p. 226
छदे दलः स्वभावेऽथ धर्मो वध्रस्तु सीसके ।रुचको मातुलिङ्गे स्याद्भूषाभेदेऽपि विश्रुतः ॥ १२५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति पण्डितवर्गः Śāradīyākhyanāmamālā 2.4.131 · p. 32
याचकस्तर्कुको ग्राही मार्गणोऽर्थी वनीपकः ।धर्मः पुण्यं वृषः श्रेयः सुकृतं शुभकर्म च ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.123 · p. 46
स्वरूपं लक्षणं भावो रूपधर्मात्मरीतयः ।सृष्टिः सर्गश्च निर्माणं करणं घटनं कृतिः ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.13 · p. 3
विमलोऽनन्तधर्मौ च शान्तिः कुन्थुः त्वरो जिनः ।मल्लिनाथो जिनेन्द्रश्च श्रीमुनिसुव्रतो नमिः ॥ १३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.449 · p. 56
अथ स्तम्भो भवेज्जाड्यं धर्मः स्वेदस्तथैव च ।निदाघश्चाथ रोमाञ्चः कण्टकः पुलकस्तथा ॥ ४४९ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2502 · p. 405
धर्मः शीलं स्वभावश्च सर्गश्चापि निसर्गवत् ।एतन्नामानि मन्यन्ते स्वरूपस्य बुधैर्भुवि ॥ २५०२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2506 · p. 406
धर्मः श्रेयो वृषः पुण्यं सुकृतं नाम पञ्चमम् ॥ २५०६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.140 · p. 10
यमः पितृपतिर्धर्मो धर्मराजश्च धर्मराट् ।जीवितेशः श्राद्धदेवः कृतान्तो महिषध्वजः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.302 · p. 21
धर्मोऽस्त्री सुकृतं पुण्यं श्रेयो धर्त्रं वृषोऽपि च ।मुत्प्रीतिः प्रमोदामोदसम्मोदमोदसम्मदाः ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.196 · p. 124
वृद्धिस्थानं क्षयश्चेति त्रिवर्गोनीतिवेदिनम् ।इतरेषान्तु धमार्थकामैरप्यभिधीयते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ध (wrong syllable)
genderपुंmasc.doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.77 · p. 175
भगालं नरमुण्डे स्यात् चुलुकः प्रसृतौ पुमान् ।भावे पदार्थो धर्मश्च तत्त्वं सत्त्वञ्च वस्तु च ।स्यादाकूतमभिप्राये समुदाचार इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.134 · p. 199
सुरतं स्याद्रति-रते पशोर्धर्म-क्रिये स्मृते ।जभनं यभनं, गर्भवत्यां गुर्वी च गुर्विणी ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.7 · p. 250
विप्रतिसारो विप्रतीसारोऽथ सुकृते वृषः ।वृषभो धर्मधरीमा नान्तो धर्मोऽथ दिष्टके ॥ ७ ॥
metre not recognised
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.18 · p. 3
अङ्गान्येतानि वेदानां धर्मः स्याद्वैदिको विधिः ॥ १८ ॥
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.280 · p. 38
ब्रह्मत्वं ब्रह्मसायुज्यं ब्रह्मभूयं समं त्रयम् ।धर्मोऽस्त्री सुकृतं श्रेयः पुण्यं सुचरितं वृषः ॥ २८० ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1188 · p. 146
परंपराकं शसनं प्रोक्षणं च पशोर्वधे ।धर्मः प्रवर्ग्यश्चत्वालो वेदिमृत्खननावटः ॥ ११८८ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1294 · p. 158
मनो रात्रिर्दिनं संध्ये धर्मश्चैते चतुर्दश ।साक्षिणोऽधिकृतोऽध्यक्षो हेमाध्यक्षस्तु भौरिकः ॥ १२९४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1327 · p. 161
अस्त्रशरासनकार्मुककोदण्डद्रोणधन्वधर्माणि ।वा पुंसि चापधनुषी स्त्री तृणताऽस्याग्रमटनिरार्त्निश्च ॥ १३२७ ॥
गीतिः
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1751 · p. 212
धर्मः प्रजान्तको दण्डी जीवितेशो महाभिषक् ।नरकाः शल्मली पूतिर्मृत्तिकः संप्रतापनः ॥ १७५१ ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात मध्वाचार्यविरचितमातृकानिघण्टु Tantrābhidhāna 6.8 · p. 41
दक्षनासा त्रिविक्रान्तो भारभूर्वि(तिर्ग्र)ग्रहाधिपः ।ऋङ्मूर्त्तिस्तु यती धर्म(र्मो)रिपुघ्न ऋ-स्वरः स्मृतः ॥ ८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 घ्न (wrong syllable)
genderपुंmasc.
दीर्घबाहू रसो रूपं नादाख्यश्चातिचञ्चलः ।ञो धर्मः सुखदो ज्ञानी वामकराङ्गुलीनखः ।एकपादः कुण्डली च वामपाणिस्तथा नखः ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.21 · p. 89
शालिनीकरणं न्यग्भावनं गन्धनसूचने ।भावः पदार्थो धर्मः स्यात्सत्त्वं सत्त्वं च वस्तु च ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव लिङ्गादिसंग्रहः Trikāṇḍaśeṣa 4.10 · p. 274
genderपुंक्लीm. n.
उत्पलिनी Utpalinī · व्याडि Utpalinī 39 · p. 47
पूर्वद्वारे गुहहरौ राजश्रोथौ क्रमेण तौ ।द्वितीये तु धर्माधर्मौ तौ खरद्वारिकौ क्रमात् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.168 · p. 97
धर्मोऽस्त्री सुकृतं पुण्यं पाप्माधर्मौ तु दुष्कृतम् ।दुरितं पातकं पापं त्रस्तमंहोऽघकल्मषे ॥ १६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.8 · p. 104
उपायनैपुणं धर्म इत्याद्याः शोभनाः क्रियाः ।दृष्टादृष्टोद्यार्था यास्ते गुणा आभिगामिकाः ॥ ८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ष्टो (syllables merged)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.158 · p. 117
ऋष्टिः खङ्गः प्रचारोऽसिर्धर्मपालः प्रजागरः ।धर्मो विशसनो देवो मनुष्येष्टः शिवंकरः ॥ १५८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश धर्मकर्माध्यायः Vaijayantī 5.2.1 · p. 192
रूपं तत्त्वं सतत्त्वं च स्वरूपं च सलक्षणम् ।सहजं निजमाजानं धर्मसर्गौ निसर्गवत् ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.265
धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास मश्लोकः Dharaṇikośa 24.3.5 · p. 146
धर्माः पुण्ययमन्यायस्वभावाचारसो[70]मपाः ।विदुश्चापे धर्मशब्दमहिंसोपमयोरपि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.67 · p. 281
भीष्मः शंतनुनन्दने स्मरहरे रात्रिंचरे दारुणेभेद्ये क्षीरखयोः सुमस्तु [न] युगे पुष्पे पुनः स्यात्सुमम् ।धर्मोऽस्त्री सुकृतेऽथ पुंसि च यमे न्याये स्वभावे क्रता-वाचारोपमयोस्तथोपनिषदि स्यात्कार्मुकोपाधिगः ॥ ६७ ॥
शार्दूलविक्रीडितम्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.628 · p. 96
ज्ञेया पिङ्गलकेशादिकन्यायां सुरभावपि ।धर्मोऽस्त्री सुकृते साम्ये स्वभावे लग्नराशितः ॥ ६२८ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.629 · p. 96
राशौ तु नवमे प्राहुर्मौहूर्ता ना तु सोमपे ।न्यायाचारयमाहिंसाखड्गचापेषु राज्ञि च ॥ ६२९ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.630 · p. 96
प्रधानशेषे सत्ये च श्रुतौ दण्डविनिर्णये ।सतां तु सङ्गतेऽप्येनमजयः समुपादिशत् ॥ ६३० ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.78 · p. 220
अर्धं क्लीबे समांशार्थे धर्मं दानादिके पुनः ।सारं न्याय्ये खलं भुम्यां कामं चानुमतावपि ॥ ७८ ॥
अनुष्टुप्
meaningsदान
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.12 · p. 253
द्रुमः किम्पुरुषे कामे पारिजाते महीरुहे ।धर्मोऽस्त्री सुकृता चारस्वभावोपनिषत्सु च ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.13 · p. 253
हिंसोपमाक्रतुन्याये ना धनुर्यमसोमपे ।ध्यानं श्यामे त्रिषु क्लीबं दमने गन्धखटके ।नेमिः कूपत्रिकाचक्रान्तयोः स्त्री तिनिशे पुमान् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 ख (wrong syllable)
doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.1942 · p. 236
धर्मो न्याययमाचाराहिंसावैदिककर्मसु ।साम्यस्वभावसुकृतेष्वस्त्री धर्मं तु कार्मुके ॥ १९४२ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.298 · p. 194
धर्मोऽहिंसोपमायागोपनिषत्सु धनुष्यपि ।कटे पुर्य्याञ्च निगमो नियमो निश्चये वृते ॥ २९८ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.42 · p. 233
दृश्या स्यात् पृतना दृश्यं दर्शनीये विभूषणे ।धर्मोऽस्त्री सुकृते साम्ये स्वभावे ना तु सोमपे ॥ ४२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.43 · p. 233
न्यायाचारयमाहिंसास्वस्त्री मेढ्रांकयोर्ध्वजः ।धिष्ण्यौ शुक्रानलौ धिष्ण्यमृक्षे स्थाने बले गृहे ॥ ४३ ॥
अनुष्टुप्
doubtful

धर्म as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् उपनिषद्धर्मे रहस्युपनिषत्स्यादृतौ वत्सरे शरत् । Amarakośa 3.3.180
  • धरणिकोश भगभगशब्दो यशोज्ञानवीर्ययत्नार्कयोनिषु । वैराग्यैश्वर्यधर्मेषु इच्छालक्ष्म्योरपि स्मृतः ॥ Dharaṇikośa 3.3.2
  • धरणिकोश वृषवृषः श्रेष्ठाखुधर्मेषु प्राह्यदे ? शुक्रले गवि । वृषः कोवालिभेदे ? च वृषा मूषिकपर्णिका ॥ Dharaṇikośa 30.3.1
  • धरणिकोश श्रेयस्श्रेयः स्यान्मङ्गले धर्मे प्रशस्तेऽतिशयादपि । श्रेयसी करिपिप्पल्यां रास्ना च श्रेयसी स्मृता ॥ Dharaṇikośa 31.3.8
  • कोषकल्पतरु गुणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
  • कोषकल्पतरु इतिकथानृपते रक्षिणि चि[4a]ह्ने भवति तथा वीरमर्दले तद्वत् । स्यादितिकथा विनष्टे धर्मे वचने तथार्योने ॥ १६ ॥ Koṣakalpataru 6.18.16
  • कोषकल्पतरु उपनिषद्कारूण्डे मार्तण्डे यज्ञपुरुषके सहस्रपादः स्यात् । उपनिषदुक्ता धर्मे वेदान्ते स्याद्रहोर्थे च । Koṣakalpataru 6.19.36
  • कोषकल्पतरु दर्शनस्याद्दर्शनं लोचनबुद्धिधर्मे स्वप्नोपलब्ध्योर्मुकुरे च शास्त्रे । कश्मीरजे स्यात्पिशुनं त्रये तु क्रूरे खले पुंसि तु मर्कटास्ये ॥ २५ ॥ Koṣakalpataru 6.21.25
  • कोषकल्पतरु वृषवृषस्तु धर्मे नरि सौरभेये पुंराशिभेदे वनिताप्रसङ्गे( ? ) । स्यान्मूषके श्रेष्ठगतोऽन्यवत्स्यात् स्याद्वासके द्वंद्वगतो वृषा तु ॥ ३४ ॥ Koṣakalpataru 6.30.34
  • कोषकल्पतरु श्रेयस्श्रेयस्तु धर्मे कुशले च मोक्षे- ऽन्यवत्प्रशस्येऽप्यथ योषिति स्यात् । रास्नाभयावारणपिप्पलीषु स्रोतोऽम्बुवेगेन्द्रिययोर्द्वयोने ॥ ३ ॥ Koṣakalpataru 6.31.3
  • कोषकल्पतरु तपस्पुमानदन्तोऽथ तपोऽपि धर्मे दर्भे च कृच्छ्रादिषु लोकभेदे । माघे तु न स्त्री शिशिरे तु पुंसि तपस्तथा ग्रीष्मऋतौ तु पुंसि ॥ ६ ॥ Koṣakalpataru 6.31.6
  • नानार्थार्णवसंक्षेप आत्मन्देहे यत्ने धृतौ कीर्तौ बुद्धौ मनसि च श्रुते । धर्मे स्वभावे पुत्रेऽर्थे परस्य प्रतियोगिनि ॥ १३ ॥ Nānārthārṇavasaṃkṣepa 2.2.13
  • नानार्थार्णवसंक्षेप तेजस्विस्तारे च शरीरे च तेजस्तु बलतोययोः । नवनीतेऽनले धर्मे ज्योतिष्यर्चिषि रेतसि ॥ २९ ॥ Nānārthārṇavasaṃkṣepa 2.3.29
  • नानार्थार्णवसंक्षेप परुस्पयः सामान्तरे दुग्धे रजन्यामन्नतोययोः । परुरिक्ष्वादिकग्रन्थौ धर्मे पाजो बलान्नयोः ॥ ४० ॥ Nānārthārṇavasaṃkṣepa 2.3.40
  • नानार्थार्णवसंक्षेप अन्तअन्तोऽवसाने मरणे स्वरूपे निश्चयेऽन्तिके । धर्मे प्रधाने च पुमान् केषाञ्चित् पुन्नपुंसकम् ॥ २० ॥ Nānārthārṇavasaṃkṣepa 2.5.20
  • नानार्थार्णवसंक्षेप तपस्तक्षा दीपे ज्वरे सूर्य आतपे क्ली तु पुत्रयोः । तपस्तु नपि कृच्छ्रादौ धर्मसन्तापयोरपि ॥ ५१७ ॥ Nānārthārṇavasaṃkṣepa 2.5.517
  • नानार्थार्णवसंक्षेप त्राकतृणसम्बन्धिनि त्रिः स्यात् त्राको धर्मे नृलिङ्गकः । त्रि स्याच्छरणदेशीये त्वाष्ट्रस्तु क्षपके पुमान् ॥ ५३१ ॥ Nānārthārṇavasaṃkṣepa 2.5.531
  • नानार्थार्णवसंक्षेप धर्तृना तु धर्मे धन्व तु क्ली चापे व्योम्न्यथ शाश्वतः । स्थलेऽप्याह मरौ पुंसि ध्वजी तु ध्वजसंयुते ॥ ६३७ ॥ Nānārthārṇavasaṃkṣepa 2.5.637
  • नानार्थार्णवसंक्षेप पुण्यव्योम्नि हेम्नि तथा धर्मे ( ब्रु ? व्र )ते च शुभकर्मणि । गङ्गार्घ्ययोस्तु पुण्या स्त्री मनोज्ञे तु त्रि पावने ॥ ७८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.785
  • नानार्थार्णवसंक्षेप भगभगः पुनः स्मृतो यत्ने यशोवीर्यार्कभूतिषु । कान्तीच्छाज्ञानवैराग्यधर्मैश्वर्यतपः सु च ॥ ८७६ ॥ Nānārthārṇavasaṃkṣepa 2.5.876
  • नानार्थार्णवसंक्षेप वृषबृहस्पतौ बलीवर्दे धर्मे पुंसि पुरन्दरे । राशौ च वृषभाभिख्ये पठ्यते बलकर्णयोः ॥ १२७५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1275
  • नानार्थार्णवसंक्षेप श्रेयस्तथा मोक्षे च धर्मे च मङ्गले त्रि तु तद्वति । स्यात् प्रशस्यतरे चाथ स्त्र्यर्थे वृत्तिर्यदा तदा ॥ १४२७ ॥ Nānārthārṇavasaṃkṣepa 2.5.1427
  • नानार्थार्णवसंक्षेप अक्षरक्ली तु वाचि विधौ धर्मे वर्णेऽम्बुतमसो क्रतौ । अक्षराख्ये सामभेदे खे मोक्षे मूलकारणे ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 4.6
  • नानार्थार्णवसंक्षेप मुचिरतालमूलीसमाख्ये च स्तम्बेऽथ मुचिरः पुमान् । सूर्ये मेघे च धर्मे च त्रि तु दातरि ना पुनः ॥ १४२८ ॥ Nānārthārṇavasaṃkṣepa 4.1428
  • नानार्थार्णवसंक्षेप उपनिषद्रहस्यार्थे तूपनिषद् धर्मवेदान्तयोरपि । रहसीत्यपरे प्राहुः प्रथमर्तौ च योषिताम् ॥ १६ ॥ Nānārthārṇavasaṃkṣepa 6.16
  • नानार्थार्णवसंक्षेप रञ्जसानधर्मे च राजराजस्तु धनदे राजसत्तमे । तृणजातौ तु दात्रे च काले चापि लवाणकः ॥ १०३ ॥ Nānārthārṇavasaṃkṣepa 6.103
  • परमानन्दीयनाममाला अक्षरअनन्तस्तु हरौ शेषबलयोरक्षरं शिवे । परब्रह्मणि धर्मे चाध्वरवर्णनभःस्वपि ॥ २१ ॥ Paramānandīyanāmamālā 5.1.21
  • परमानन्दीयनाममाला हंसहंसो धर्मे रवौ राज्ञि विष्णुजीवसितेषु च । खगान्तरेऽथ हस्तस्तु भुजे माने कचोचये ॥ ३७५ ॥ Paramānandīyanāmamālā 5.28.375
  • शब्दरत्नावली भगभगं स्त्रीज्ञानवैराग्ययोनिमाहात्म्यकीर्तिषु । ऐश्वर्यधर्मकामेषु मोक्षे यत्नेऽथ ना रवौ ॥ Śabdaratnāvalī 7.3.13
  • शब्दरत्नावली स्वजस्वजं क्लीबन्तु रक्ते स्यात् स्वजो ना धर्मपुत्रयोः । सज्जः स्यादपि सन्नद्धे आदृते निभृते त्रिषु ॥ Śabdaratnāvalī 7.8.18
  • शब्दरत्नावली उपनिषद्स्त्रियामुपनिषद्धर्मवेदान्तविजनेष्वपि । Śabdaratnāvalī 7.18.30
  • शब्दरत्नावली ऋषभऋषभः स्वरभेदे स्यादष्टवर्गोषधान्तरे । कर्णरन्ध्रे च कुम्भीरपुच्छे धर्मे वृषेऽपि च ॥ पुमानुत्तरभाक्श्रेष्ठे नराकारस्त्रियां स्त्रियाम् । विधवायां शिरालायां पूकशिम्ब्यामृषभ्यपि ॥ Śabdaratnāvalī 7.24.9
  • शब्दरत्नावली पुण्यप्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च । प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥ पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने । पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥ पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् । पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥ वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे । वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥ बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् । वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥ Śabdaratnāvalī 7.26.19
  • शब्दरत्नावली खरऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
  • शब्दरत्नावली वृषवृषो धर्मे वलीवर्दे संख्याराशिभिदोरपि । मूषिके शुक्तलेऽपि स्यादुत्तरस्थो वरार्थकः ॥ Śabdaratnāvalī 7.31.15
  • शब्दरत्नावली तपस्तरस्तीरे बले वेगे प्लवने च नपुंसकम् । तपः क्लीबं लोकभेदे धर्मे चान्द्रायणादिषु । पुंसि माघे च शिशिरे त्वस्त्रियामपि कुत्रचित् ॥ Śabdaratnāvalī 7.32.22
  • शब्दरत्नाकर तेजस्धर्मेऽग्नौ नवनीते च तल्पं शयनजाययोः । रत्नदोषे भये त्रासस्तनुः स्त्री त्वक्शरीरयोः । त्रिष्वल्पे च कुशे चाथ तमो राहुस्तमः शुचि ॥ १९३३ ॥ Śabdaratnākara 4.1.1933
  • शब्दरत्नाकर पुण्यपुण्यं धर्मे शुभे शुद्धे पूर्वः प्राच्यादिकेऽर्थवत् । पूर्वजेषु नृभूम्नोः स्यात् प्रस्थोऽस्त्री सानुमानयोः ॥ १९६२ ॥ Śabdaratnākara 4.1.1962
  • शब्दरत्नाकर भगभगो रुद्रे मुनौ सूर्ये धर्मे प्राज्ञे तपस्यपि । वैराग्यैश्वर्यकान्तीच्छायत्नवीर्ययशःस्वपि ॥ १९६८ ॥ Śabdaratnākara 4.1.1968
  • तन्त्राभिधान ञसर्वेशश्चूर्णिता बुद्धिः स्वर्गात्मा घर्घरध्वनिः । धर्मैकपादौ सुमुखी विरजा चन्दनेश्वरी ॥ ८७ ॥ Tantrābhidhāna 2.27.87
  • वैजयन्ती तेजस्नवनीतेऽनले धर्मे दानं हस्तिमदेऽपि च । द्रव्यं गुणानामाधारे भेषजे योगवित्तयोः ॥ १५ ॥ Vaijayantī 6.3.15
  • वैजयन्ती पुण्यपुमांस्तु पृतनाकट्यां पापं म्यात् क्रूरपाप्मनोः । पुण्यं धर्मे जले हेम्नि पुष्पे क्ली सुंदरेऽर्थवत् ॥ ५० ॥ Vaijayantī 6.5.50
  • वैजयन्ती भगभगं योन्यां भगो यत्ने यशोवीर्यार्कभूतिषु । कान्तीच्छाज्ञानवैराग्यधर्मैश्वर्यतपः सु च ॥ ५८ ॥ Vaijayantī 6.5.58
  • वैजयन्ती वृषत्रिष्वतीतदृढाधीतवर्तुलेष्वथ गीष्पतौ । श्रेष्ठोक्षाश्वाखुरेतःसु पुन्धर्मेन्द्रबले वृषः ॥ ७७ ॥ Vaijayantī 6.5.77
  • वैजयन्ती विनयविकीर्णोऽर्थश्च विकिरौ विसर्गौ मुक्तिवर्चसी । विनयो धर्मविद्याधीशिक्षाचारप्रशान्तिषु ॥ ७० ॥ Vaijayantī 7.1.70
  • वैजयन्ती अक्षरअक्षरोऽसौ हरौ धातर्यक्षरं प्रणवे विधौ । धर्मे वर्णे तपःक्रत्वोः खे मोक्षे मूलकारणे ॥ ३ ॥ Vaijayantī 7.5.3
  • वैजयन्ती मुचिरउपसूर्ये कुष्ठरोगे देशे द्वादशराजके । मुचिरौ धर्मदातारौ मोदकौ खाद्यहर्षकौ ॥ ६६ ॥ Vaijayantī 7.5.66
  • वैजयन्ती सुकृतसुकृतं शोभने धर्मे हर्षुलो मृगकामिनोः । Vaijayantī 7.5.94
  • वैजयन्ती उपनिषद्अनर्थवाचीतिकथा स्यादश्रद्धेयवाचि च । रहस्यार्थे तूपनिषद्धर्मवेदान्तयोरपि ॥ ३ ॥ Vaijayantī 8.2.3
  • वैजयन्ती प्रसृत्वन्द्वीपवत्यौ धरानद्यौ द्वीपवानंबुधौ नदे । धर्मे वाद्ये प्रसृत्वा ना प्रतिपत्तिः प्रसृत्वरी ॥ २९ ॥ Vaijayantī 8.5.29
  • वैजयन्ती श्रेयस्विहाय महिषीमेकां भोगिन्योऽन्या नृपस्त्रियः । श्रेयोऽत्यन्तं प्रशस्ते स्यात् कल्याणे धर्ममोक्षयोः ॥ ३२ ॥ Vaijayantī 8.5.32