कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

सत्त्व

sattvaक्ली · neut.

In 14 kośas: 24 synonym verses, 13 as a nānārtha head word, 10 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.29
विशेषः कालिकोऽवस्था गुणाः सत्त्वं रजस्तमः ॥ २९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.39 · p. 239
भावः पदार्थो धर्मः स्यात्सत्त्वं तत्त्वं च वस्तु च ।वर्धनं छेदनं व्युष्टिः फलमाम्नाय इत्यपि ॥ ३९ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.96 · p. 416
क्षेत्रं तमः प्रसूनं स्यात् पुंसि सत्त्वं रजः पुमान् ।रजस् क्लीबे तमः पुंसि तमस् क्लीबेऽथ जन्म षण् ॥ ९६ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.104 · p. 472
सान्त्वसत्त्वार्त्तवानां च तद्वत्स्यात् किण्वविश्वयोः ।तथा दृषस्य कुलिशस्यार्पिशस्यामिषस्य च ॥ १०४ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.19 · p. 2
जीवजन्युं प्राणिनोऽस्मिन्नंशुमान्सत्त्वमस्त्रियाम् ।क्लीबे प्रकाशार्कसत्त्वं रजो ना रञ्जकं रजः ॥ १९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नपुंसकाधिकारः Koṣakalpataru 4.3.14 · p. 108
तत्त्वं सान्त्वं सत्त्वमजन्तौविश्वं किण्वं चार्तवजीवे ।बाहवयौतव-परिपेलवव-त्स्तवमपि मुस्तानाम्नि दिवं च ॥ १४ ॥
metre not recognised
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुंनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.5.70 · p. 115
भावारावशरावपल्लवशवक्लीवा अपूर्वं तथानिष्ठीवं च सदैवमर्थविषये स्वं सत्त्वमङ्गिन्यपि ।नल्वः स्याल्लवणे च सैन्धवमधो लोके तथा वाडवःपाशः कर्कशकोशवच्च कुलिशं चाकाश-काशाङ्कुशाः ॥ ७० ॥
शार्दूलविक्रीडितम्
genderपुंक्लीm. n.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.256 · p. 84
जन्तुः पुनर्भवी जन्युः सत्त्वं देहभृदप्यसौ ।उत्पत्तिरुद्भवो जन्म जननं जनिरुच्यते ॥ २५६ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.388 · p. 100
गुणाः सत्त्वं रजश्चैव तमः सांख्यमतानुगाः ।स्पर्धा द्रोहस्तथा बन्ध्यं निष्फलं मोघमित्यपि ॥ ३८८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास नपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.3.98 · p. 223
किण्वं दिवं सान्त्वमुलूखलं चपातालसत्त्वे वृशविश्वशीर्षम् ।मन्दाक्षपीयूषमहानसानिकासीससंयज्जगदर्पिषाणि ॥ ९८ ॥
इन्द्रवज्रा
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास पुंनपुंसकलिङ्गसंग्रहः Paramānandīyanāmamālā 6.5.127 · p. 227
जीवे सत्त्वो मधुर्मद्ये फलेऽप्यामलकस्तथा ।एकाद्रात्रः समाहारे तनौ पिण्डोऽपि कथ्यते ॥ १२७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.21 · p. 21
आत्मा जीवोंऽशुमाञ्जन्तुर्देही प्राणी च चेतनः ।जन्युः शरीरी पुरुषो हंसः सत्त्वं पुनर्भवा (?) ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2484 · p. 402
असुमान् चापि संसारी शरीरी देहभृत् तथा ।प्राणी सत्त्वं च नामानि द्वादशैव भवन्ति वै ॥ २४८४ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.312 · p. 22
सत्त्वं रजस्तम इति गुण रजतमे अपि ॥
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.77 · p. 175
भगालं नरमुण्डे स्यात् चुलुकः प्रसृतौ पुमान् ।भावे पदार्थो धर्मश्च तत्त्वं सत्त्वञ्च वस्तु च ।स्यादाकूतमभिप्राये समुदाचार इत्यपि ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.265 · p. 36
चित्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति ।मानसं कर्म संकल्पो मेधा धीर्धारणावती ॥ २६५ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.275 · p. 37
मुक्तिनिर्वाणकैवल्यब्रह्मनिःश्रेयसामृतम् ।मोक्षोऽपवर्गः सत्त्वोऽस्त्री प्रधानं प्रकृतिः स्त्रियाम् ॥ २७५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.277 · p. 38
प्रणिधानं प्रसंख्यानं ध्यानं सत्त्वं रजस्तमः ।गुणास्तत्त्वं प्रकृत्याद्यमविद्या स्यादहंमतिः ॥ २७७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1382 · p. 167
सत्त्वं च प्राण ऊष्मा च शक्तिश्चाथ समार्थकाः ।सर्वाभिसारः सर्वौघः सर्वसंनाह इत्यमी ॥ १३८२ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव कालवर्गः Trikāṇḍaśeṣa 1.4.32 · p. 19
शल्यं तूस्तं च कल्कोऽथ भद्रं भल्लं शिवं तथा ।शं शुभं चाव्यये प्राणी सत्त्वो रूपं चतुष्पदः ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.8 · p. 87
श्रुत्थुको विक्रियामात्रादुद्भटायनमुच्यते ।बुद्धद्रव्यं स्तौपिकं स्यात्सत्त्वं द्रव्यं च वस्तु च ॥ ८ ॥
अनुष्टुप्
genderक्लीneut.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.21 · p. 89
शालिनीकरणं न्यग्भावनं गन्धनसूचने ।भावः पदार्थो धर्मः स्यात्सत्त्वं सत्त्वं च वस्तु च ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
उत्पलिनी Utpalinī · व्याडि Utpalinī 77 · p. 52
उदयादिषु अविकृतिर्मनसः सत्त्वमुच्यते ।आत्मवान् सत्त्ववानुक्तः … ॥ ७७ ॥
metre not recognised
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.162 · p. 96
असदक्षरमव्यक्तं तमः सदसदात्मकम् ।अलिंगं गुणसामान्यं गुणाः सत्त्वं रजस्तमः ॥ १६२ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.213
द्रव्यासुव्यवसायेऽपि सत्त्वमस्त्री तु जन्तुषु ॥ २१३ ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.868 · p. 99
वेदाध्यात्मब्राह्मणहिरण्यगर्भेषु कथ्यते ब्रह्म ।प्रकृतिगुणे सत्तायां स्थामनि भूते च सत्त्वं स्यात् ॥ ८६८ ॥
आर्या
धरणिकोश Dharaṇikośa · धरणिदास वश्लोकः Dharaṇikośa 28.3.3 · p. 209
सत्त्वं द्रव्ये स्वभावेऽपि पिशाचादौ गुणे रसे ।आयुधे व्यवसाये च वृद्धौ प्राणेषु जन्तुषु ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.99 · p. 358
स्त्री तेजनीस्पृक्क्षितिपाङ्गनासुसत्त्वोऽस्त्रियां जन्तुपिशाचयोश्च ।गुणेऽसुषु क्लीबमिहात्मतायांद्रव्ये स्वभावे व्यवसायधाम्नोः ॥ ९९ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.500 · p. 358
वित्तेऽपि सान्त्वं त्विह दक्षिणत्वेस्यात्साम्न्यथेशे नरि सर्व उक्तः ।समस्तवाची परवत्प्रदिष्टः[77a]कर्वस्तु कामे नरि मूषके च ॥ ५०० ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 स (wrong syllable)
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1440 · p. 165
सत्त्वं स्वभावे सत्तायां द्रव्येऽन्तःकरणे बले ।पराक्रमे साङ्ख्यगुणे व्यवसायात्मभावयोः ॥ १४४० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1441 · p. 165
माहात्म्ये पौरुषे त्वस्त्री पिशाचादौ च जन्तुषु ।प्राणे चाथ समं तुल्ये साधौ च त्रिषु स त्वयम् ॥ १४४१ ॥
अनुष्टुप्
doubtful
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास सकारादयः Paramānandīyanāmamālā 5.27.364 · p. 208
सर्गो वर्गे स्वभावे च निर्माणोत्साहयोरपि ।सत्त्वं गुणान्तरे जीवे क्रियाकारस्वभावयोः ॥ ३६४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.22 · p. 286
शिवाभयामलक्याञ्च दुर्गाक्रोष्टीशमीषु च ।सत्त्वं बले गुणे द्रव्ये पिशाचादिस्वभावयोः ।व्यवसायधनप्राणात्मतास्वस्त्री तु जन्तुषु ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2020 · p. 245
सालोऽश्वकर्णे प्राकारे तरुमात्रे झषान्तरे ।सत्तायां प्रकृतौ प्राणे पिशाचादौ पराक्रमे ॥ २०२० ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2021 · p. 245
द्रव्ये बलेऽन्तःकरणे व्यवसायात्मभावयोः ।स्वभावे निर्मलज्ञाने सत्त्वमस्त्री तु जन्तुषु ॥ २०२१ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.93 · p. 237
शीतो ना वेतसे शेलौ शैत्ये क्ली तद्वति त्रिषु ।सत्त्वोऽस्त्री जन्तुषु क्ली तु व्यवसाये पराक्रमे ॥ ९३ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 6.5.94 · p. 237
आत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयोः ।प्राणे बलेऽन्तः करणे स्वामी पत्यौ षडानने ॥ ९४ ॥
अनुष्टुप्

सत्त्व as a meaning in nānārtha verses