कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अभिप्राय

abhiprāyaपुं · masc.

In 14 kośas: 12 synonym verses, 23 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.24 · p. 52
छन्दोऽभिप्राय आकूतं मतभावाशया अपि ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सङ्कीर्णवर्गः Amarakośa 3.2.20
विधुरं तु प्रविश्लेषेऽभिप्रायश्छन्द आशयः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.762 · p. 87
आकूतं स्यादभिप्रायो व्याकूतिर्भङ्गिरुच्यते ।स्थण्डिलं संस्कृता भूमिरयनं स्थानमुच्यते ॥ ७६२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव ब्रह्मप्रकाण्डः Kalpadrukośa 3.2.65 · p. 446
प्रतिवाणिरभिप्रायः समुदाचार इत्यपि ।प्रतिवचनं संगरिका प्रतिरूपकथाऽपि च ॥ ६५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 तिव (syllable split)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.31 · p. 4
प्रमादोऽनवधानत्वं पुंस्याधिः स्यान्मनोव्यथा ।अभिप्रायाशयच्छन्दा आकूतच्छन्दसी मतम् ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.274 · p. 86
चतुर्वर्गो धर्मकाममोक्षवित्ताख्यभेदतः ।अभिप्रायाशयौ तुल्यौ मताकूतेऽपि सम्मते ॥ २७४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संयोगादिवर्गः Śāradīyākhyanāmamālā 2.2.84 · p. 27
भावो मतमभिप्रायश्छन्द आकूत आशयः ।शीलं स्वभावः सहजो निसर्गः प्रकृती रुचिः ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2513 · p. 407
अभिप्रायस्तथा भाव आकूतमाऽऽशये मतम् ।छन्दश्चेति हि नामानि मन्यन्ते विदुषां गणे ॥ २५१३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सङ्कीर्णवर्गप्रकाशः Śabdaratnāvalī 6.77 · p. 175
भगालं नरमुण्डे स्यात् चुलुकः प्रसृतौ पुमान् ।भावे पदार्थो धर्मश्च तत्त्वं सत्त्वञ्च वस्तु च ।स्यादाकूतमभिप्राये समुदाचार इत्यपि ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण संकीर्णाध्यायः Śabdaratnākara 3.7.1717 · p. 207
परिणामो विकारः स्याच्छन्दोऽभिप्राय आशयः ।उपभोगस्तु निर्वेशः संनिधिः संनिकर्षणम् ॥ १७१७ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सङ्कीर्णवर्गः Trikāṇḍaśeṣa 3.2.26 · p. 90
प्रज्ञप्तिः परिभाषाशैलीसङ्केतसमयकाराश्च ।प्रतिवाणी प्रतिवचनं समुदाचारस्त्वभिप्रायः ॥ २६ ॥
आर्या
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.174 · p. 97
आकूतिर्मतमाकूतं भावोऽभिप्राय आशयः ।चित्ताभोगो मनस्कार उत्प्रेक्षा स्वमनीषिका ॥ १७४ ॥
अनुष्टुप्
genderपुंmasc.

अभिप्राय as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् छन्दअभिप्रायवशौ छन्दावब्दौ जीमूतवत्सरौ ॥ ८८ ॥ Amarakośa 3.3.88
  • नामलिङ्गानुशासनम् भावभावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु । Amarakośa 3.3.396
  • हलायुधकोशः (अभिधानरत्नमाला) भावअग्निधनरश्मिरत्नत्रिदशविशेषेषु भवति वसुशब्दः । चेष्टात्मजन्मसत्ताभिप्रायेष्वभिहितो भावः ॥ ८५० ॥ Abhidhānaratnamālā (Halāyudha) 5.850
  • हलायुधकोशः (अभिधानरत्नमाला) अर्थअभिधेयाभिप्रायप्रयोजनद्रव्यवाचकेष्वर्थः । प्रस्तावे संघाते कुत्सायामायुधे जले काण्डम् ॥ ८६७ ॥ Abhidhānaratnamālā (Halāyudha) 5.867
  • धरणिकोश छन्दछन्दावभिप्रायवशौ मृदू चातीक्ष्णकोमलौ । स्वेदः स्यात्स्वेदने घर्मे शादः कर्दमशष्पयोः ॥ Dharaṇikośa 17.1.2
  • धरणिकोश आशयसंनयः समवाये स्यात्पृष्ठस्थायिबलेऽपि च । आशयं विदुराधारं स्यादभिप्राय आशयः ॥ Dharaṇikośa 25.2.22
  • धरणिकोश भावभावः सत्ताभिप्राये च चेष्टाधात्वर्थयोनिषु । क्रियालीलोपदेशेषु विभूतिबुधजन्मसु ॥ Dharaṇikośa 28.3.5
  • नानार्थार्णवसंक्षेप अर्थहृदये साधने मोक्षे कार्यैश्वर्यनिवृत्तिषु । वाच्ये हेतावभिप्राये याचने च हलायुधः ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 2.2.5
  • नानार्थार्णवसंक्षेप छन्दस्वृक्षपत्रेऽप्यथच्छन्दो वंशेऽभिप्रायवाञ्छयोः । ज्वरस्तु व्याधिमात्रे च हरकोपसमुद्भवे ॥ ५२ ॥ Nānārthārṇavasaṃkṣepa 2.2.52
  • नानार्थार्णवसंक्षेप भावआस्ये तु क्लीबमाचार्याः केचिदेनं प्रचक्षते । भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु ॥ ८९२ ॥ Nānārthārṇavasaṃkṣepa 2.5.892
  • नानार्थार्णवसंक्षेप आशयआशयस्तु पुमान् स्थानेऽभिप्रायाधारयोरपि । कोष्ठागारे जलस्थाने त्वाह सारवतस्तथा ॥ १८३ ॥ Nānārthārṇavasaṃkṣepa 4.183
  • परमानन्दीयनाममाला अर्थअस्रः कोणे तथा केशेऽथाश्रं रक्ताश्रुणोर्मतम् । अर्थः कार्ये धने वस्त्वभिप्रायविषयेषु च ॥ १० ॥ Paramānandīyanāmamālā 5.1.10
  • परमानन्दीयनाममाला आशयविरञ्चे वासुदेवेऽथाशयोऽभिप्राय आश्रये । आम्नाय आगमे वंशेऽप्यानर्तः समरे जने ॥ ३६ ॥ Paramānandīyanāmamālā 5.1.36
  • परमानन्दीयनाममाला छन्दस्छिद्रं व्याजे बिले गर्ते छन्दोऽभिप्रायतन्त्रयोः । श्रुतौ पद्येच्छयोश्चापि छाया बिम्बार्कयोषयोः ॥ १९० ॥ Paramānandīyanāmamālā 5.12.190
  • शब्दरत्नावली छन्दस्अब्दः सम्वत्सरे मेघे युस्तके च पयोनिधौ ॥ अन्दूर्भूषणभेदे स्यान्निगडेऽपि भवेत् स्त्रियाम् । कन्दोऽस्त्री शस्यमूले स्याच्छूरणे जलदे पुमान् ॥ कुन्दो मुकुन्दे निधिभिद्भूमिष्वस्त्री तु माथ्यके । क्षोदः स्यात्पेषणे पुंसि सन्धाने च रजस्यपि ॥ गदो विष्णुभ्रातरि स्याद्व्याधौ ना चायुधे गदा । छदः पक्षे च पत्रे च ग्रन्थिपर्णे तमालके ॥ छन्दोऽभिप्रायवशयोर्वेदकिन्यामनीषयोः(?) । नन्दिर्ना नन्दिकेश्वरद्युताङ्गानन्दयोरपि ॥ नदी स्त्रियान्तु सरिति शोणादौ नदः पुमान् । नन्दाहलिञ्जरगोर्योस्तु तिथिभेदेऽपि च स्त्रियाम् ॥ पुमान्नरपतौ गोपभेदानन्दनिधिष्वपि ॥ Śabdaratnāvalī 7.18.2
  • शब्दरत्नावली आशयअनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥ अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः । अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु । अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥ अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि । अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥ निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् । अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥ आशयः स्यादभिप्रायाधारयोः पनसेऽपि च । आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥ आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे । उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥ उपायः स्यादुपपन्तौ सामभेदादिके पुमान् । ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥ Śabdaratnāvalī 7.26.38
  • शब्दरत्नावली भावभवः प्राप्तौ हरे क्षेमसत्तासंसारजन्मसु । भावोऽभिप्रायचेष्टात्मसत्तास्वभावजन्मसु ॥ Śabdaratnāvalī 7.29.16
  • शब्दरत्नाकर छन्दछदः पक्षे पलाशे च च्छन्दोऽभिप्रायवाञ्छयोः । कान्त्यनातपयोश्छाया प्रतिबिम्बार्कभार्ययोः ॥ १९२२ ॥ Śabdaratnākara 4.1.1922
  • शब्दरत्नाकर भावभावश्चेष्टाक्रियालीलासत्ताभिप्रायजन्तुषु । आत्मभावेन्द्रियज्ञानमनोविकृतिभूतिषु ॥ १९७१ ॥ Śabdaratnākara 4.1.1971
  • शब्दरत्नाकर आशयआशयो हृदये ज्ञानेऽभिप्राये कौतुकेऽपि च । प्रभावागामिसमयदैर्घ्येष्वायतिरागमे ॥ २०४६ ॥ Śabdaratnākara 4.1.2046
  • वैजयन्ती छन्दस्वशाभिप्राययोश्छंदो जूर्णी रविहविर्भुजौ । टंकौ प्रमाणगर्वौ च डिंबः प्लीहखगांडयोः ॥ २४ ॥ Vaijayantī 6.1.24
  • वैजयन्ती भावभावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु । पदार्थमात्रे सत्तायामात्मयोनिस्वभावयोः ॥ ४३ ॥ Vaijayantī 6.1.43
  • वैजयन्ती आशयकोट्टारे कृपणे जीर्णे स्थानेऽभिप्राय आशयः । शर्करायां दृषत्पुत्रे स्त्र्यस्त्र्यश्मन्युपलो मणौ ॥ १७ ॥ Vaijayantī 7.5.17