रुचक
rucakaपुं · masc.In 18 kośas: 39 synonym verses, 11 as a nānārtha head word, 8 as a meaning of another word.
सौवर्चलेऽक्षं रुचकं दुर्गन्धं शूलनाशनम् ।
अनुष्टुप्
genderक्लीneut.
अरिमेदो विट्खदिरे कदरः खदिरे सिते ।सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः ।चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः ॥ ५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
genderपुंmasc.
genderपुंmasc.
genderक्लीneut.
मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका ।नैपाली कुनटी गोला यवक्षारो यवाग्रजः ॥ १०८ ॥पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः ।सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना ॥ १०९ ॥
अनुष्टुप्
genderक्लीneut.
सौवर्चलस्तु रुचकः कुस्तुम्बुरु च धान्यकम् ।त्रिकटु त्र्यूषणं व्योषं हिङ्गु रामठ उच्यते ॥ ६१७ ॥
अनुष्टुप्
genderपुंmasc.
मातुलुङ्गे तु रुचको बीजपूरे तु लुङ्गकः ।अथात्यम्ला मातुलुङ्गी पूतिपुष्पी वृकाम्लिका ॥ २०९ ॥
अनुष्टुप्
genderपुंmasc.
मातुलुङ्गे तु रुचको वराम्लिः केसरी शरः ।बीजपूरे मातुलुङ्गो लुङ्गस्तु फलपूरकः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
वा पुंसि वर्द्धमानोऽस्त्री रुचकस्वस्तिकौ समौ ।सिंहार्थाद्द्वारपर्यायं तत्रैव स्यात्प्रवेशनम् ॥ ६६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
बीजपूरो बीजपूर्णः पूर्णबीजश्च पूरकः ।मातुलुङ्गः केसरान्तो रुचको दन्तुरच्छदः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
तद्वच्चित्तकरुचककुलकानां स्फिगस्य च ।स्वलिङ्गाङ्गप्रगानां च तद्वत्स्याच्चोचपिञ्जयोः ॥ ९१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्त (wrong syllable)
genderक्लीneut.
धर्मः स्वभावे रुचको भूषाभिन्मातुलुङ्गयोः ।पाताले वाडवो वध्रः सीस आमलकः फले ॥ १४१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्वस्तिकः सर्वतोभद्रो रुचको वर्धमानकः ।नन्द्यावर्तादयोऽन्ये च भेदा वैच्छन्दका मताः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
घर्घनालः शिलापुत्रो गृहाश्मा गृहकच्छपः ।घरट्टः पेषयन्त्रं स्याद्रुचकं गन्धपेषणी ।भैषज्यपेषणी खल्वो नारकीटोऽश्मकीटकः ॥ १८ ॥
अनुष्टुप्
genderक्लीneut.
वसूकं वसुकं चाथ बिडं पाक्यं च कृत्रिमम् ।सौवर्चलं हृद्यगन्धं रुचकं चाक्षमित्यपि ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
बृहत्फलश्च रुचकः केसरी स तु शैलजः ।दैवदूती सुगन्धाढ्या मातुलुङ्गा वनीयकः ॥ १६ ॥
अनुष्टुप्
genderपुंmasc.
तरुणो रुचकश्चञ्चू रक्तस्तु गजकर्णकः ।व्याघ्रो व्याघ्रतलो व्याघ्रपुच्छो लोहितशीर्षकः ॥ ३८ ॥
अनुष्टुप्
genderपुंmasc.
रदनो रागचूर्णश्च हालुः स्याद्रुचकं तथा ।दन्तूलो दन्तवान्राजदन्तौ मध्यगताविमौ ।दाढा दंष्ट्राथ मिथुने काकुः स्याद्रसना न ना ॥ १७ ॥
अनुष्टुप्
genderक्लीneut.
कपालोऽस्त्री कर्परोऽस्त्रि निर्मूटं दन्तसंभवः ।रुचकं नलकं त्वन्यच्छङ्खोऽस्त्र्यास्थिललाटजः ॥शरीरास्थि करङ्कः स्यात्कङ्कालोऽस्त्र्यस्थिपञ्जरः ।भगालं नृकपाले स्यात्खट्वाङ्गं नरपञ्जरम् ॥शिरोस्थनि करोटिः स्त्री पृष्ठास्थि तु कशेरुका ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
कुतुक-कुलक-तोकानूक-हल्लीसकानित्रिक-रुचक-बुकाल्कालीक-शालूक-शल्कम् ।[228a]चिबुक-किबुक धान्याकाह्निकैडूक-शौका-लिक-कुहकयुतं च क्लान्तकं निःशलाकम् ॥ ९२ ॥
मालिनी
genderक्लीneut.
पिण्याको वर्णकोऽनूपे कूलकः सूतको रसे ।अथ स्याद्रुचकः कण्ठभूषणे बीजपूरके ॥ ३८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वराम्लो बीजको लुङ्गो रुचको मध्यकेसरः ।कृमिघ्नो गन्धकुमुमः केसरी शीधुपादपः ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चाङ्गुलो वर्द्धमान आमण्डो रुचको रुचुः ।व्याघ्रपुच्छो व्याघ्रतलश्चञ्चुरुत्तानपत्रकः ॥ १५३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व्या (wrong syllable)
genderपुंmasc.
रुमा लवणखानिस्तु विडं पाक्यं च कृत्रिमे ।सौवर्चलं शूलहरं दुर्गन्धरुचके पुनः ॥ २३३ ॥
अनुष्टुप्
genderक्लीneut.
रूचकं किबुकशालूके चिबुकं कवकं तथा ।शीर्षकं मधुपर्कं च प्रकीर्णककदम्बके ॥ ८६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.doubtful
छदे दलः स्वभावेऽथ धर्मो वध्रस्तु सीसके ।रुचको मातुलिङ्गे स्याद्भूषाभेदेऽपि विश्रुतः ॥ १२५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सुवर्चलाख्याकरजे रुचकं चाक्षमित्यपि ।एतस्मिन्नेव नीरे(ले?) तु तिलकं तिलमालकम् ॥ ४६३ ॥
अनुष्टुप्
genderक्लीneut.
केसराम्लो बीजपूरो रुचको मातुलिङ्गकः ।चिञ्चा चुचुक्रिका चुक्रा कोशा कचुक्राऽम्लमञ्जिका ॥ १८० ॥
metre not recognisednearly अनुष्टुप्
genderपुंmasc.
सौवर्चलेऽक्षं दुर्गन्धं रुचकञ्च शूलनाशनम् ।प्रोक्तं तु तिलकं नाम निर्गन्धं कृष्णवर्णकम् ॥ १६०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
रुचको मातुलिङ्गश्च मातुलुङ्गस्तथैव च ।बीजपूरश्च नामास्ति फलपूरोऽपि मन्यते ॥ २०४९ ॥
अनुष्टुप्
genderपुंmasc.
रुचक उरुवूकश्च ख्यात उरुवुकः पुनः ।एतन्नामानि मन्यन्ते पञ्चाङ्गुलस्य पण्डितैः ॥ २०५२ ॥
metre not recognised
genderपुंmasc.
genderपुंmasc.
मदनोन्मत्तकितवा मातुलः कनकाह्वयः ।धुस्तूरस्य फले सद्भिरुक्तो मातुलपुत्रकः ॥फलपूरो वीजपूरः पूर्णको वीजपूरकः ।च्छोलङ्गो मातुलुङ्गश्च रुचको मातुलुङ्गुके ॥
अनुष्टुप्
genderपुंmasc.
पाक्यं विडं विटं विट् च कृतके लवणे भवेत् ।सौवर्चलाक्षरुचके लवणे सौछले द्वयम् ॥
अनुष्टुप्
genderक्लीneut.
विशालत्वक् कटुक्षीरः करको दाडिमो द्वयोः ।फलपूरो बीजपूरो रुचको मातुलुङ्गकः ॥ ४९३ ॥
अनुष्टुप्
genderपुंmasc.
सौवर्चलं तु रुचकं दुर्गलं शूलनाशकम् ।तत्रैवाक्षं च तार्क्ष्यं च तिलकं तत्र मेचके ॥ १४५५ ॥
अनुष्टुप्
genderक्लीneut.
लवणत्रयमेतत् स्यात् सैन्धवं रुचकं बिडम् ।सामुद्रं रौमकं सिन्धुसंभवं रुचकं बिडम् ॥ १४५९ ॥
अनुष्टुप्
genderक्लीneut.
मातुलुंगे तु रुचको वराम्लः केसरी शठः ।वीजपूरे मातुलुंगो लुंगः सुफलपूरकौ ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
सौवर्चलं तु रुचकं दुर्गन्धं शूलनाशकम् ।अक्षं तार्क्ष्यं रुचिष्यं च तिलकं त्वत्र कृष्णके ॥ १२५ ॥
अनुष्टुप्
genderक्लीneut.
रुचकः सर्जिकाक्षारे विडङ्गे मातुलङ्गके ।दन्ते ग्रीवाविभूषायामश्वाभरणमाल्ययोः ॥
अनुष्टुप्
रुचकं दन्ते ग्रीवा-लंकारे मङ्गलद्रव्ये ।माल्ये चाश्वाभरणेसौवर्चलजन्तुहारिलुङ्गेषु ॥ ४० ॥
metre not recognised
स्याद्रोचने कटकयोःक्षुरकः पुनरिक्षुरे त्रिकण्टे च ।अतिमुक्तेऽशोकतरौकामुक आद्येऽभिके परवत् ॥ ४१ ॥
metre not recognised
doubtful
त्रि तु रन्तरि ना तु स्याद् रागवान् पूगपादपे ।त्रि तु रागयुते ना तु रुचको भूषणान्तरे ॥ १५१४ ॥
अनुष्टुप्
meaningsभूषणान्तर
निष्के तु रभसः प्राह मातुलुङ्गाख्यभूरुहे ।फले तु तस्य विज्ञेयं नब्लिङ्गं रुचिरः पुनः ॥ १५१५ ॥
अनुष्टुप्
doubtful
रम्यकस्तु पटोलस्य मूले च विषमुष्टिके ।रुचकं स्वर्जिकाक्षारे रोचना हृद्यगन्धयोः ॥ ४६ ॥
अनुष्टुप्
न द्वयोः सर्जिकाक्षारे माल्यमङ्गल्यवस्तुनोः ।सौवर्चलेऽश्वाभरणे तथास्वाद्यरसादिषु ॥
अनुष्टुप्
doubtful
रुचक as a meaning in nānārtha verses
- कोषकल्पतरु अक्षअक्षस्तु कर्षे शकटे च चक्रे कलिद्रुमे च व्यवहारके च । आत्माभिविज्ञे नरि पाशके च स्पादिन्द्रियेऽन्त्ये रुचके च तुत्थे ॥ ४६ ॥ Koṣakalpataru 6.30.46
- परमानन्दीयनाममाला जरणजरणो जीरके नीरे रुचके कृष्णजीरके । जम्भलो देवताभेदे जम्बीरेऽपि निशम्यते ॥ २०४ ॥ Paramānandīyanāmamālā 5.13.204
- परमानन्दीयनाममाला तिलकतिलकं च ललामे स्याद्रुचके तिलकालके । क्लोमचित्रकयोश्चाथ तुषारः शीतशीकरौ ॥ २२८ ॥ Paramānandīyanāmamālā 5.15.228
- शिवकोष सौगन्धिकसौगन्धिकं तु रुचके कल्हारे सूपधूपने । देवजग्धे पद्मरागे क्लीबे लेलीतके पुमान् ॥ ७१ ॥ Śivakoṣa 1.4.71
- शिवकोष जरणजरणो रुचके कृष्णे जीरे क्लीबं तु हिङ्गुनि । तरुणं च स्त्रियां कुब्जपुष्पे पञ्चाङ्गुले पुमान् ॥ १५९ ॥ Śivakoṣa 11.2.159
- शिवकोष कापोतमुचकुन्दे च कापोतं रुचके नेत्रभूषणे । जीवन्ती तु शमीजीवाछिन्नावन्दाभयाभिदि ॥ १९१ ॥ Śivakoṣa 12.2.191
- शिवकोष हृद्यगन्धविषायां च विषे स्त्री तु मत्स्याक्षीमत्स्यपित्तयोः । हृद्यगन्धं च रुचके ना तु बिल्वाम्रजीरके ॥ २४२ ॥ Śivakoṣa 15.3.242
- शब्दरत्नावली कापोतक्षारितस्त्रिष्वभिशस्ते स्यात् क्षारे स्राविसे पुमान् । कापोतं स्यात् कपोतौधाञ्जनयोरुचके पुमान् । किरातो म्लेच्छभेदे स्याद् भूनिम्बाल्पशरीरयोः ॥ Śabdaratnāvalī 7.16.97