कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

मासिक

māsikaक्ली · neut.

In 5 kośas: 5 synonym verses, 1 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.76 · p. 239
अन्वाहार्यं मासिकं स्यात्पार्वणं दार्शिकं समे ।नान्दीश्राद्धं वृद्धिहेतुः श्राद्धं श्रद्धायुतं त्रिषु ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.5 · p. 271
मासादिके देयमृणं मासिकं वार्षिकं त्रिषु ।प्रार्णं वत्सतरार्णं च प्रगतादावृणे क्रमात् ॥ऋणार्णं प्रागृणोच्छित्त्यै यदृणं क्रियते परम् ।वृद्धिः कलान्तरं प्रोक्तमथार्थस्य प्रयोजने ॥ ५ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.227 · p. 53
प्रावे(दे?)शनं निर्वपणं प्रतिपादनमित्यपि ।अमावास्याश्राद्धनाम्नि चान्वाहार्यं च मासिकम् ॥ २२७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1251 · p. 153
मृतार्थं तदहर्दानं श्राद्धं तत्कर्म मन्त्रवत् ।निवापः पितृदानं स्यादन्वाहार्यं तु मासिकम् ॥ १२५१ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.65 · p. 88
दशाहे श्राद्धमाग्नेयं साज्यमेकादशेऽहनि ।संप्रेषणी द्वादशेऽह्नि मासप्राप्तौ तु मासिकम् ॥ ६५ ॥
अनुष्टुप्
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1415 · p. 171
सम्बन्धिनि त्रिषु क्ली तु मासिकं पुंसि केचन ।मासि श्राद्धे त्रिषु पुनर्भासं भूतभृतादिषु ॥ १४१५ ॥
अनुष्टुप्