वृद्धि
vṛddhiस्त्री · fem.In 15 kośas: 31 synonym verses, 9 as a nānārtha head word, 50 as a meaning of another word.
गतिर्नाडीव्रणे वृद्धिः कुरण्डश्चाण्डवर्धने ।
अनुष्टुप्
genderस्त्रीfem.
वृद्धिः कलान्तरमृणं तूद्धारः पर्युदञ्चनम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
genderस्त्रीfem.
व्यत्यासस्तु विपर्यासो वैपरीत्यं विपर्ययः ॥ १५०१ ॥व्यत्ययेऽथ स्फातिर्वृद्धौ प्रीणनेऽवनतर्पणौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्फा (wrong syllable)
genderस्त्रीfem.
क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ १९ ॥
अनुष्टुप्
genderस्त्रीfem.
अपमित्यकमुद्धार ऋणं स्यात्पर्युदञ्चनम् ।वृद्धिः कलान्तरं प्रोक्तं कुसीदं वृद्धिजीवनम् ॥ ५७२ ॥
अनुष्टुप्
genderस्त्रीfem.
वृद्धिं सुमङ्गलप्रदातुबलाखला ततः परम् ।लक्ष्मीवती यशा मित्रा वला सुमहती तथा ॥ ९१ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
अथ स्युः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः ।क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ ८१ ॥
अनुष्टुप्
genderस्त्रीfem.
अष्टवर्गो नृपस्यायमस्यैवापचयः क्षयः ।वृद्धिस्तु वर्द्धनं चैवं साम्यं स्यात्सोप्यं त्रिकः ॥ १०८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
ओषः प्लोषे नयो नाये ज्यानिर्जीर्णिर्भ्रमो द्वयोः ।स्त्रियौ भ्रमिर्भ्रमी च द्वे स्फातिर्वृद्धौ च भक्षणे ॥ ४२ ॥
अनुष्टुप्
genderस्त्रीfem.
गण्डो वृद्धिर्ध्रुवश्चापि व्याघातश्चापि हर्षणः ।वज्रं सिद्धिर्व्यतीपातो वरीयान्परिघः शिवः ॥ ९ ॥
अनुष्टुप्
genderस्त्रीfem.
ऋद्धिः संपत् संपदास्त्राब्धिभूति-र्भूतिर्लक्ष्मीर्वृद्धिसंपत्तिनन्दाः ।पुंलिङ्गोऽयं स्याद्विधिर्यः शुभार्थो-ऽथापत्तिः स्यादापदापद्विपत्तिः ॥ ४३ ॥
शालिनी
genderस्त्रीfem.
नवाहः पुंसि वृद्धिः स्त्री प्रतिपत्पक्षतिर्भवेत् ।वत्सरादिश्चैत्रशुक्ला साऽथ कार्त्तिकशुक्लगा ॥असौ बलिदिनं नावरात्रिकी त्विषशुक्लगा ।सुमङ्गलपदा ब्राह्मी द्वितीया युग्मनामिका ॥ ५२ ॥
अनुष्टुप्
genderस्त्रीfem.
सर्वलोकप्रिया वृद्धिर्गर्भदाप्यृद्धिनामिका ।जीवनीयो गणः सोऽयं भवेन्मधुकसंयुतः ॥ ५३ ॥
अनुष्टुप्
genderस्त्रीfem.
क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ।स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
मासादिके देयमृणं मासिकं वार्षिकं त्रिषु ।प्रार्णं वत्सतरार्णं च प्रगतादावृणे क्रमात् ॥ऋणार्णं प्रागृणोच्छित्त्यै यदृणं क्रियते परम् ।वृद्धिः कलान्तरं प्रोक्तमथार्थस्य प्रयोजने ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
द्वंद्वे विद्रधिरेताः स्युः पिटिका दशमेहिनाम् ।कुरण्डो वर्धा वृद्धिः स्त्री गुल्मोऽस्त्री जठरोपलः ॥ ४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्धा (wrong syllable)
genderस्त्रीfem.
हानिः क्षिया क्षयो ह्रासोऽपचयश्चापहारवत् ।स्फातिर्वृद्धिस्तथोत्कर्षोऽतिशयश्चातिशायनम् ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
वैपरीत्यमथ स्फातिः वृद्धिः प्रीणनसंज्ञिका ।प्रणतिस्तु प्रणामोऽपि प्रणिपातस्तथोच्यते ॥ ३७७ ॥
अनुष्टुप्
genderस्त्रीfem.
गुल्मः स्यादुदरग्रन्थिरुदावर्तो गुदग्रहः ।नाडीव्रणो गतिर्वृद्धिः कुरण्डश्चाण्डवर्धनम् ॥ ७२२ ॥
अनुष्टुप्
genderस्त्रीfem.
वृद्धिः कलान्तरं नाम मूलधनस्य वर्द्धने ॥ १४७५ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
genderस्त्रीfem.
वृद्धिस्थानं क्षयश्चेति त्रिवर्गोनीतिवेदिनम् ।इतरेषान्तु धमार्थकामैरप्यभिधीयते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ध (wrong syllable)
genderस्त्रीfem.
अधिके तु फले लाभो लभ्यं स्याद्बृद्धिरित्यपि ।परिवर्तः परीवर्तो नैमेयो नियमोऽपि च ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
द्वैधं समाश्रयस्तिस्रः प्रभावोत्साहमन्त्रजाः ।शक्तयोऽथ क्षयः स्थानं वृद्धिरेष त्रिवर्गकः ॥ १२७३ ॥
अनुष्टुप्
genderस्त्रीfem.
स्पृष्टिः पृक्तौ विधा वृद्धौ क्लान्तिस्तु क्लमथः क्लमे ।उन्नाय उन्नये जूतिर्जव ईतिरुपप्लवे ॥ १६९८ ॥
अनुष्टुप्
genderस्त्रीfem.
रीतिः प्रवृत्तौ वृद्धौ तु स्फातिर्ज्ञातिस्तु बान्धवे ।प्रमा तु प्रमितौ श्रायः श्रयणे मार्जने मृजा ॥ १६९९ ॥
अनुष्टुप्
genderस्त्रीfem.
कुरण्डवृद्धः सिङ्घानशेटौ स्कन्दनरेचने ।गर्भण्डो नाभिगुडकोऽभिमन्थो लोचनामये ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
वार्धुष्यं वार्धुषं धान्यवृद्धिर्वृद्धिः पुनः कला ।सा कायिकान्वहं देया प्रतिमासं तु कालिका ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
ऋषिः सृष्टा वृषा वृष्या हृद्या योग्या युगाह्वया ।अथ वृद्धिर्बोधनीया महाश्रावणिका बुधा ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
स्यादुष्ट्रग्रीवकोऽथ स्त्री परिस्रावी कफोद्भवः ।अर्शो दुर्नाम वृद्धिस्तु कुरण्डश्चाण्डवर्द्धने ॥ १३१ ॥
अनुष्टुप्
genderस्त्रीfem.
उद्वेग उद्भ्रमः श्रायः श्रयणं प्रमितिः प्रमा ।स्फातिस्तु वृद्धिः स्फुरणं स्फुलनं क्षेपणं क्षिपा ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रस्रवत्युदितं मूत्रयते च परिकीर्तिते ।स्यन्दिर्भ्रंशेऽवतोऽभेस्तु वृद्ध्यवाप्त्योः प्रकीर्तितः ॥ ८१ ॥
अनुष्टुप्
meaningsअभिस्यन्दि
अवादाज्ञापने च्युत्यां व्यवाभ्यां प्रतितः पुनः ।प्रैषे वृद्धौ निराकृत्यां संहृतौ शोधते पुनः ॥ १९ ॥
अनुष्टुप्
meanings
वृद्धिस्त्वादैक्षु वृद्धाख्यभेषजे वर्धने सुखे ।ऋणातिरिक्तदातव्ये प्रयोक्त्रे पुत्रजन्मनि ॥ १०२ ॥
अनुष्टुप्
वृद्धः प्रवृद्धे जीर्णे ज्ञे त्रिषु क्लीबञ्च शैलजे ।वृद्धिर्योगे वर्द्धने स्यादष्टवर्गौषधिभिदि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)
स्यात्समृद्धावभ्युदये हर्षे कलेऽपि च स्त्रियाम् ।श्रद्धा स्यादरे शुद्धौ आकाङ्क्षायामपि स्त्रियाम् ।श्राद्धं हव्यकव्यविधौ क्लीबं श्रद्धान्विते त्रिषु ।शुद्धं पवित्रे निर्दोषे केवले निर्मले त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 श्र (syllables merged); pāda 3, syllable 4 व्य (wrong syllable)
doubtful
वृद्धिः सुखेऽपि जंघापि वारुः शुक्तिस्तु दृग्रुजि ।अश्वावर्ते च शाला तु गृहांगस्कन्धशाखयोः ॥ ३७ ॥
अनुष्टुप्
meaningsसुख
वृद्धि as a meaning in nānārtha verses
- धरणिकोश पुष्टिपुष्टिः स्यात्पोषणे वृद्धौ दिष्टिरानन्दमानयोः । मुष्टिर्बद्धकरे माने रिष्टिः समृद्धिखड्गयोः ॥ Dharaṇikośa 10.1.2
- धरणिकोश अध्यूढअध्यूढा कृतसापत्न्यामध्यूढो वृद्धिमानयोः । उपोढः कथितो व्यूढे समासन्ने विवाहिते । आषाढो व्रतिनां दण्डे मासपर्वतभेदयोः ॥ Dharaṇikośa 13.2.3
- धरणिकोश उन्नतिपक्षतिः स्याद्गरुन्मूले पक्षतिः प्रतिपत्तिथौ । उन्नतिरुदये वृद्धौ गरुडस्य स्यादतिप्रिया ॥ Dharaṇikośa 15.2.37
- धरणिकोश वर्धनवर्धनं छेदने वृद्धौ वारिधानी तु वर्धनी । चन्दनं तरुभेदः स्याच्चन्दनं वानरान्तरम् ॥ Dharaṇikośa 19.2.56
- धरणिकोश सत्त्वसत्त्वं द्रव्ये स्वभावेऽपि पिशाचादौ गुणे रसे । आयुधे व्यवसाये च वृद्धौ प्राणेषु जन्तुषु ॥ Dharaṇikośa 28.3.3
- कल्पद्रुकोशः उपचिफलनं मार्गणान्वीक्षा संवीक्षावचयोऽपि च । समः संग्रहणे चिञ् स्यादुपाद्वृद्धौ क्षये त्वपात् ॥ ११६ ॥ Kalpadrukośa 1.10.116
- कोषकल्पतरु स्फायतेस्फायते श्वयति पूषति तौति प्यायतेऽपि च बिभर्ति तवीति । पुंसयत्यपि च ऋध्यति ऋध्नो- त्येधते भवति पोषति वृद्धौ ॥ १३ ॥ Koṣakalpataru 3.5.13
- कोषकल्पतरु बंहतेबंहते मंहते बर्हत्यपि बृंहति दृं[182a]हति । वर्धते दर्हति समाः पुष्टौ पुष्णाति पुष्यति ॥ १४ ॥ Koṣakalpataru 3.5.14
- कोषकल्पतरु उपदेग्धिअनोः प्रसाधनेऽवात्तु लिपिर्दूषण-गर्वयोः । समो दिहिः संशये स्यादुपाद्वृद्धौ प्रकीर्तितः ॥ १७ ॥ Koṣakalpataru 3.5.17
- कोषकल्पतरु उल्लिङ्गतिसमो द्रविः पलायेऽथाङः श्लेषे लिङ्गतिर्मतः । वारणे स्यात्प्रतेः सेधिस्तद्वन्नेरपि वारणे ॥ आङो विरोधे प्रात्ख्यातावाविर्भाव-विभूषयोः । समः स्वभावसंसिद्ध्योरुदो वृद्धौ समुच्छ्रये ॥ आङस्तञ्चिः प्रतीवापे जवनाप्याययोरपि ॥ ३३ ॥ Koṣakalpataru 3.5.33
- कोषकल्पतरु उन्नहिसमुद्भ्यां वर्धने दैर्घ्येऽथोदो वृद्धौ प्रकीर्तितः । प्रात्सिनोतिः समासक्तौ निरो ग्रन्थिश्च मारणे ॥ १८ ॥ Koṣakalpataru 3.5.18
- कोषकल्पतरु उच्छ्रयतिवृद्धिसंजननौन्नत्ये समुदो द्विष्यपि स्मृतः । प्राद्विनीतो भजिस्त्वाङ उपस्थित्यामुदीरितः ॥ ७२ ॥ Koṣakalpataru 3.5.72
- कोषकल्पतरु पुष्टिवृद्धौ तु पुष्टिः परिपोषणे च यष्टिर्द्वयोर्हारशरे च शस्त्रे । ध्वजस्य दण्डे मधुके च भार्ङ्ग्यां मुष्टिः पले बद्धकरेऽपि युग्मे ॥ १७ ॥ Koṣakalpataru 6.10.17
- कोषकल्पतरु उन्नतिसाम्ये सभायां समिती मृधेऽपि स्यात्संगमेऽथादितिरत्र भू[297a]मौ । द्युसज्जनन्यामथ पक्षतिः स्यात् पक्षस्य मूले प्रतिपत्तिथौ च । तार्क्ष्यस्त्रियां तून्नतिरुद्गतौ च वृद्धौ प्रसूतिस्तु सुतोद्भवादौ । पुत्र्यां च वल्ल्यां प्रततिस्ततौ च ॥ ३५ ॥ Koṣakalpataru 6.16.35
- कोषकल्पतरु स्पर्धाबाधा निषेधेऽपि च दुःख उक्ता सुधा तु मूर्वाविकसास्नुहीषु । विलेपवस्तुन्यमृतेऽथ संधा स्थितौ च संवि[8b]द्यथ लालसायाम् । श्रद्धातिभक्तौ क्रमतस्तु वृद्धौ स्पर्धापि संघर्षणसाम्ययोः स्यात् । मुग्धोऽन्यवत्सुन्दरमूढयोः स्या- द्विधुः सुधांशौ गरुडध्वजे च ॥ ६४ ॥ Koṣakalpataru 6.20.64
- कोषकल्पतरु वर्धनरथेऽस्त्रियां स्यन्दनमादिमे द्रौ स्यात्क्रन्दनं रोदनं सम्मदार्थम् । स्याद्वर्धनं छेदनवृद्धिवाचि वार्धानिकायां पुनरङ्गना स्यात् ॥ ५४ ॥ Koṣakalpataru 6.21.54
- कोषकल्पतरु वर्धमानप्रश्नप्रभेदे च शरावके चा- स्त्री वर्धमानो नरि विष्णुवृद्ध्योः । स्यान्मालुधानो नरि चित्रसर्पे स्यान्मालुधानी च लताभिदि स्यात् ॥ २२ ॥ Koṣakalpataru 6.21.22
- कोषकल्पतरु हृद्यवशत्वकृद्वेदमनौ तु पुंसि स्त्रियां तु वृद्ध्याह्वय औषधे च । प्रश्नेऽद्भुते चोद्यमुशन्ति षण्ढे विशेष्यवत्प्रेरणवाचकं च ॥ २६ ॥ Koṣakalpataru 6.26.26
- नानार्थार्णवसंक्षेप ऊवृद्धाववाप्तौ दीप्तौ च प्रवेशे श्रवणेच्छयोः । स्वाम्यसामर्थ्ययाच्ञासु क्रियायां भावहिंसयोः ॥ ५० ॥ Nānārthārṇavasaṃkṣepa 1.1.50
- नानार्थार्णवसंक्षेप लक्ष्मीलक्ष्मीः श्रीभूतिशोभासु वृद्धिसंज्ञे च भेषजे । ऋद्धिसंज्ञे च कस्याञ्चिद् विष्णोर्नवसु शक्तिषु ॥ ९२ ॥ Nānārthārṇavasaṃkṣepa 2.1.92
- नानार्थार्णवसंक्षेप सिद्धिव्यवस्थायामवस्थायां क्रियायामपि तिष्ठतेः । सिद्धिस्त्वृद्ध्याख्यवृद्ध्याख्यभेषजद्वितये गतौ ॥ ११८ ॥ Nānārthārṇavasaṃkṣepa 2.1.118
- नानार्थार्णवसंक्षेप स्फीतिस्वभूर्विष्णौ विरिञ्चेऽथ साद्यश्वारोहसूतयोः । स्तीभिः समुद्रे हृदये स्फीतिर्वृ(क्ष?द्ध) उदश्विति ॥ १३१ ॥ Nānārthārṇavasaṃkṣepa 2.2.131
- नानार्थार्णवसंक्षेप बुधाअजयस्तु सुरेऽप्याह तत्र न्यायाद्द्वयोर्भवेत् । बुधा तु धिषणायां स्त्री वृद्धिसंज्ञे च भेषजे ॥ ८६७ ॥ Nānārthārṇavasaṃkṣepa 2.5.867
- नानार्थार्णवसंक्षेप योग्यवृद्धिसंज्ञौषधे चाथ त्रिः प्रवीणे क्षमे परे । उपायिन्यपरेऽस्माकं त्वर्हे स्त्रीशण्डयोः पुनः ॥ १०७२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1072
- नानार्थार्णवसंक्षेप विधाविषा त्वतिविषायां स्त्री क्ष्वेडे तु स्यान्नृशण्डयोः । जले तु क्ली विधा तु स्त्री भृतौ वृद्धिप्रकारयोः ॥ १२५१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1251
- नानार्थार्णवसंक्षेप वृष्यातस्मिन् पुंसि तु माषाख्यधान्य इक्षौ च सा पुनः । वृष्या स्त्रियां विदार्यां स्याद् वृद्धिसंज्ञे च भेषजे ॥ १२७८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1278
- नानार्थार्णवसंक्षेप कुरण्डअपेतसारे स्तम्बे तु ना कठिञ्जरसंज्ञके । कुरण्डो द्वे झषे ना तु वृद्धिसंज्ञे रुजान्तरे ॥ ५५४ ॥ Nānārthārṇavasaṃkṣepa 4.554
- नानार्थार्णवसंक्षेप बोधनीयाना शोथशत्रुसंज्ञे स्यात् स्तम्बे सादीनि पूर्ववत् । बोधनीया स्त्रियां वृद्धिसंज्ञके भेषजान्तरे ॥ ४२९ ॥ Nānārthārṇavasaṃkṣepa 6.429
- नानार्थार्णवसंक्षेप श्रोत्रकान्ताशूर्पकर्णस्तु मातङ्गे द्वे समासादि पूर्ववत् । श्रोत्रकान्ता पुनः स्त्री स्याद् वृद्धिसंज्ञकभेषजे ॥ ६२२ ॥ Nānārthārṇavasaṃkṣepa 6.622
- परमानन्दीयनाममाला पुष्टिपिच्छः पुच्छे कचे वाजे क्लीबलिङ्गमुदाहृतम् । पिञ्जा तूला हरिद्रा च पुष्टिर्वृद्धौ च पोषणे ॥ ३०० ॥ Paramānandīyanāmamālā 5.19.300
- शिवकोष सुखसुखमृद्धौ च वृद्धौ च वालके च नपुंसकम् । Śivakoṣa 2.1.2
- शिवकोष युगआघाटे मृगनाभौ युगं तु ऋद्धौ च वृद्धौ च । वङ्गं सीसके रङ्गे वङ्गस्तु वयनीफले ॥ ८५ ॥ Śivakoṣa 3.1.85
- शिवकोष प्राणिदापालिन्दी त्रिवृताभार्ग्योः प्राणिदा वृद्धिपथ्ययोः । वरदादित्यभक्तायां सूकरीहयगन्धयोः ॥ २२५ ॥ Śivakoṣa 14.2.225
- शिवकोष लक्ष्मीरामः पुमान् कर्णपूरे रुक्मं काञ्चनलोहयोः । लक्ष्मीः सक्तुफलापद्मावृद्धिऋद्धिप्रियङ्गुषु ॥ ३३१ ॥ Śivakoṣa 20.1.331
- शिवकोष प्रियाप्रिया प्रियङ्गुकाकोलीमल्लिकावृद्धिऋद्धिषु । भव्या करिकणायां स्त्री कर्मरङ्गतरौ नशि ॥ ३४४ ॥ Śivakoṣa 21.1.344
- शिवकोष सौम्यासौम्या सोमासोमराजीसुमनापर्णिनीषु च । ऋद्धौ वृद्धावपि स्त्री स्यान्न द्वयोः सोमगन्धिके ॥ ३४९ ॥ Śivakoṣa 21.1.349
- शिवकोष वसुवसुर्वृद्धौ वुके मांसी कङ्कोलीजटयोः स्त्रियाम् ॥ ५२५ ॥ Śivakoṣa 27.1.525
- शब्दरत्नावली युगबृद्धिनामौषधेऽपि स्याद् युग्मे हस्तचतुष्टये । योगोऽपूर्वार्थसंप्राप्तौ विष्कम्भादिषु भेषजे । देहस्थैर्यप्रयोगे च सङ्गतिध्यानयुक्तिषु ॥ Śabdaratnāvalī 7.3.19
- शब्दरत्नावली पुष्टिपटुः पटोले दक्षे च नीरोगे चतुरेऽन्यवत् । पट्टः पेषणपाषाणव्रणादिवस्त्रपोरपि ॥ राजशासनभेदेऽपि पत्रे पीठे चतुष्पथे । पटिः स्त्री पटभेदे स्याद् वागुलौ कुम्भिकाद्रुमे ॥ पुष्टिः पोषणवृद्धयोः स्त्रीफटादम्भे फणेऽपि च । वटी त्रिषु गुणे ना तु वृक्षनाथकपर्दयोः ॥ Śabdaratnāvalī 7.11.22
- शब्दरत्नावली ऋद्धिइन्धं स्यादातपे दीप्ते निर्मलेऽपि च वाच्यवत् । ऋद्धं सम्पन्नधान्ये स्यात्सुसमृद्धेऽभिधेयवत् । ऋद्धिः समृद्धै गौर्याञ्च वृद्धिनामौषधिभिदि ॥ Śabdaratnāvalī 7.19.4
- शब्दरत्नावली मधुस्त्रियां माध्वीके वृद्धौ च जीवन्त्यामपि योषिति । सिद्धं क्लीबन्तु निद्रायामालस्ये चित्तविभ्रमे ॥ Śabdaratnāvalī 7.19.9
- शब्दरत्नावली सिद्धिसिन्धुर्नावन्तिदेशाब्धिनदेषु सरिति स्त्रियाम् । सिद्धिः स्त्री पादुका ऋद्धियोगनिष्पत्तिवृद्धिषु ॥ Śabdaratnāvalī 7.19.20
- शब्दरत्नावली वर्द्द्हनवसनं छादने वस्त्रे निवासे चापि कुत्रचित् । वर्द्धनं वृद्धिषुच्छेदे खय्यान्तु वर्द्धनी स्त्रियाम् ॥ व्यञ्जनं स्याद्धिने चिह्ने श्मश्रुण्यवयवेऽपि च । व्यसनन्तु विपत्तौ स्यात्पापे च निष्फलोद्यमे ॥ पानस्त्रीमृगयासङ्गाशुभदैवादिभूषने (?) । वर्त्तनं वर्त्तने पुंसि ह्रस्वे स्त्री पथि पेषणे ॥ Śabdaratnāvalī 7.20.71
- शब्दरत्नावली हृदयगणदेवविशेषे ना साधनीयेऽभिधेयवत् । सूर्या सूर्यप्रियौषध्योः सूर्येऽर्कपर्णसूरयोः ॥ स्थेयः पुरोहिते वादपक्षनिर्णेतरि स्मृतः । सेव्यं त्रिषु च सेवार्हे क्लीबं वीरणमूलके ॥ सैन्यं क्लीबं बले सेनासमवेतेऽभिधेयवत् । सौम्यो ना ज्ञे तिष्वनुग्रे सोमदेवमनोज्ञयोः ॥ हार्यस्त्रिषु च हर्त्तव्ये पुमान् विभीतके द्रुमे । हृदयं हृदि हिते हृज्जे हृत्प्रिये त्रिषु च द्वयोः ॥ भरणे स्त्री वृद्धिनामौषधे मन्त्रान्तरे पुमान् । Śabdaratnāvalī 7.26.37
- शब्दरत्नावली श्रीरः कामवह्नौ च रुः शब्दे रा धने पुमान् । री गतौ स्त्री च रा दाने काञ्चनेऽपि च कुत्रचित् । श्रीः शोभा भारती वेशरचना भूतिवृद्धिषु । विधात्रिवर्गसम्पत्तिलक्ष्मीषु सरलद्रुमे ॥ Śabdaratnāvalī 7.27.1
- शब्दरत्नावली श्रीतथोपकरणे वृद्धौ सिद्धावपि भवेत् स्त्रियाम् । द्रुर्द्रुमे ना गतौ स्त्री तु स्रुः स्त्रियां निर्झरे स्रवे ॥ Śabdaratnāvalī 7.27.2
- त्रिकाण्डशेष वर्धनवर्धमानः प्रश्नभेदशरावैरण्डविष्णुषु । सेना नदी च वाहिन्यौ छेदे वृद्धौ च वर्धनम् ॥ २४९ ॥ Trikāṇḍaśeṣa 3.3.249
- त्रिकाण्डशेष कलाआर्द्रशूरणयो रोलः कालः स्यान्मृत्युकृष्णयोः । अंशे वृद्धावपि कला कदली ध्वजरम्भयोः ॥ ३८३ ॥ Trikāṇḍaśeṣa 3.3.383
- वैजयन्ती वानवास्त्वस्त्री गृहभूपुर्योर्गृहे सीमसुरुंगयोः । वानं शुष्के गतौ व्यूतौ गन्धे वृद्धौ सुधीयमौ ॥ ८० ॥ Vaijayantī 6.5.80
- वैजयन्ती वर्धनलांगूलं वालधौ मेढ्रे वर्जनं त्यागहिंसयोः । वरांगं स्त्रीभगे मूर्ध्नि च्छेदे वृद्धौ च वर्धनम् ॥ २९ ॥ Vaijayantī 7.3.29