कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रोमविकार

romavikāraपुं · masc.

In 5 kośas: 5 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.233 · p. 16
स्तम्भो जाड्यं स्वेदो घर्मनिदाघौ पुलकः पुनः ।रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥ ३०५ ॥रोमोद्गम उद्धुषणमुल्लुकसनमित्यपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वे (wrong syllable)
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.651 · p. 74
रोमाञ्चः पुलकः स्यात्कण्टकमुद्धुषणमुल्लकसनं च ।रोमोद्गमरोमविकाररोमहर्षाः समानार्थाः ॥ ६५१ ॥
आर्या
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नाट्यवर्गः Koṣakalpataru 1.6.207 · p. 98
रोमविकारो रोमाङ्कुरं रोमोद्भेद ईरितोऽपि पुलः ।उद्धर्षणमुल्लसनं त्वक्पुष्पं च त्वदङ्कुरोऽस्त्री स्यात् ॥ २०७ ॥
metre not recognised
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.216 · p. 31
अट्टहासो महाहासोऽपहासोऽकारणोद्भवे ।रोमाञ्चः पुलको रोमविकारो रोमहर्षणम् ॥ २१६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.450 · p. 56
रोमोद्गमस्तथा रोमविकारो रोमहर्षणम् ।पुनरुद्घुषणं ज्ञेयमुल्लकसनमित्यपि ॥ ४५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ल्ल (wrong syllable)
genderपुंmasc.