कण्टक
kaṇṭakaपुं · masc.In 18 kośas: 24 synonym verses, 9 as a nānārtha head word, 6 as a meaning of another word.
स्तम्भो जाड्यं स्वेदो घर्मनिदाघौ पुलकः पुनः ।रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥ ३०५ ॥रोमोद्गम उद्धुषणमुल्लुकसनमित्यपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वे (wrong syllable)
genderपुंmasc.
रोमाञ्चः पुलकः स्यात्कण्टकमुद्धुषणमुल्लकसनं च ।रोमोद्गमरोमविकाररोमहर्षाः समानार्थाः ॥ ६५१ ॥
आर्या
genderक्लीneut.
स्वेदो घर्मो निदाघः स्यात्कालिका तु विवर्णता ।रोमोद्गमो रोमहर्षो रोमाञ्चः कण्टकोऽपि च ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
अन्या ह्यपचयानि स्युर्गर्गाद्यैर्गदितानि वै ।कण्टकं केन्द्रमित्युक्तं तथा बुधैश्चतुष्टयम् ॥ ५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 बु (wrong syllable)
genderक्लीneut.
द्विगुणीकृतदोर्मध्ये ग्रीवाकर्षोपि कण्टकः ।अवधूतं तु पादेन प्रेरणं यच्च वक्षसः ॥ ३५२ ॥
अनुष्टुप्
genderपुंmasc.
स्तम्भो जाड्यं स्वेदघर्मौ निदघः पुलकोऽस्त्रियाम् ।कण्टकोञ्चश्च रोम्णः स्यादुद्गमो हर्ष इत्यपि ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
निर्यासगुल्फकेशानां पतद्ग्रहकुठारयोः ।रथाशनिश्वेतकण्टकफासीनामरेरपि ॥ ४८ ॥
अनुष्टुप्
genderपुंmasc.
स्वरभेदः स्वरसादो स्वरभङ्गः स्यात्स्वरध्वंसः ।कण्टक-पुलकावस्त्री रोमाञ्चो रोमहर्षश्च ॥ २०६ ॥
metre not recognised
genderपुंक्लीm. n.
दौर्वीणं मृष्टपर्णं स्याज्जीर्णं त्वेतत्कशंवर(?) ।कण्टक-द्रुणखौ न स्त्री दलसूचिश्च वङ्किलः ॥ ३५ ॥
अनुष्टुप्
genderपुंक्लीm. n.
बलाख्यं पञ्चमूलं स्यादथ त्विक्षुरसैर्यकौ ।शतावरी च हिंस्रा च सुषेणः कण्टकाभिधम् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
विटङ्क-टङ्क-शाटकाः सकण्टकः करण्डकः ।तटाककन्दुकान्दुकास्तडाक-शाक-रोचकाः ॥ ३४ ॥
पञ्चचामरम्
genderपुंक्लीm. n.
रोमोद्गमस्तूद्धुषणं कथितः कण्टकोऽपि च ।आनन्दः प्रमदो हर्षानन्दथू प्रतिसम्मदौ ॥ २१७ ॥
अनुष्टुप्
genderपुंmasc.
मेचकः कण्टकश्चैव बालको वर्णकः पुनः ।पिनाकमालकौ शाकस्तम्बकौ यावकोऽपि च ॥ १३२ ॥
अनुष्टुप्
genderपुंक्लीm. n.
बाष्पो श्रमांशु (?) नेत्राम्बु घर्मः स्वेदः श्रमाम्बु च ।पुलकः कण्टको रोमहर्षो रोमाञ्च इत्यपि ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
अथ स्तम्भो भवेज्जाड्यं धर्मः स्वेदस्तथैव च ।निदाघश्चाथ रोमाञ्चः कण्टकः पुलकस्तथा ॥ ४४९ ॥
अनुष्टुप्
genderपुंmasc.
वृश्चिकश्च द्रुणो द्रोणश्चाऽऽलि राली ह्यलिर्द्रुतः ।अलं वृश्चिकपुच्छाग्रं कण्टकं विषवाहकम् ॥ २१८५ ॥
अनुष्टुप्
genderक्लीneut.
त्वक्पुष्पं पुलकूपाङ्कौ कण्टको रोमहर्षणम् ।क्रन्दनं रुदितं क्रुष्टं क्रन्दितं रोदनञ्च तत् ॥
अनुष्टुप्
genderपुंmasc.
मञ्जरिर्वल्लरिर्मञ्जिः स्त्रियो वल्लरमञ्जरम् ।पत्रसूचिर्द्रुमनखो बङ्किलः कण्टकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
अप्रकाण्डे स्तम्बगुल्मौ द्रुमाङ्कः कण्टकोऽस्त्रियाम् ।समौ स्कन्धप्रकाण्डौ द्वौ सारो मज्जा समावुभौ ॥ ४४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
क्षमा क्षान्तिस्तितिक्षा च सहनं मर्षणं समे ।कण्टकोऽस्त्री रोमहर्षो रोमाञ्चः पुलकः समाः ॥ ९८० ॥
अनुष्टुप्
genderपुंक्लीm. n.
ऊः कण्टको रतिः शान्तिः क्रोधनो मधुसूदनः ।कामराजः कुजेशश्च महेशो वामकर्णकः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
महासेनो द्विजिह्वाख्यो हयो भद्रश्च कण्टकः ।द्विबिन्दुकोऽमरेशश्च सोमश्चैव हरिस्तथा ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
काकस्तु द्विक एकाक्षश्चिरजीवी दिवाटनः ।आत्मघोषो महानेमिः कण्टको मौकलिः कुणः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
रोमोद्गमो रोमहर्षो रोमांचः कण्टकोऽपि च ।रोमांक उल्लसनकमप्युल्बणकमित्यपि ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
कण्टकः क्षुद्रशत्रौ स्यान्मीनादीनां [च] कीकसे ।दोषे नैयायिकादीनां रोमाञ्चे पादपाङ्गजे ॥
अनुष्टुप्
स्यात्कण्टकोऽस्त्री पुलकद्रुमांश-क्षुद्रारिकर्मस्थितिदूषणेषु ।द्वारे तु पक्षस्य च पार्श्वमात्रेस्यात्पक्षकोऽथो वलये च कम्बौ ॥ ९६ ॥
इन्द्रवज्रा
वृक्षस्यावयवे सूचिसदृशे क्षुद्रविद्विषि ।रोमाञ्चे वेणुवृक्षे च कण्टका तु स्त्रियामियम् ॥ ३२० ॥
अनुष्टुप्
क्षुद्रशत्रौ द्रुमाङ्के च रोमहर्षे च कण्टकः ।भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम् ॥ २०६० ॥
अनुष्टुप्
रोमाञ्चे क्षुद्रशत्रौ च द्रुमाङ्गे कण्टकोऽस्त्रियाम् ।राजधान्यां नितम्बेऽद्रेर्वलये कटकोऽस्त्रियाम् ॥ १२ ॥
अनुष्टुप्
कुंभीरपुच्छे च जलस्थाने त्वृक्षर ऋत्विजि ।वेणौ द्रुमांगे रोमाञ्चे क्षुद्रशत्रौ च कण्टकः ॥ १४ ॥
अनुष्टुप्
कण्टक as a meaning in nānārtha verses
- कोषकल्पतरु ऋक्षरअस्त्यक्षरं ब्रह्मणि वर्णमुक्त्यो- रन्त्ये ध्रुवेऽन्योपममृक्षरो ना । स्यात्कण्टकेऽप्यृत्विजि वारिधारा- वाची तु षण्ढे प्रवरस्तु न स्त्री ॥ ८७ ॥ Koṣakalpataru 6.27.87
- नानार्थार्णवसंक्षेप ऋक्षरसाध्येनायमुपाधिः स्यादित्येवमथ ऋक्षरः । कण्टके च जलस्थानेऽप्यृत्विज्यपि तथापरे ॥ ६० ॥ Nānārthārṇavasaṃkṣepa 3.2.60
- नानार्थार्णवसंक्षेप पनसरभसस्त्वाह शब्दज्ञः कण्टकेऽपि स्त्रियां पुनः । रोगभेदेऽथ वृक्षस्य पनसस्य फले नपि ॥ ११०५ ॥ Nānārthārṇavasaṃkṣepa 4.1105
- शिवकोष लाङ्गलीलाङ्गली लाङ्गलं चोचे पृष्टिपर्ण्यां तु लाङ्गली । कण्टके च विशल्यायां वल्कला तु गुडत्वचि ॥ ४७२ ॥ Śivakoṣa 23.2.472
- शब्दरत्नावली पनसनभः क्लीबं वियति ना मेघे श्रावणप्रावृषोः । पनवः कण्टकिफले कन्टके वानरान्तरे ॥ Śabdaratnāvalī 7.32.25
- त्रिकाण्डशेष सूक्ष्मसार्वभौमो गजे राज्ञि सम्भ्रमौ साध्वसादरौ । कण्टकेऽल्पे च सूक्ष्मं स्यात्साधौ तुल्येऽखिले समः ॥ ३०४ ॥ Trikāṇḍaśeṣa 3.3.304