पुलक
pulakaपुं · masc.In 21 kośas: 33 synonym verses, 15 as a nānārtha head word, 7 as a meaning of another word.
स्तम्भो जाड्यं स्वेदो घर्मनिदाघौ पुलकः पुनः ।रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥ ३०५ ॥रोमोद्गम उद्धुषणमुल्लुकसनमित्यपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वे (wrong syllable)
genderपुंmasc.
genderपुंmasc.
बुक्कं स्यादग्रमांसं च तिलकं क्लोम कथ्यते ।कृमिः कीटस्तु नीलङ्गुः पुलकश्च समः स्मृतः ॥ ६३६ ॥
अनुष्टुप्
genderपुंmasc.
रोमाञ्चः पुलकः स्यात्कण्टकमुद्धुषणमुल्लकसनं च ।रोमोद्गमरोमविकाररोमहर्षाः समानार्थाः ॥ ६५१ ॥
आर्या
genderपुंmasc.
शोभाञ्जनी तीक्ष्णमन्धः शिग्रुका क्षीबमोचकौ ।कदम्बे पुलकः श्रीमान् नीपो धूर्तश्च दीपनः ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
तिलके पुलकः श्रीमान् सुगन्धो मुखमण्डनः ।कर्णपुरोऽल्पपुष्पश्च पुन्नागे सुरवल्लभः ॥ २१७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 पु (wrong syllable)
genderपुंmasc.
स्तम्भो जाड्यं स्वेदघर्मौ निदघः पुलकोऽस्त्रियाम् ।कण्टकोञ्चश्च रोम्णः स्यादुद्गमो हर्ष इत्यपि ॥ १०९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
वल्कवल्मीकमरककल्कानां पुलकस्य च ।करकस्य व्यलीकस्य पङ्कवर्चस्कयोरपि ॥ १४४ ॥
अनुष्टुप्
genderपुंक्लीm. n.
स्वरभेदः स्वरसादो स्वरभङ्गः स्यात्स्वरध्वंसः ।कण्टक-पुलकावस्त्री रोमाञ्चो रोमहर्षश्च ॥ २०६ ॥
metre not recognised
genderपुंक्लीm. n.
रेचनं पुलकं ह्रासं शोधनं काकवालुकम् ।वलि-गैरिक-कासीस(?)काङ्क्षी-तालशिलाञ्जनम् ॥ ४३ ॥
अनुष्टुप्
genderक्लीneut.
अन्तर्जाश्च बहिर्जाश्च पुलका उभयेऽपि ते ।अणुः कृमिः कीकसः स्यात्काष्ठलेखकरो घुणः ॥कोशकारः कीटतन्तुर्गुणिमध्यः पलोधरः ।उद्दंशो मत्कुणो रक्तबीजः खट्वाकृमिश्च सः ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
अलक-वालक-मालक-मूलकाः[231b] करक-कोरक-मोदक-यावकाः ।***भ्रमरको मणिकस्तथाफलक-पुस्तक-मस्तक-मुस्तकाः ।पुलकस्तिलको झर्झरकश्चरक-हंसकौ ।मधुपर्कश्च फटकः सरकः श्वपकस्तथा ।किञ्जल्कः कटकोऽथामलकः स्यात्फलवाचकः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderपुंक्लीm. n.
कङ्कुष्ठे स्यात् काककुष्ठः पुलकः काकपालकः ।रेचनः शोधनो ह्रासो विडङ्गो रङ्गदायकः ॥ १७६ ॥
अनुष्टुप्
genderपुंmasc.
माणिक्यं पौष्यकं शङ्खः पुलको विमलादयः ।शैलोऽगः पर्वतः क्ष्माभृत्सानुमान्दुर्गमो गिरिः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
बालपत्रे तिक्तसारः खदिरो दन्तधावनः ।तिलके पुलकः श्रीमान्सुगन्धो मुखमण्डनः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
हरकस्तरवारिः स्त्री पुलकास्त्वणुराजयः ।अथासिपुत्रच्छुरिका सातिदीर्घासिधेनुका ॥ १९७ ॥
अनुष्टुप्
genderपुंmasc.
अट्टहासो महाहासोऽपहासोऽकारणोद्भवे ।रोमाञ्चः पुलको रोमविकारो रोमहर्षणम् ॥ २१६ ॥
अनुष्टुप्
genderपुंmasc.
क्षुद्रकीटस्तथा तुल्यः पुलकास्तूभये मताः ।काष्ठकीटघुणौ तुल्यौ कुसूकिंचुलकौ समौ ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
व्यलीककिञ्जल्कवलीकतङ्कावितङ्कवल्मीकतटाकनिष्काः ।तडाकवर्चस्कविशेषकाश्चविटङ्कवल्कौ पुलकालकौ च ॥ १२९ ॥
उपेन्द्रवज्रा
genderपुंक्लीm. n.
स्वच्छे त्वगाधमच्छश्च कलुषे पङ्किलाविलः(लौ?) ।मधुरे पानकं शैत्यं क्षारे पुलकनिन्दिते ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
बाष्पो श्रमांशु (?) नेत्राम्बु घर्मः स्वेदः श्रमाम्बु च ।पुलकः कण्टको रोमहर्षो रोमाञ्च इत्यपि ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
अथ स्तम्भो भवेज्जाड्यं धर्मः स्वेदस्तथैव च ।निदाघश्चाथ रोमाञ्चः कण्टकः पुलकस्तथा ॥ ४४९ ॥
अनुष्टुप्
genderपुंmasc.
कृमिर्नीलाङ्गुनीलङ्गू शरीरान्तरवर्तिनः ।क्षुद्रकीटो बहिश्चारी पुलका उदरे बहिः ॥ २१६७ ॥
अनुष्टुप्
genderपुंmasc.
ईषद्धासे स्मितं मध्यहासे विहसितं मतम् ।अथ रोमाञ्चपुलकौ रोमोद्भेदस्त्वगङ्कुरः ॥
अनुष्टुप्
genderपुंmasc.
त्वक्पुष्पं पुलकूपाङ्कौ कण्टको रोमहर्षणम् ।क्रन्दनं रुदितं क्रुष्टं क्रन्दितं रोदनञ्च तत् ॥
अनुष्टुप्
genderपुंmasc.
शमथोऽप्यथ रोमाञ्चे पुलकः पुलसंयुतः ।बाष्पेऽश्वस्रू अस्रमश्रं, चित् तान्ता चेतना मतौ ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
क्षमा क्षान्तिस्तितिक्षा च सहनं मर्षणं समे ।कण्टकोऽस्त्री रोमहर्षो रोमाञ्चः पुलकः समाः ॥ ९८० ॥
अनुष्टुप्
genderपुंmasc.
पुलकाः पुद्गलाः शस्त्री त्वसिपुत्र्यसिधेनुका ।क्षुरिका पुत्रिका पुत्री स्यादिली करवालिका ॥ १३३९ ॥
अनुष्टुप्
genderपुंmasc.
पुलकप्रावृषेण्यौ तु कदम्बः प्रियकश्च सः ।पूगावली तु कुहली बदरी तु तिरीटिका ॥ १७९३ ॥
अनुष्टुप्
genderपुंmasc.
रोमोद्गमस्तु पुलकस्त्वपुष्पं च त्वगंकुरः ।स्वदोषगूहनं भ्रक्षो रागसंगौ तु गृध्रता ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
माणिक्यं पौष्यकं शंखः पुलको विमलादयः ।रसाञ्जनं तार्क्ष्यशैलं शैलेयं रसगर्भकम् ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
कुण्डलो दीर्घनिर्वंशे पुलकास्त्वणुराजयः ।अथासिपुत्री क्षुरिका शस्त्रिका चासिधेनुका ॥ १६३ ॥
अनुष्टुप्
genderपुंmasc.
पुलकः क्रिमिभेदे स्याद्रोमाञ्चे प्रस्तरान्तरे ।मधुको बन्दि [भेदे च] मधुका मधुयष्टिका ॥
अनुष्टुप्
केदारे वेणुसारे च प्राह वारिधरेऽपि च ।इत्येव पुलकस्तु स्याच्छत्रस्थास्वणुराजिषु ॥ १६३ ॥
अनुष्टुप्
meaningsछत्रस्थाणुराजि
हीरके रभसस्त्वत्र पठति श्लोकमुत्तरम् ।कृमिप्रभेदे गल्वर्कमणिदोषप्रभेदयोः ॥ १६४ ॥
अनुष्टुप्
doubtful
रोमाञ्चे हरिताले च रत्नभेदेऽप्यथोदितः ।स्यात् पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ १६५ ॥
अनुष्टुप्
doubtful
पुंसर्पे च तथा वृक्षे देववल्लभसंज्ञके ।क्ली तु तत्प्रसवेऽथो ना पुलको रोमहर्षणे ॥ ११९८ ॥
अनुष्टुप्
meaningsरोमहर्षण
रत्नभेदे च खड्गादिस्थितास्वणुषु राजिषु ।रभसस्त्वाह गल्वर्कमणिदोषप्रभेदयोः ॥ ११९९ ॥
अनुष्टुप्
doubtful
हरितालेऽप्यथ द्वे स्यात् कृमिभेदेऽथ शब्दवित् ।शाकटायन आह स्म स्वशास्त्रे पुरुटः पुमान् ॥ १२०० ॥
अनुष्टुप्
doubtful
पल्लवो नवपत्रे स्याद्धूर्तशृङ्गारयोरपि ।पुलकोऽथाश्रुसंताने रोमाञ्चे कृमिभिद्यपि ॥ ३०९ ॥
अनुष्टुप्
पिष्टको ना नेत्ररोगे घृतपूरादिकेऽपि च ।पुलको मणिदोषे स्यात् प्रस्तर-क्रमि(?)भेदयोः ॥
अनुष्टुप्
गजान्नपिण्डे गन्धर्वे रोमाञ्चे हरितालके ।पुलाको भक्थसिक्थे स्यात् संक्षेपे तुच्छधान्यके ॥
अनुष्टुप्
doubtful
पुलक as a meaning in nānārtha verses
- धरणिकोश पुलकुलं सजातीयगणे गोत्रे जनपदे गृहे । पुलं विपुलमाख्यातं पुलः पुलक इष्यते ॥ Dharaṇikośa 27.2.2
- कोषकल्पतरु कण्टकस्यात्कण्टकोऽस्त्री पुलकद्रुमांश- क्षुद्रारिकर्मस्थितिदूषणेषु । द्वारे तु पक्षस्य च पार्श्वमात्रे स्यात्पक्षकोऽथो वलये च कम्बौ ॥ ९६ ॥ Koṣakalpataru 6.1.96
- कोषकल्पतरु शिखरस्यात्सारमेयेऽश्वतरे तुरङ्ग- सेनाहकेऽन्यत्र भृशं खरे च । शैलाग्रकेऽस्त्री शिखरो द्रुमाग्रे स्यात्कोटिकक्ष्यापुलकेषु तद्वत् ॥ ९१ ॥ Koṣakalpataru 6.27.91
- नानार्थार्णवसंक्षेप शिखरपुलकेऽपि स एवाह भेद्यलिङ्गं तु बोधत । वर्तुले यत् त्विदं प्रोक्तं कैश्चिच्छोभनवाचकः ॥ १८२८ ॥ Nānārthārṇavasaṃkṣepa 4.1828
- शब्दार्णव नीप… अथ स्थलकदम्बके । नीपः स्यात् पुलके … ॥ २१२ ॥ Śabdārṇava 212
- तन्त्राभिधान तजयन्ती पुलको भ्रान्तिरनङ्गमदनातुरा ॥ १०५ ॥ Tantrābhidhāna 2.33.105
- त्रिकाण्डशेष शिखरश्रीलक्ष्मीवेशसम्पत्सु भारतीशोभयोरपि । शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु ॥ ३७५ ॥ Trikāṇḍaśeṣa 3.3.375