कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānaratnamālā (Halāyudha)

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha)

889 verses · 7,659 words tagged · 1,100 marked doubtful (dashed)

पातालकाण्डम्

इति श्रीभट्टहलायुधकृतायामभिधानरत्नमालायां भूमिकाण्डं द्वितीयं समाप्तम् ॥ २ ॥

तृतीयं पातालकाण्डम्

वडवामुखं पातालं वैरोचननिकेतनम् ।तथाधोभुवनं प्रोक्तं नागलोको रसातलम् ॥ ६२३ ॥
3.623 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 खं (wrong syllable)
निम्नमगाधो गर्तः श्वभ्रं शुषिरं वपा बिलं विवरम् ।अन्तरमवटुच्छिद्रं निर्व्यथनं रन्ध्ररोककुहरदराः ॥ ६२४ ॥
3.624 · p. 71
गीतिः
निरयो दुर्गतिश्चैव नरकः परिकीर्तितः ।नारका जन्तवः प्रेता यात्याश्चैवातिवाहिकाः ॥ ६२५ ॥
3.625 · p. 71
अनुष्टुप्
यातना कारणा प्रोक्ता कारा बन्धनमुच्यते ।आबाधा वेदना दुःखमर्तिः पीडा व्यथा तथा ॥ ६२६ ॥
3.626 · p. 71
अनुष्टुप्
वृजिनं दुरितं दुष्कृतमघमंहः किल्विषं तमः कल्कम् ।एनः कल्मषमशुभं पापं स्यात्पातकं पाप्मा ॥ ६२७ ॥
3.627 · p. 71
आर्या
निधनं नाशो मृत्युर्मरणं पञ्चत्वमत्ययः कालः ।संस्था स्याद्दिष्टान्तो निमीलनं दीर्घनिद्रा च ॥ ६२८ ॥
3.628 · p. 71
आर्या
परासुरुपसम्पन्नः प्रमीतः संस्थितो मृतः ।प्रेतः परेतश्च तथा कुणपः शवमुच्यते ॥ ६२९ ॥
3.629 · p. 71
अनुष्टुप्
कबन्धः कथ्यते रुण्डः क्षतमीर्ममरुर्व्रणः ।असृग्धराजिनं चर्म कृत्तिस्त्वक् परिकीर्तिता ॥ ६३० ॥
3.630 · p. 72
अनुष्टुप्
पललं जाङ्गलं मांसं पलं पिशितमामिषम् ।क्रव्यं तरसमेकार्थं विस्रं स्यादामगन्धिकम् ॥ ६३१ ॥
3.631 · p. 72
अनुष्टुप्
क्षतजं लोहितमस्रं रुधिरमसृक् शोणितं च रक्तं स्यात् ।अस्थीनि धातुकीकसकुल्यानि भवन्ति तुल्यानि ॥ ६३२ ॥
3.632 · p. 72
आर्या
शरीरस्यास्थि कङ्कालं तथा स्यादस्थिपञ्जरम् ।शिरसोऽस्थि करोटिः स्यात्कपालं शकलं च तत् ॥ ६३३ ॥
3.633 · p. 72
अनुष्टुप्
शाखास्थि नलकं प्रोक्तं पृष्ठस्यास्थि कसेरु च ।कण्डरा स्यान्महास्नायुः स्नसा स्नायुः शिरा स्मृता ॥ ६३४ ॥
3.634 · p. 72
अनुष्टुप्
मस्तिष्कं मस्तकस्नेहो वपा मेदो वसा स्मृता ।अन्त्रं पुरीतत्कथितं कालखण्डं यकृन्मतम् ॥ ६३५ ॥
3.635 · p. 72
अनुष्टुप्
बुक्कं स्यादग्रमांसं च तिलकं क्लोम कथ्यते ।कृमिः कीटस्तु नीलङ्गुः पुलकश्च समः स्मृतः ॥ ६३६ ॥
3.636 · p. 72
अनुष्टुप्
उच्यते वर्च उच्चारो वर्चस्कोऽवस्करः शकृत् ।गूथं कीटं च विट् विष्ठा पुरीषं शमलं मलम् ॥ ६३७ ॥
3.637 · p. 72
अनुष्टुप्
शुक्रं वीर्यं बलं बीजमिन्द्रियं रेत उच्यते ।श्मशानं स्यात्पितृवनं चिता चित्या च कथ्यते ॥ ६३८ ॥
3.638 · p. 72
अनुष्टुप्
क्रन्दितं रुदितं प्रोक्तं विलापः परिदेवनम् ।अपस्नानं मृतस्नानं निवापः पितृतर्पणम् ॥ ६३९ ॥
3.639 · p. 72
अनुष्टुप्
विषधरदन्दशूकपवनाशनसर्पसरीसृपोरुगव्याल-भुजगभुजङ्गकुम्भीनसपन्नगनागभोगिनः ।अहिफणभृत्पृदाकुकाकोदरकञ्चुकिचक्रिगूढपाद्,द्विरसनकाद्रवेयदर्वीकरदृक्श्रुतयो भुजङ्गमाः ॥ ६४० ॥
3.640 · p. 73
metre not recognised
आशीविषो दीर्घपृष्ठः कुण्डली जिह्मगः स्मृतः ।फणः फणा फटा प्रोक्ता विषं स्याद्गरलं गरः ॥ ६४१ ॥
3.641 · p. 73
अनुष्टुप्
अहेः शरीरं भोगः स्यादाशीर्दंष्ट्राभिधीयते ।भवेत्तिलित्सो गोनासो वाहसोऽजगरः शयुः ॥ ६४२ ॥
3.642 · p. 73
अनुष्टुप्
अलगर्दो जलव्यालो राजिलो डुण्डुभः स्मृतः ।अहीरणी स्याद्द्विमुखो राजसर्पश्च सर्पभुक् ॥ ६४३ ॥
3.643 · p. 73
अनुष्टुप्
निर्ल्वयनी निर्मोकः कञ्चुक उक्ता भुजङ्गमुक्ता त्वक् ।वम्रीकूटं नाकुर्वल्मीको वामलूरश्च ॥ ६४४ ॥
3.644 · p. 73
आर्या
उपजिह्वोपदीका च वम्री स्यादुपदेहिका ।अलं वृश्चिकलाङ्गूलं द्रुत आलिश्च वृश्चिकः ॥ ६४५ ॥
3.645 · p. 73
अनुष्टुप्
ब्रह्मपुत्रः शौल्किकेयो दारदश्च प्रदीपनः ।रसः सौराष्ट्रिकः क्ष्वेडस्तीक्ष्णश्च विषमुच्यते ॥ ६४६ ॥
3.646 · p. 73
अनुष्टुप्
शृङ्गिको वत्सनाभश्च कालकूटो हलाहलः ।काकोलो विस्फुलिङ्गश्च तद्भेदाः स्युरनेकधा ॥ ६४७ ॥
3.647 · p. 74
अनुष्टुप्
आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
3.648 · p. 74
मन्दाक्रान्ता
अतलस्पर्शमगाधं गम्भीरं स्याद्गभीरमस्थागम् ।नावा तार्यं नाव्यं द्राग्भृतकं तत्क्षणोद्धृतं तोयम् ॥ ६४९ ॥
3.649 · p. 74
गीतिः
प्रालेयमवश्यायस्तुहिनं शिशिरं हिमं तुषारं च ।मिहिका स्यान्नीहारो हिमसंघातो हिमानी च ॥ ६५० ॥
3.650 · p. 74
आर्या
रोमाञ्चः पुलकः स्यात्कण्टकमुद्धुषणमुल्लकसनं च ।रोमोद्गमरोमविकाररोमहर्षाः समानार्थाः ॥ ६५१ ॥
3.651 · p. 74
आर्या
रत्नाकरः सरस्वानुदधिरुदन्वान्सरित्पतिरकूपारः ।पारावारस्तोयनिधिरर्णवजलराशिसागरसमुद्राः ॥ ६५२ ॥
3.652 · p. 74
metre not recognised
वीची भङ्गस्तरङ्गः स्यात्तन्महत्त्वे च कथ्यते ।ऊर्मिरुत्कलिकोल्लोलः कल्लोलो लहरी तथा ॥ ६५३ ॥
3.653 · p. 74
अनुष्टुप्
मर्यादा कूलदेशोऽस्य वेला वृद्धिश्च वारिणः ।वेलावनं तु विज्ञेयमुपकण्ठेऽस्य यद्वनम् ॥ ६५४ ॥
3.654 · p. 74
अनुष्टुप्
सांयात्रिकः पोतवणिक् पोतः प्रवहणं स्मृतम् ।कूपको गुणवृक्षः स्यान्निर्यामः कर्णधारकः ॥ ६५५ ॥
3.655 · p. 74
अनुष्टुप्
अन्तर्जलचरं सत्त्वं क्रूरं यादोऽभिधीयते ।अवहारः स्मृतो ग्राहः कुम्भीरो नक्र उच्यते ।कच्छपः कमठः कूर्मस्तद्भार्या च डुली स्मृता ॥ ६५६ ॥
3.656 · p. 75
अनुष्टुप्
वैसारिणो विसारः पृथुरोमा जलचरो झषो मत्स्यः ।तिमिरनिमिषश्च मीनः शकली शल्की च विज्ञेयः ॥ ६५७ ॥
3.657 · p. 75
आर्या
सहस्रदंष्ट्रः पाठीनः प्रोष्ठी च शफरी स्मृता ।नलमीनश्चिलिचिमः कुलीरः कर्कटो मतः ॥ ६५८ ॥
3.658 · p. 75
अनुष्टुप्
शालः शकुलः कुलिशो राजीवो रोहितश्च पल्लवकः ।शृङ्गीमद्गुरवागुसनन्द्यावर्तादयो महामत्स्याः ॥ ६५९ ॥
3.659 · p. 75
गीतिः
मत्स्यविशेषो मकरः करिमकरो भवति तद्विशेषस्तु ।चीरिल्लितिमितिमिङ्गिलगिलादयो महामत्स्याः ॥ ६६० ॥
3.660 · p. 75
metre not recognised
क्षुद्राण्डो मत्स्यसंघातः पोताधानं च कथ्यते ।गण्डूपदः किञ्चुलको जलौकाः स्युर्जलौकसः ॥ ६६१ ॥
3.661 · p. 75
अनुष्टुप्
मण्डूकः प्लवको भेकः शालूरो दर्दुरो हरिः ।प्लवङ्गमः प्लवगः स्याद्वर्षाभूस्तद्वधूः स्मृता ॥ ६६२ ॥
3.662 · p. 75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
यावन्तो दृश्यन्ते नरकरितुरगादयः स्थले जीवाः ।तावन्तः सलिलेष्वपि जलपूर्वास्ते तु विज्ञेयाः ॥ ६६३ ॥
3.663 · p. 75
आर्या
उक्ता मुक्ता मौक्तिकं शौक्तिकेयं,मुक्तास्फोटः शुक्तिराख्यायते च ।कम्बुः शङ्खः क्षुल्लकाः क्षुद्रशङ्खाः,शम्बूकास्ते स्युः कपर्दो वराटः ॥ ६६४ ॥
3.664 · p. 75
शालिनी
स्रोतः स्रोतस्विनी कर्षूः कुल्या द्वीपवती सरित् ।रोधो वप्रस्तु विज्ञेयो भिद्य उद्ध्यो नदः स्मृतः ॥ ६६६ ॥
3.666 · p. 76
अनुष्टुप्
तीरं कूलं तटं कच्छः प्रपातो रोध उच्यते ।अर्वाक्कूलमपारं स्यात्परं पारमिति स्मृतम् ॥ ६६७ ॥
3.667 · p. 76
अनुष्टुप्
पात्रं तु कूलयोर्मध्यमावर्तः पयसां भ्रमः ।पूरः स्यादम्भसो वृद्धिः फेनो डिण्डीर उच्यते ॥ ६६८ ॥
3.668 · p. 76
अनुष्टुप्
ओघः प्रवाहो वेणी च धारा स्रोतो रयः स्मृतः ।सम्भेदः सङ्गमो नद्योः संवेद्यश्च निगद्यते ॥ ६६९ ॥
3.669 · p. 76
अनुष्टुप्
सैकतं पुलिनं द्वीपं सिकता वालुका स्मृता ।मध्ये द्वीपमन्तरीपं ह्रदस्तोयाशयो मतः ॥ ६७० ॥
3.670 · p. 76
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
चक्राणि पुटभेदाः स्युः सेतुर्वरण उच्यते ।आतरस्तरपण्यं च तल्पं स्यादुडुपः प्लवः ॥ ६७१ ॥
3.671 · p. 76
अनुष्टुप्
तरीर्नौर्मङ्गिनी बेडा नौदण्डः क्षेपणी स्मृता ।अरित्रं कोटिपात्रं स्यात्पुलिन्दो मङ्ग उच्यते ॥ ६७२ ॥
3.672 · p. 76
अनुष्टुप्
भागीरथी सुरसरिद्विष्णुपदी जाह्नवी तथा गङ्गा ।मन्दाकिनी त्रिपथगा सरिद्वरा त्रिदशदीर्घिका प्रोक्ता ॥ ६७३ ॥
3.673 · p. 77
गीतिः
गोदावरी च गोदा कालिन्दी दिनकरात्मजा यमुना ।शोणो हिरण्यबाहुर्मेकलकन्या च नर्मदा रेवा ॥ ६७४ ॥
3.674 · p. 77
गीतिः
वेशन्तः पल्वलं तल्लं कासारः सरसी सरः ।आखातो देवखातः स्यात्खाता पुष्करिणी भवेत् ॥ ६७५ ॥
3.675 · p. 77
अनुष्टुप्
आधारश्च तडागं स्यादाली पाली च कथ्यते ।परिखा दीर्घिका प्रोक्ता खाता या परितः पुरम् ॥ ६७६ ॥
3.676 · p. 77
अनुष्टुप्
परीवाहो जलोच्छ्वास उत्सः प्रस्रवणं स्मृतम् ।विप्रुषो बिन्दवः प्रोक्ताः पृषतः पृषतास्तथा ॥ ६७७ ॥
3.677 · p. 77
अनुष्टुप्
पिच्छिलं स्याद्विजपिलं पङ्कः शादो निषद्वरः ।जम्बालः कर्दमः प्रोक्तो बुधैरिचिकिलस्तथा ॥ ६७८ ॥
3.678 · p. 77
अनुष्टुप्
सहस्रपत्त्रं शत्रपत्त्रमम्बुजंकुशेशयं तामरसं सरोरुहम् ।विसप्रसूनं कमलं महोत्पलं,सरोजमब्जं नलिनं च पुष्करम् ॥ ६७९ ॥
3.679 · p. 77
वंशस्थम्metre not read in every linenearly upajati 12: pāda 1, syllable 6 श (wrong syllable)
राजीवमरविन्दं च पद्मं पङ्कजमिष्यते ।रक्तं कोकनदं प्रोक्तं पुण्डरीकं सिताम्बुजम् ॥ ६८० ॥
3.680 · p. 77
अनुष्टुप्
सौगन्धिकं च कह्लारं स्यादिन्दीवरमुत्पलम् ।नीलोत्पलं कुवलयं कैरवं कुमुदं विदुः ॥ ६८१ ॥
3.681 · p. 77
अनुष्टुप्
कर्णिका बीजकोशः स्यात्किञ्जल्कं केसरं स्मृतम् ।मृणालं स्याद्विसं कन्दो विसिनी नलिनी भवेत् ॥ ६८२ ॥
3.682 · p. 78
अनुष्टुप्
कुमुद्वती कुमुदिनी बुधैः कैरविणी स्मृता ।शेवालं शैवलं प्रोक्तं जलशूकं च नीलिका ॥ ६८३ ॥
3.683 · p. 78
अनुष्टुप्
अन्धुः कूपः प्रधिर्नेमिश्चुरी चुण्ढी च चूतकः ।निपानमुदपानं च वाप्याहावश्च कथ्यते ॥ ६८४ ॥
3.684 · p. 78
अनुष्टुप्
उद्घाटकं घटीयन्त्रं पादावर्तोऽरघट्टकः ।पानं तु सारणिः प्रोक्ता प्रणाली जलपद्धतिः ॥ ६८५ ॥
3.685 · p. 78
अनुष्टुप्