रोमाञ्च
romāñcaपुं · masc.In 15 kośas: 16 synonym verses, 14 as a meaning of another word.
स्तम्भो जाड्यं स्वेदो घर्मनिदाघौ पुलकः पुनः ।रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥ ३०५ ॥रोमोद्गम उद्धुषणमुल्लुकसनमित्यपि ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वे (wrong syllable)
genderपुंmasc.
genderपुंmasc.
रोमाञ्चः पुलकः स्यात्कण्टकमुद्धुषणमुल्लकसनं च ।रोमोद्गमरोमविकाररोमहर्षाः समानार्थाः ॥ ६५१ ॥
आर्या
genderपुंmasc.
स्वेदो घर्मो निदाघः स्यात्कालिका तु विवर्णता ।रोमोद्गमो रोमहर्षो रोमाञ्चः कण्टकोऽपि च ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
स्तम्भः स्वेदश्च रोमाञ्चः स्वरभङ्गश्च वेपथुः ।वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्त्विका गुणाः ॥ १०८ ॥
अनुष्टुप्
genderपुंmasc.
स्तम्भः स्वेदः स्वरभ्रंशो रोमाञ्चोऽपि विवर्णता ।बाष्पश्च कम्पः प्रलय इत्यष्टौ सात्त्विका मताः ॥ २०४ ॥
अनुष्टुप्
genderपुंmasc.
स्वरभेदः स्वरसादो स्वरभङ्गः स्यात्स्वरध्वंसः ।कण्टक-पुलकावस्त्री रोमाञ्चो रोमहर्षश्च ॥ २०६ ॥
metre not recognised
genderपुंmasc.
अट्टहासो महाहासोऽपहासोऽकारणोद्भवे ।रोमाञ्चः पुलको रोमविकारो रोमहर्षणम् ॥ २१६ ॥
अनुष्टुप्
genderपुंmasc.
बाष्पो श्रमांशु (?) नेत्राम्बु घर्मः स्वेदः श्रमाम्बु च ।पुलकः कण्टको रोमहर्षो रोमाञ्च इत्यपि ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
अथ स्तम्भो भवेज्जाड्यं धर्मः स्वेदस्तथैव च ।निदाघश्चाथ रोमाञ्चः कण्टकः पुलकस्तथा ॥ ४४९ ॥
अनुष्टुप्
genderपुंmasc.
स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।वैवर्ण्यमश्रुपातश्च इत्यष्टौ सात्त्विका मताः ॥
अनुष्टुप्
genderपुंmasc.
ईषद्धासे स्मितं मध्यहासे विहसितं मतम् ।अथ रोमाञ्चपुलकौ रोमोद्भेदस्त्वगङ्कुरः ॥
अनुष्टुप्
genderपुंmasc.
भयं च स्थायिनो भावा विभावो भावदर्शकः ।स्युः स्तम्भस्वेदरोमाञ्चाः स्वरसंभेदवेपथू ॥ ९५७ ॥
अनुष्टुप्
genderपुंmasc.
क्षमा क्षान्तिस्तितिक्षा च सहनं मर्षणं समे ।कण्टकोऽस्त्री रोमहर्षो रोमाञ्चः पुलकः समाः ॥ ९८० ॥
अनुष्टुप्
genderपुंmasc.
नृत्तमाभ्यन्तरं नाम कालिका तु विवर्णिका ।रोमाञ्च उल्लूकसनं वीक्षणं तु निभालनम् ॥ १८२२ ॥
अनुष्टुप्
genderपुंmasc.
रोमोद्गमो रोमहर्षो रोमांचः कण्टकोऽपि च ।रोमांक उल्लसनकमप्युल्बणकमित्यपि ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
रोमाञ्च as a meaning in nānārtha verses
- धरणिकोश पुलकपुलकः क्रिमिभेदे स्याद्रोमाञ्चे प्रस्तरान्तरे । मधुको बन्दि [भेदे च] मधुका मधुयष्टिका ॥ Dharaṇikośa 1.2.40
- धरणिकोश कण्टककण्टकः क्षुद्रशत्रौ स्यान्मीनादीनां [च] कीकसे । दोषे नैयायिकादीनां रोमाञ्चे पादपाङ्गजे ॥ Dharaṇikośa 1.3.7
- कोषकल्पतरु पुलकरणरणके रक्तकुथे रल्लक उक्तश्च सीमन्ते । पुलकोऽस्त्री कृमिभेदे गल्वर्के रक्तदोषे च । रोमाञ्चे हरिताले शिलाविभेदे गजान्नपिण्डे च ॥ ३९ ॥ Koṣakalpataru 6.1.39
- कोषकल्पतरु रोमहर्षणकलिवृक्षे रोमाञ्चे भवति तथा रोमहर्षणं क्लीबे । निष्फलपुंस्युन्मत्ते क्रकचे कीडे( ? )च कूटे च ॥ ७० ॥ Koṣakalpataru 6.15.70
- नानार्थार्णवसंक्षेप पुलकरोमाञ्चे हरिताले च रत्नभेदेऽप्यथोदितः । स्यात् पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ॥ १६५ ॥ Nānārthārṇavasaṃkṣepa 3.2.165
- नानार्थार्णवसंक्षेप कण्टकवृक्षस्यावयवे सूचिसदृशे क्षुद्रविद्विषि । रोमाञ्चे वेणुवृक्षे च कण्टका तु स्त्रियामियम् ॥ ३२० ॥ Nānārthārṇavasaṃkṣepa 4.320
- परमानन्दीयनाममाला पुलकपल्लवो नवपत्रे स्याद्धूर्तशृङ्गारयोरपि । पुलकोऽथाश्रुसंताने रोमाञ्चे कृमिभिद्यपि ॥ ३०९ ॥ Paramānandīyanāmamālā 5.19.309
- शब्दरत्नावली कटुकनैयायिकादिदोषोक्त्यां रोमाञ्चे च द्रुमाङ्गके । करङ्को मस्तकेऽशस्यनारिकेलफलेऽस्थनि ॥ Śabdaratnāvalī 7.1.42
- शब्दरत्नावली पुलकगजान्नपिण्डे गन्धर्वे रोमाञ्चे हरितालके । पुलाको भक्थसिक्थे स्यात् संक्षेपे तुच्छधान्यके ॥ Śabdaratnāvalī 7.1.105
- शब्दरत्नावली रोमहर्षणरोमहर्षणं रोमाञ्चे सूते विभीतके पुमान् । बादरायण उन्मत्ते काण्डे च करपात्रके ॥ Śabdaratnāvalī 7.15.99
- शब्दरत्नाकर पुलकआद्योपलब्धिस्थाने च मूले च प्रभवोऽम्भसाम् । पुलकः कृमिरोमाञ्चहीररत्नास्त्रराजिषु ॥ २१२५ ॥ Śabdaratnākara 4.1.2125
- त्रिकाण्डशेष कण्टकरोमाञ्चे क्षुद्रशत्रौ च द्रुमाङ्गे कण्टकोऽस्त्रियाम् । राजधान्यां नितम्बेऽद्रेर्वलये कटकोऽस्त्रियाम् ॥ १२ ॥ Trikāṇḍaśeṣa 3.3.12
- वैजयन्ती कण्टककुंभीरपुच्छे च जलस्थाने त्वृक्षर ऋत्विजि । वेणौ द्रुमांगे रोमाञ्चे क्षुद्रशत्रौ च कण्टकः ॥ १४ ॥ Vaijayantī 7.1.14
- वैजयन्ती पुलकपुलकोऽस्त्रे रत्नराज्यां रोमांचे हीरके क्रिमौ । पुलाकस्तुच्छधान्ये स्यात् संक्षेपे भक्तसिक्थके ॥ ४७ ॥ Vaijayantī 7.1.47