लतोद्गम
latodgamaपुं · masc.In 5 kośas: 2 synonym verses, 3 as a meaning of another word.
आवाल आलवालः स्यादावापः स्थानकं तथा ।लतोद्गमोऽवरोहस्तु प्रवालः पल्लवाङ्कुरः ॥ १८४ ॥
अनुष्टुप्
genderपुंmasc.
शाखा शिफावरोहो ना मूलात्त्वग्रं गता लता ।लतोद्गमोऽथाप्रकाण्डे गुल्मोऽस्त्री विटपोऽपि च ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
लतोद्गम as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप अवरोहअवरोहोऽवतरणे पादपस्य लतोद्गमे । मूलादग्रं गतायां च लतायां किञ्च शाखिनः ॥ १५ ॥ Nānārthārṇavasaṃkṣepa 6.15
- शब्दरत्नावली अवरोहअवरोहोऽवतरणे समारोहे लतोद्गमे । अश्वारोहोऽश्वगन्धायां त्रिषु स्यादश्ववाहके ॥ Śabdaratnāvalī 7.33.29
- त्रिकाण्डशेष अवरोहअवग्रहः स्यात्प्रकृतिभाववृष्टिविबन्धयोः । अवरोहोऽवतरणे त्रिदिवे च लतोद्गमे ॥ ४५६ ॥ Trikāṇḍaśeṣa 3.3.456