अवरोह
avarohaपुं · masc.In 10 kośas: 8 synonym verses, 9 as a nānārtha head word, 2 as a meaning of another word.
genderपुंmasc.
आवाल आलवालः स्यादावापः स्थानकं तथा ।लतोद्गमोऽवरोहस्तु प्रवालः पल्लवाङ्कुरः ॥ १८४ ॥
अनुष्टुप्
genderपुंmasc.
वटो जटालो न्यग्रोधोऽवरोहा पादरोहणः ।विटपी मण्डपी शृङ्गी यक्षावासश्च रोहिणः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
शाखा शिफावरोहो ना मूलात्त्वग्रं गता लता ।लतोद्गमोऽथाप्रकाण्डे गुल्मोऽस्त्री विटपोऽपि च ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
स्वरव्ययं देवलोक-सुरलोक-फलोदयाः ।स्वर्गावरोह-त्रिदिव-स्वर्लोक-नागमन्दराः ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 क (wrong syllable)
genderपुंmasc.
परुः पर्व पुमान् ग्रन्थिर्विस्तारो विटपोऽस्त्रियाम् ।शाखालता स्कन्धशाखा शाला तुल्ये शिफाजटे ।अवरोहस्तु सा शाखा या मूलादग्रमाश्रिता ॥ ४४५ ॥
अनुष्टुप्
genderपुंmasc.
स्वर्लोको देवलोकः स्यादवरोहः फलोदयः ।मन्दरः सैरिभः शक्रभवनं खं दिवं नभः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
शिफा जटाऽवरोहस्तु सा शाखाजा वटादिषु ।मूलं बुध्नोंऽघ्रिनामास्मादास्कन्धात् स्यात् प्रकाण्डकम् ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
स्त्री वरनारीश्रोण्योरवरोहः स्यात्तरंगे[94a]ऽपि ।वल्ल्युद्गमेऽवतारेऽथाश्वारोहोऽश्ववारके पुंसि ॥ ६३ ॥
metre not recognised
शाखाजातशिफायां चाप्यथ स्यादवरोधवाक् ।अन्तःपुरे स्वीकृतौ चाप्यवलेपस्तु लेपने ॥ १६ ॥
अनुष्टुप्
meaningsशाखाजातशिफा
आरोहस्तु समुच्छ्रयदीर्घत्वारोहणेषु च ।कट्यामप्युत्तमस्त्रीणां तथावरोह इत्यपि ।उत्साह उद्यमे सूत्रे कल्याणभावभेदयोः ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 च्छ्र (wrong syllable); pāda 4, syllable 3 व (wrong syllable)
meanings
अवरोह as a meaning in nānārtha verses
- कोषकल्पतरु अवतरतिअवात्परोऽवरोहे स्याज्जन्मान्तरपरिग्रहे । स्यात्स्कुनाति स्कुनीते च स्कुनोति स्कुनुते तथा ॥ स्कुन्दते स्यादुत्प्लवनेऽथानक्ति म्रक्षणे स्मृतम् । निमज्जने स्याद्गुडति भृडति क्रुडतीति च ॥ ३ ॥ Koṣakalpataru 3.5.3
- नानार्थार्णवसंक्षेप आरोहद्रुमाङ्गेऽप्यवरोहाख्ये हस्तिवाहे च कीर्तितः । श्रोण्यामारोहणेऽन्ये तु वरारोहाकटिस्थले ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 3.2.21