गुल्म
gulmaपुं · masc.In 15 kośas: 36 synonym verses, 11 as a nānārtha head word, 7 as a meaning of another word.
genderपुंmasc.
दक्षिणे तिलकं क्लोम वामे तु रक्तफेनजः ।पुष्पसः स्यादथ प्लीहा गुल्मोऽन्त्रं तु पुरीतति ॥ ६०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
genderपुंmasc.
सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ॥ ७४८ ॥अनिकिनी च पत्तेः स्यादिभ्याद्यैस्त्रिगुणैः क्रमात् ।दशानिकिन्येऽक्षौहिणी सज्जनं तूपरक्षणम् ॥ ७४९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 कि (wrong syllable); pāda 3, syllable 6 क्षौ (wrong syllable)
genderपुंmasc.
genderपुंmasc.
अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता ।
अनुष्टुप्
genderपुंmasc.
अन्त्रं पुरीतद्गुल्मस्तु प्लीहा पुंस्यथ वस्नसा ।स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ।पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ८० ॥सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।अनीकिनी दशानीकिन्यक्षौहिण्यथ सम्पदि ॥ ८१ ॥सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ ।
अनुष्टुप्
genderपुंmasc.
उलपस्तम्बगुल्माश्च वीरुधो विटपाः स्मृताः ।शष्पं बालतृणं प्रोक्तं सर्वं च तृणमर्जुनम् ॥ १९० ॥
अनुष्टुप्
genderपुंmasc.
गुल्मस्तु जाठरो ग्रन्थिः पृष्ठग्रन्थिर्गडुर्भटः ।मूत्राघातो मूत्रवर्त्मरोधेथ मूत्रकृच्छके ॥ ३३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
genderपुंmasc.
क्लीबे सेनामुखं गुल्मोऽस्त्रियामपि गणः पुमान् ।वाहिनी पृतना चापि चमूः पुनरनीकिनी ॥ २५१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
क्षुपेऽप्रकाण्डे गुल्मः स्यात्स्तम्बोथ व्रततिर्लता ।वल्ली च वल्लिर्व्रतती स्त्रियां वीरुत् प्रतानिनी ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
शुष्केऽप्यवानं स्याद्वानमथ हीनप्रकाण्डके ।स्तम्बगुल्मावथ लता गुल्मिनी च प्रतानिनी ॥ ४२ ॥
अनुष्टुप्
genderपुंmasc.
शाखा शिफावरोहो ना मूलात्त्वग्रं गता लता ।लतोद्गमोऽथाप्रकाण्डे गुल्मोऽस्त्री विटपोऽपि च ॥ २६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सेनामुखं गुल्म-गणौ वाहिनी पृतना चमुः ।अनीकिनी दशानीकिन्यक्षौहिण्युच्यते बुधैः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
द्वंद्वे विद्रधिरेताः स्युः पिटिका दशमेहिनाम् ।कुरण्डो वर्धा वृद्धिः स्त्री गुल्मोऽस्त्री जठरोपलः ॥ ४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्धा (wrong syllable)
genderपुंक्लीm. n.
संक्रमोद्यमसंक्रामकुसुमक्षौमगुल्मवत् ।घर्म उष्णे कुङ्कुमोऽथ संपरायो रणार्थकः ॥ ५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
एतेषां तृतीयाप्रकृतिः तृतीया स्थाने नपुंसकस्य दृष्टत्वात् पातालादीनि तृतीयाप्रकृतीनि विद्धि जानीहि । यथा इदं पातालं रसातलम् । जालं मत्स्यबन्धनं गवाक्षश्च । मलं पापम् । खलं मर्दनस्थानं व्रीहीणाम् । कपालं मस्तकास्थि खण्डं च । शैवालं जलसम्भवम् । शीलं विनयः[य] । नालं पद्मादीनाम् । चीरं जीर्णवस्त्रम् । चीवरं भिक्षाप्रावरणम् । वियदाकाशम् ।मुण्डनितम्बक्षपगुल्मसान्वङ्कवंशपूगशङ्खरथाश्च पुंसि स्युः ।जघनाम्बरफलमूलाङ्गानि तु विमुच्य ॥ ३८ ॥
metre not recognised
genderपुंmasc.
योगग्रन्थान्तरे गुञ्जा त्वक्ली स्याद्गुञ्जने स्त्रियाम् ।कृष्णलायां वाद्यभेदेऽप्यथ गुल्मो नृशण्डयोः ॥ ३५० ॥
अनुष्टुप्
genderपुंक्लीm. n.
गुल्मस्तु विटपः स्तम्बः प्रकाण्डरहितो मतः ।छल्ली वल्कं वल्कलं च त्वचि चोचमपि स्मृतम् ॥ ३२ ॥
अनुष्टुप्
genderपुंmasc.
गुल्मप्लीहावथान्त्राणि तद्वत्तत्र पुरीतति ।स्मृता रोमलता रोमवली स्यात्तुन्दकूपिका ॥ २६५ ॥
अनुष्टुप्
genderपुंmasc.
जम्भः कुसुम्भसंक्रामसंक्रमार्महिमान्यथ ।ललामहेमगुल्माश्चोद्यामकामोद्यमाश्रमाः ॥ १४९ ॥
अनुष्टुप्
genderपुंक्लीm. n.
नवेभानां रथानां च हयानां सप्तविंशतिः ।गुल्मः प्रोक्तो भटानां तु चत्वारिंशच्च पञ्च च ॥ ३४८ ॥
अनुष्टुप्
genderपुंmasc.
गुल्मः स्यादुदरग्रन्थिरुदावर्तो गुदग्रहः ।नाडीव्रणो गतिर्वृद्धिः कुरण्डश्चाण्डवर्धनम् ॥ ७२२ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ।अनीकिनी च पत्तेः स्याद् कराद्यैस्त्रिगुणैः क्रमात् ॥ १२२१ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
अस्त्री स्थानुः ध्रुवः शङ्कुश्छिन्नशाखे महीरुहे ।क्षुपच्छापौ निगदितौ ह्रस्वशाखाशिके तरो ॥अविद्यमानशाखे तु बहुपत्रे महीरुहे ।अप्रकाण्डे झिण्टिकादौ स्तम्बगुल्मौ समीरितौ ॥
अनुष्टुप्
genderपुंmasc.
अन्त्रं पुरीतत् क्लीबे द्वे गुल्म प्लीहा च पुंस्यपि ।स्त्रियां स्नायुर्वस्नसा च चर्मनिर्मितरज्जुषु ॥
अनुष्टुप्
genderपुंक्लीm. n.
सेनामुखे त्रिगुणिते गुल्मस्तत् त्रिगुणे गणः ।गणस्त्रिभिर्वाहिनी स्यात् पृतना वाहिनी त्रयम् ॥
अनुष्टुप्
genderपुंmasc.
अप्रकाण्डे स्तम्बगुल्मौ द्रुमाङ्कः कण्टकोऽस्त्रियाम् ।समौ स्कन्धप्रकाण्डौ द्वौ सारो मज्जा समावुभौ ॥ ४४७ ॥
अनुष्टुप्
genderपुंmasc.
समे तु गोर्दमस्तिष्के द्वौ गुल्मप्लीहनौ समौ ।कालखण्डं यकृत क्लीबे स्नायुर्ना वस्नसा स्त्रियाम् ॥ १११६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
वरूथिनीतपाकिन्यावनीकं पुंनपुंसकम् ।चक्रं सैन्यं बलं सैन्यमुखे गुल्मगुणौ समौ ॥ १३५६ ॥
अनुष्टुप्
genderपुंmasc.
अप्रकाण्डे स्तंबगुल्मावुलपस्तु प्रतानिनी ।गुल्मिन्यपि च वल्ली तु व्रततिर्व्रतती लता ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः ।अनीकिनीत्यनीकिन्यः पुनरक्षौहिणी दश ॥ ५८ ॥
अनुष्टुप्
genderपुंmasc.
अस्त्री परीतदान्त्रं स्यात् कालखण्डं पुनर्यकृत् ।गुल्मः प्लीहा च डिंबः स्यादष्ठीला गर्भसंपुटः ॥ ११३ ॥
अनुष्टुप्
genderपुंmasc.
गुल्मः स्यादुदरग्रन्थिः सीवनीजो भगन्दरः ।शंबूकावर्त एष स्यात्त्रिदोषोत्थोऽथ पित्तजः ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
धर्मः स्वेदाम्भसि ग्रीष्मे उष्णे स्यादातपेऽपि च ।गुल्मः स्याद्विटपे घट्टे रोगसैन्यविशेषयोः ॥
अनुष्टुप्
हृदयग्रन्थिसंज्ञे स्याद् व्याधिभेदेऽपि वीरुधि ।बलानां सज्जने सैन्यभेदे सभ्येऽपि केचन ॥ ३५१ ॥
अनुष्टुप्
doubtful
घट्टे च शुल्कसंज्ञेऽन्ये त्वायस्थाने प्रचक्षते ।गुच्छो ना स्तबके धान्यस्तम्बे वीरुत्सु सप्तसु ॥ ३५२ ॥
अनुष्टुप्
doubtful
गुल्मो वृक्षान्तरे घट्टविशेषे कटके स च ।ग्रहोऽर्कादावुपादाने गतिर्यात्रा दशापि च ॥ १५९ ॥
अनुष्टुप्
ग्रामः पुमान् संवसथे समूहस्वरभेदयोः ।गुल्मः सेना सैन्यरक्षाधहभिद्व्याधिभित्सु च ॥
अनुष्टुप्
वस्त्रवेश्मामलक्येलावनीस्तम्बेषु च स्त्रियाम् ।घर्मो ग्रीष्मातपोष्णेषु स्वेदाम्भसि भवेत्पुमान् ॥
अनुष्टुप्
doubtful
गणाः प्रमथसंख्यौघा ग्रावाणौ पर्वतोपलौ ।तन्तुनागाग्रहौ ग्राहौ गुल्मो व्यूढा च वाहिनी ॥ १९ ॥
अनुष्टुप्
meaningsवाहिनी
गुल्म as a meaning in nānārtha verses
- कोषकल्पतरु स्तम्बबिम्बं फले स्यादपि बिम्बिकायाः । स्यान्मण्डले ऽस्त्री प्रतिबिम्बके स्या- ड्डिम्बोऽस्त्रियां विप्लवभीतिशब्दे । पञ्चाङ्गुलप्लीहसु फुप्फुसेऽथ स्तम्बोऽप्रकाण्डे द्रुतृणादिगुल्मे ॥ २७ ॥ Koṣakalpataru 6.24.27
- नानार्थार्णवसंक्षेप वीरुध्गुल्माख्येऽपि प्रतानिन्यां लतायां वृत्तिवाक् पुनः । कृप्यादौ वर्तनेऽप्यारभट्यादिचतसृष्वपि ॥ ९९ ॥ Nānārthārṇavasaṃkṣepa 2.1.99
- नानार्थार्णवसंक्षेप जीर्विअजाज्यां तु नृशण्डः स्याद् द्वे त्वश्वे जीर्विवाक् पुनः । टङ्के ना शकटे द्रव्ये गुल्मे चाथ द्वयोः पशौ ॥ ४८४ ॥ Nānārthārṇavasaṃkṣepa 2.5.484
- नानार्थार्णवसंक्षेप मन्दारगुल्मे स्यात् पारिभद्राख्यवृक्षतद्भेदयोरपि । तेषां तु प्रसवे क्लीबमरविन्देऽप्यथ द्वयोः ॥ १३५१ ॥ Nānārthārṇavasaṃkṣepa 4.1351
- नानार्थार्णवसंक्षेप मातुलुङ्गरुचकादिपदैर्गुल्मे फलार्थे स्त्री त्वमुष्य वै । भेदेऽत्यम्लफले मातुलुङ्गी क्ली तु फले तयोः ॥ ५०० ॥ Nānārthārṇavasaṃkṣepa 6.500
- वैजयन्ती कक्षविकल्पेऽपि च कक्षस्तु गुल्मे स्पर्धापदे तृणे । काम्यस्पृहास्मराः कामाः कलहेऽन्त्ययुगे कलिः ॥ १७ ॥ Vaijayantī 6.1.17
- वैजयन्ती वीरुध्वीरुधौ गुल्मगुल्मिन्यौ वीथी पंक्त्यध्वनोरपि । वीचिः पंक्त्यूर्मिलेशेषु व्युष्टी फलसमृद्धते ॥ ३५ ॥ Vaijayantī 6.2.35