कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

लुठित

luṭhitaक्ली · neut.

In 7 kośas: 7 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.50 · p. 48
अपावृत्तपरावृत्तलुठितानि तु वेल्लिते ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह क्षत्रियवर्गः Amarakośa 2.8.50
त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥ ५० ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.211 · p. 112
अपावृत्तपरावृत्तलुठितानि च वेल्लिते ।न द्वयोरश्ववृन्दे स्यादाश्वमाश्वीयमित्यपि ॥ २११ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.62 · p. 259
ह्रेषा हेषा वाजिशब्दो वेल्लिते तु भुवि त्रिषु ।उपावृत्तः परावृत्तो लुठितश्च निगद्यते ॥ ६२ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.158 · p. 71
अपावृत्तपरावृत्तलुठितानि तु वेल्लिते ।धोरितं वल्गितं प्लुत्पुत्तेजितोत्तरितानि च ॥ १५८ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.307 · p. 64
अपावर्तश्च लुठितः परावृत्ते मुहुर्भुवि ।रथे तु स्यन्दनो रामः शताङ्गः शबलोऽपि च ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2252 · p. 367
अपावृत्तं परावृत्तं लुठितं वेल्लितं पुनः ।भूमावलोटनं तस्य श्रमो येन विनश्यति ॥ २२५२ ॥
अनुष्टुप्
genderक्लीneut.