कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

भूकाण्डः · वनौषधिवर्गः (12/15)

यूथनाथो यूथपतिर्लुषभस्तु मदोद्धतः ।अरालोऽसौ मदकलो मारीचो जायकश्च सः ॥ ८९ ॥
2.3.89 · p. 252
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 यू (wrong syllable)
[112a]राजहस्ती च सुग्रीवः प्रभिन्नो गर्जितोऽपि च ।मत्तोऽथ निर्मदोद्वान्तौ विस्तारो मदकारि यत् ॥ ९० ॥
2.3.90 · p. 252
अनुष्टुप्
सज्जितः कल्पितस्तिर्यग्घाती परिणतो गजः ।व्यालो दुष्टगजोऽथैष संनाह्यः समरोचितः ॥ ९१ ॥
2.3.91 · p. 252
अनुष्टुप्
गम्भीरवेदी तु गजो भवेदवमताङ्कुशः ।राजवाह्यस्तूपबाह्य ईषादन्त उदग्रदन् ॥ ९२ ॥
2.3.92 · p. 252
अनुष्टुप्
द्वयोस्तु हस्तिनोऽपत्यं हास्तिनायनमीरितम् ।हास्तिकं गजता वृन्दे करिणां घटना घटा ।मदो दानं प्रवृत्तिः स्त्री वमथुः करसीकरः ॥ ९३ ॥
2.3.93 · p. 252
अनुष्टुप्
हस्तिनासा करः शुण्डा तद्धस्ताग्रं तु पुष्करः ।विषाणौ त्रिषु दद्दन्तौ करीरं दन्तमूलकम् ॥ ९४ ॥
2.3.94 · p. 252
अनुष्टुप्
प्रवेष्टं दन्तमांसं स्याद्वराङ्गं गजमस्तकम् ।कुम्भौ तु शिरसः पिण्डौ तयोर्मध्यं विदुः पुमान् ॥ ९५ ॥
2.3.95 · p. 252
अनुष्टुप्
वातकुम्भस्तु तस्याधो वाहित्थं तु ततोऽप्यधः ।अधोऽस्य प्रतिमानं स्याल्ललाटं स्यादवग्रहः ॥ ९६ ॥
2.3.96 · p. 252
अनुष्टुप्
आरक्षोऽस्त्री शिरोमर्म गण्डस्तु करटः कटः ।[112b]अक्षिकूटमिषीका स्यादिषिका च भवेत्स्त्रियाम् ॥ ९७ ॥
2.3.97 · p. 253
अनुष्टुप्
अङ्गुलीः कर्णिका कर्णमूलं स्याच्चूलिका स्त्रियाम् ।गुल्फः प्रौहः स्कन्धदेशस्त्वासनं पद्मकं पुनः ॥बिन्दवः पक्षभागस्तु पार्श्वतोऽप्यथ योऽग्रतः ।दन्तभागो न ना गात्रं जङ्घादिप्राक्प्रदेशकः ॥पश्चाद्भागोऽपरो नाह्यो वारी स्त्री रज्जुरङ्घ्रिगा ।त्रिपदी गात्रयोर्बन्ध एकस्मिन्नपरेऽपि च ॥उत्पलं कर्णमांसं स्याल्लालिका कर्णवेधिनी ।अपाङ्गदेशो निर्याणं पुच्छमूलं तु पेचकः ॥शृङ्खलस्त्रिषु चान्दूः स्त्री न स्त्रियौ निगडान्दुकौ ॥ २०० ॥
2.3.200 · p. 253
अनुष्टुप्
हिञ्जीरोऽस्त्री पादपाशस्त्रिपदी गात्रबन्धनम् ॥ १ ॥
2.3.1 · p. 253
प्रारब्धिः प्रतिमा हस्तिबन्धो वारीभबन्धभूः ।आलानं त्वस्त्रियां बन्धस्तम्भोऽथ तलभं भवेत् ॥ २ ॥
2.3.2 · p. 253
अनुष्टुप्
क्लीबे करिकराघातस्तोत्रं वैणुकमद्वयोः ।अङ्कुशोऽस्त्री सृणिर्द्वंद्वेऽपष्ठं त्वग्रं सृणेर्मतम् ॥ ३ ॥
2.3.3 · p. 253
अनुष्टुप्
निषादिनां पादकर्म यतं [113a]वीतं तु तद्द्वयम् ।दूष्या कक्ष्या वरत्रा स्यात्कण्ठबन्धः कलापकम् ॥ ४ ॥
2.3.4 · p. 253
अनुष्टुप्metre not read in every line
दन्तावलानां संनाहे गुडा स्त्रीपुंसयोर्मता ।कल्पना सज्जना चाथ कुमारा गजपालकाः ॥भद्रो मन्दो मृगो मिश्रश्चतस्रो गजजातयः ।बृंहितं गर्जितं क्लीबे गजस्यान्नं विधा स्त्रियाम् ॥ ५ ॥
2.3.5 · p. 253
अनुष्टुप्
महामात्रा हस्तिपका हस्त्यारोहा निषादिनः ।आधोरणाश्च शण्ढाश्च हास्तिकस्त्रिषु हस्तिगः ॥ ६ ॥
2.3.6 · p. 253
अनुष्टुप्
नागवारिकनामा स्याद्राजकुञ्जरहस्तिपः ॥ ७ ॥
2.3.7 · p. 253
अर्वा तुरंगस्तुरगस्तुरंगमोगन्धर्व-वाहाश्व-हयाश्च घोटकः ।वाजी च मुद्गाशन-वीति-सप्तयस्तार्क्ष्यो हरि-श्रीसुत-सैन्धवा ययीः ॥ ८ ॥
2.3.8 · p. 253
इन्द्रवंशा
क्रमणकेसरि-केसरि-विक्रमा-निलरथैकशफा गृहभोजनः ।कुटच-चामरि-पालक-किण्विनःपरुल-वाडव-हंस-मुहुर्भुजः ।वडवाश्वा प्रसूर्वामी वाजिनी चार्वती हयी ।अश्वस्यन्ती कामुकी सा टारो लघुतुरंग[113b]मः ॥ ९ ॥
2.3.9 · p. 253
द्रुतविलम्बितम्two metres in one verse
हयः किशोरोऽल्पवया जवनस्तु जवाधिकः ।रथस्य रथ्यो यो वोढा द्विरथ्यो द्विरथीं वहन् ।युग्यो युगस्यान्यलिङ्गाविष्टो * * * * * * ।* * * * * * स्थूरं बलं स्थौरी स कथ्यते ॥ १० ॥
2.3.10 · p. 253
अनुष्टुप्metre not read in every line
ययुरश्वोऽश्वमेधीयो वीरभद्रश्च सम्मतः ।अश्वोरसं वाजिमुख्ये विनीतस्त्रिषु साधुनीः ॥ ११ ॥
2.3.11 · p. 253
अनुष्टुप्
आजानेयः कुलीनोऽश्वो वाडवं वडवागणे ।पुंस्यश्व-वडवौ द्वंद्वेऽथाश्वषट्केऽश्वषड्गवम् ।अश्वीयं त्वश्ववृन्दे स्यादाश्वं चापि नपुंसके ॥ १२ ॥
2.3.12 · p. 253
अनुष्टुप्
शूकलो दुर्विनीतोऽश्वस्तत्तद्देशास्तु सैन्धवाः ॥ १३ ॥
2.3.13 · p. 253
वनायुजाश्च वानायुजन्मानः पारसीककाः ।काम्बोजा बाह्लिका हौणा आरट्टास्ताजका अपि ॥ १४ ॥
2.3.14 · p. 253
अनुष्टुप्
तौरुष्काः कच्छजा द्वैप्याः पर्वतीयादयोऽपरे ।कश्यस्त्रिषु कशार्हो योऽविकृतस्तु सुलक्षणः ।असावविकृतो मार्गे न स्खलेद्वेगवानपि ॥ १५ ॥
2.3.15 · p. 255
अनुष्टुप्
हृद्यावर्त्तचतुष्कं च रो[114a]चमानश्च कण्ठगः ।तदा श्रीवत्सकी सोऽश्वो यस्य तु स्यात्प्रदक्षिणम् ॥ १६ ॥
2.3.16 · p. 255
अनुष्टुप्metre not read in every line
आवर्त्तयुग्मं शुक्तिर्वा भुजयोरङ्गदीति सः ।यस्योपरन्ध्रयोरूर्ध्वं द्वावावर्तौ स मेखली ॥ १७ ॥
2.3.17 · p. 255
अनुष्टुप्
दशावर्तस्तु योऽश्वः स्यादावर्तैर्दशभिः शुभैः ।स्फिक्पिण्डावर्त्तको वाजी लेण्डपाती निगद्यते ।*** द्विशकौ योऽश्वः कराली तु कुलान्तकः ॥ १८ ॥
2.3.18 · p. 255
अनुष्टुप्metre not read in every line
यद्दन्तमूलमांसं चेद्बाह्यतो निर्गतं भवेत् ।काकमूर्द्धा शिरःपुच्छशरीरेषु त्रिवर्णकः ॥ १९ ॥
2.3.19 · p. 255
अनुष्टुप्
शस्तवर्णोऽपि यो वाजी निन्द्यराजीसमन्वितः ।भवेत्सिंहशरीराभः स स्यादवगडाभिधः ॥ २० ॥
2.3.20 · p. 255
अनुष्टुप्
मस्तकत्रिकवालेषु भिन्नवर्णो हयो ध्वजी ।पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ २१ ॥
2.3.21 · p. 255
अनुष्टुप्
पुच्छास्योरःशिरःपादस्थानेष्वष्टसु यः सितः ।सोऽष्टमङ्गलकोऽप्यश्वः, श्वेते यस्योदरोरसी ॥ २२ ॥
2.3.22 · p. 255
अनुष्टुप्
अथ वा कृष्णशोणे ते स वैजयिकनामकः ।वर्णेन वेष्टितः कट्यां यः सितेनेव वाससा ॥ २३ ॥
2.3.23 · p. 255
अनुष्टुप्
स[114b] संवीताभिधोऽथ स्यात्कर्कः कौकाहकः सितः ।निचितो बिन्दुभिः कृष्णैराननोदरसक्थिषु ॥ २४ ॥
2.3.24 · p. 255
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 सं (syllables merged)
कुक्कुटः सिन्दुवाराभत्वगादिः सिन्दुवारकः ।ताम्रत्वङ्मुष्कवक्त्रोऽश्वः सिंहसंनिभरोमवान् ॥ २५ ॥
2.3.25 · p. 255
अनुष्टुप्
यः केशवालयोः श्वेतः सिंहपोतः स उच्यते ।गुह्याक्षित्वक्खरौष्ठेषु कृष्णकेसररोमभिः ॥ २६ ॥
2.3.26 · p. 256
अनुष्टुप्
बालधौ तु सितास्ते स्युः क्रौञ्चपत्राह्वया हयाः ।अन्यवर्णः सितैः केशैर्मुञ्जकेशो हयो भवेत् ॥ २७ ॥
2.3.27 · p. 256
अनुष्टुप्
कृष्णैः केशैरन्यवर्णस्तुरगोऽञ्जनकेशकः ।मिश्रकेशो मिश्रवर्णोऽल्परक्तः कृष्णरोमकः ॥ २८ ॥
2.3.28 · p. 256
अनुष्टुप्
चक्रवाकाभिधः पीतकृष्णवालोऽपि यो हयः ।खोङ्गाहः श्वेतपिङ्गोऽश्वः खुङ्गाहः कृष्णवर्णकः ॥ २९ ॥
2.3.29 · p. 256
अनुष्टुप्
पीयूषवर्णः सेराहो हरितः पीतवर्णकः ।लोहितस्तु क्रियाहः स्यादानीलो नीलको हयः ॥ ३० ॥
2.3.30 · p. 256
अनुष्टुप्
त्रियूहः कपिलोत्कृष्टो वोल्लाहः पन्दुवालधिः ।उतराहो[115a] मनाक्पीलुः कृष्णजङ्घो भवेद्यदि ॥ ३१ ॥
2.3.31 · p. 256
अनुष्टुप्metre not read in every line
सुरूहको गर्द्दभाभो वोरुखानस्तु पाटलः ।कुहालस्तु मनाक्पीतः कृष्णः स्याद्यदि जानुनोः ॥ ३२ ॥
2.3.32 · p. 256
अनुष्टुप्
उकनाहः पीतरक्तः कृष्णरक्तोऽथ वा हयः ।शोणः कोकनदाभो यो हरिः सीतच्छविस्तु यः ॥ ३३ ॥
2.3.33 · p. 256
अनुष्टुप्
हरिको हालिकश्चासौ पिङ्गलः सितकाचवत् ।मल्लिकाक्षः सितैर्नेत्रैः कृष्णैस्त्विन्द्रायुधो हयः ॥ ३४ ॥
2.3.34 · p. 256
अनुष्टुप्
कपिलो बभ्रुरोमाभो हंसः कर्बुरकस्तु सः ।रक्तत्वग्घंसतुल्याङ्गः खञ्जनाभस्तु खञ्जनः ॥ ३५ ॥
2.3.35 · p. 256
अनुष्टुप्
आ नेत्रतो यस्य सितं सकर्णंशिरो भवेत्प्राकृतकः स वाजी ।यः श्वेतसुस्निग्धमुखाङ्घ्रिरश्व-स्तं पञ्चकल्याणमुदीरयन्ति ॥ ३६ ॥
2.3.36 · p. 256
उपजातिः
श्वेतः सपत्नदमनो वदनाङ्घ्रिपुच्छेनन्दीमुखस्तु मुखमूर्धपदेषु तादृक् ।ज्योतिष्टकश्चरणलोचनपृष्ठवक्षः-केशाननेषु धवलोऽखिलकृष्णगात्रः ॥ ३७ ॥
2.3.37 · p. 257
वसन्ततिलका
छादनिकस्तु स वाजी यस्य खुरा रोमभिर्निचिताः ।पीनकटी[115b]जठरो रो*[को] लम्बोदरो वाजी ॥ ३८ ॥
2.3.38 · p. 257
metre not recognised
यस्य वर्णस्य सादृश्यं यद्वर्णः संप्रपद्यते ।तदेव तस्य नामापि वेदितव्यं मनीषिभिः ॥ ३९ ॥
2.3.39 · p. 257
अनुष्टुप्
इन्दोः स्वरश्मिसदृशास्तपनीयभासःस्वर्भर्तुरञ्जननिभास्तुरगा यमस्य ।कर्का हरेर्दिनमणेः शुकपक्षवर्णाः ।संफुल्लकिंशुकनिभास्तुरगाः कृशानोः ॥ ४० ॥
2.3.40 · p. 257
वसन्ततिलका
हलाहश्चित्रितो वाजी पुष्पाण्यङ्गेषु बिन्दवः ।सारस्तु वर्णमिश्रत्वमावर्तो रोमसंस्थितिः ॥ ४१ ॥
2.3.41 · p. 257
अनुष्टुप्
तद्भेदा मुकुलं शुक्तिः संघः स्यादवलीढकः ।शतपादी पादुका च पादुकार्धमिति स्मृताः ॥ ४२ ॥
2.3.42 · p. 257
अनुष्टुप्
स्वनामानुगतार्थाः स्युः सर्वेऽप्यावर्तभेदकाः ।दशाश्वायुर्दशांशोऽथ क्षेत्रमङ्गव्यवस्थितिः ॥ ४३ ॥
2.3.43 · p. 257
अनुष्टुप्
निगालस्थो य आवर्तः स हि देवमणिः स्मृतः ।तथा वक्षसि वाहस्य श्रीवत्सक इति स्मृतः ॥ ४४ ॥
2.3.44 · p. 257
अनुष्टुप्
एकः प्रपानेऽपि ललाट एकोद्वौ रन्ध्रयोर्द्वावुपरन्ध्रयोश्च ।द्वौ मस्तके द्वावुरसि स्थितौ चे-त्यावर्त्तकाः स्यु [116a]र्ध्रुवनामभाजः ॥ ४४ ॥
2.3.44 · p. 257
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 5 स्यु (wrong syllable)
सूनाश्वानां तालुनोऽधोऽथोत्तरोष्ठस्य पृष्ठकम् ।प्रपानमूध्वे त्वस्यास्त्री प्रोथो घोणास्ययोरपि ॥ ४५ ॥
2.3.45 · p. 258
अनुष्टुप्
ललामाश्वस्य पुण्ड्रे स ललामं तत्र न स्त्रियाम् ।स्तुवः पुंसि ललाटाग्रं कटौ शङ्खश्रवोन्तरम् ।गलनाडी हनूसंधौ निगालोऽथ गलादधः ॥ ४६ ॥
2.3.46 · p. 258
अनुष्टुप्
विदू नरौ मर्मविदू ततो*[ध]स्तात्प्रकीर्तितौ ।स्कन्धपृष्ठं केसरं स्यात्केशान्तः श्रुतिपृष्ठतः ॥ ४७ ॥
2.3.47 · p. 258
अनुष्टुप्
काकसा कन्धरान्तः स्यादंसपृष्ठं वहो नरि ।क्रोडस्तु कक्षाहृन्मध्यं कक्षाक्रोडवहान्तरा ॥ ४८ ॥
2.3.48 · p. 258
अनुष्टुप्
किणौ कक्षाधरेऽथाधोमन्दिरे समुदीरिते ।पृष्ठभागे मन्दिरयोरुक्ते जानु-कपालिके ॥ ४९ ॥
2.3.49 · p. 258
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
कले जङ्घापृष्ठगते इषीके तु तदन्तरे ।तयोरधः पुरोभागो(गे) पलिहस्तः प्रकीर्तितः ॥ ५० ॥
2.3.50 · p. 258
अनुष्टुप्
तस्य पश्चिमतः कूर्चः कुष्टिके स्त्री तयोरधः ।खुरसंधिस्ततोऽधस्ताच्छफं त्वस्त्री खुरः पुमान् ॥ ५१ ॥
2.3.51 · p. 258
अनुष्टुप्
निघृष्वो वर्तकस्त्वश्वशफश्च चटकोऽपि च ।खुरप्रान्ते[116b] नखशिखा खुराधस्तलमस्त्रियाम् ॥ ५२ ॥
2.3.52 · p. 258
अनुष्टुप्metre not read in every line
तलमध्ये क्षीरिका स्त्री मण्डूकी क्षीपिकान्तरे ।पृष्ठाधरे तु नीरोधः पार्श्वे त्वस्य च मांसले ॥ ५३ ॥
2.3.53 · p. 258
अनुष्टुप्
वटूके तु स्फिजोरूर्ध्वं तन्मध्ये सीवनी स्त्रियाम् ।हृत्कुक्षिनाभ्यन्तरगावुपरन्ध्रावुभौ मतौ ॥ ५४ ॥
2.3.54 · p. 258
अनुष्टुप्
अधोऽनयोः पृष्ठभागे रन्ध्रौ नरि च कीर्तितौ ।रन्ध्राधरे चक्रसंधी स्थूरे ऊर्वोरधोऽस्त्रियौ ॥ ५५ ॥
2.3.55 · p. 259
अनुष्टुप्
कश्यं तु मध्यमश्वानां बालहस्तस्तु वालधिः ।लाङ्गूलं लूमं पुच्छोऽस्त्री पिच्छः पुंसि च सम्मतः ॥ ५६ ॥
2.3.56 · p. 259
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मं (wrong syllable)
स उत्पुच्छयमानः स्यादुदस्यन्पुच्छमन्यवत् ।कावृको वाजिनः पुच्छं वयसो ज्ञापकं हि यत् ।दन्तचिह्नं व्यञ्जनं तत्कवी तु कविका स्त्रियौ ॥ ५७ ॥
2.3.57 · p. 259
अनुष्टुप्metre not read in every line
मुखयन्त्रं च कवियं खलीनं खलिनोऽस्त्रियः ।पञ्चाङ्गी वक्त्रपट्टे तु तलिका तलसारकम् ॥ ५८ ॥
2.3.58 · p. 259
अनुष्टुप्
वागावक्षेपणी वल्गा द्वयोः कविगुणे कुशा ।पल्याणं स्यात्पल्ययणं प्रक्षरं प्रक्षरोऽस्त्रियाम् ॥दामाञ्चनं पादपा[117a]शो निगलः पुंनपुंसके ।खलीनलम्बरज्जुस्तु वल्गवक्षेपणी कुशा ॥ ५९ ॥
2.3.59 · p. 259
अनुष्टुप्metre not read in every line
कशा कषा चर्मदण्डरश्मिः स्यादथ वारकः ।भवेद्वल्लभपालाह्वो हयस्कन्धो हयच्छटा ॥ ६१ ॥
2.3.61 · p. 259
अनुष्टुप्
ह्रेषा हेषा वाजिशब्दो वेल्लिते तु भुवि त्रिषु ।उपावृत्तः परावृत्तो लुठितश्च निगद्यते ॥ ६२ ॥
2.3.62 · p. 259
अनुष्टुप्
धारास्तद्गतयः पञ्च धौर्यं धौरितकं तथा ।धौरणं धोरितं चैतन्मयूरादिगतिप्रभम् ॥ ६३ ॥
2.3.63 · p. 259
अनुष्टुप्
वल्गितं त्वग्रकायस्य समुल्लासान्न तत्रिकम् ।आकुञ्चितास्यं गमनं लङ्घनं तु प्लुतं भवेत् ॥ ६४ ॥
2.3.64 · p. 259
अनुष्टुप्
मृगपक्ष्यादिगतिवदथोत्तेजित-रेचिते ।मध्यवेगेन गमनं यद्भवेच्छ्लथवल्गया ॥ ६५ ॥
2.3.65 · p. 259
अनुष्टुप्
उत्तेरितं तूपकण्ठमास्कन्दितकमित्यपि ।उत्प्लुत्योत्प्लुत्य गमनं यद्भवेदतिवेगतः ॥ ६६ ॥
2.3.66 · p. 259
अनुष्टुप्
आश्वर्कस्त्वथ चारः स्यात्तुरगी सादि-सादिनौ ।अश्वस्य विक्रयी यः स्यात्स हेलारुक उच्यते ।द्वयो रथः स्यन्दनोऽस्त्री शताङ्गश्चङ्कुरस्तथा ।पद्वः सांग्रामिके याने[117b] चक्रशालिन्यथेतरत् ॥ ६७ ॥
2.3.67 · p. 260
अनुष्टुप्metre not read in every line
चक्रयानं पुष्परथो दे*तार्थः समरुद्रः ।योगो रथो वैनयिकोऽध्वरथः पारियानिकः ॥ ६८ ॥
2.3.68 · p. 260
अनुष्टुप्metre not read in every line
कर्णीरथः प्रवहणं डयनं रथगर्भकः ।पुंस्कन्धबाह्यं यद्यानं विमानाभिध उच्यते ॥ ६९ ॥
2.3.69 · p. 260
अनुष्टुप्
आश्वोऽश्वैरूह्यमानोऽसौ तैश्चतुर्भिः स चातुरः ।क्लीबेऽनः शकटस्तु स्याद्गन्त्री गान्त्री स्त्रियामुभे ॥ ७० ॥
2.3.70 · p. 260
अनुष्टुप्
* * * * * * * * * * * * * * * * * * ।कूवरी न द्वयोर्गांत्रं कूबरी च वहित्र्यपि ।न स्त्री कम्बलिवाह्यं स्याद्गान्त्रं न नरि योषिति ।शिबिके * याप्ययानं दोला प्रेङ्खोलिकापि च ॥ ७१ ॥
2.3.71 · p. 260
अनुष्टुप्metre not read in every line
रज्जुप्रालम्बहिन्दोलो दोला प्रेङ्खा च योषिति ।शयानिका शिशूनां सा शयनाय कृता यदि ॥उभौ तु द्वैप-वैयाघ्रौ द्वीपिचर्मावृते रथे ।तद्वत्काम्बलवास्त्राद्याः कम्बलादिभिरावृते ॥ ७२ ॥
2.3.72 · p. 260
अनुष्टुप्
पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बलः ।अष्टागवं त्वष्टगवयुक्ते स्याच्छकटे त्रिषु ।रथ्या च रथकट्या च रथ वृ[118a]न्दे स्त्रियामुभे ॥ ७३ ॥
2.3.73 · p. 260
अनुष्टुप्metre not read in every line
रथिको रथनश्चस्याद्रथिरो रथरोह्यपि ।एवं शाकटिकश्च स्याद्रथिकाद्या विशेष्यगाः ॥ ७४ ॥
2.3.74 · p. 260
अनुष्टुप्
नियन्ता प्राजिता यन्ता सव्येष्टा क्षत्तृ-सारथी ।सूतो रथकुटुम्बी च प्रचेता दक्षिणस्थवत् ॥ ७५ ॥
2.3.75 · p. 260
अनुष्टुप्
व्याप्नुवन्वाहनं सर्वं सर्वपत्रीण उच्यते ।धूर्वी-धुरौ च यानाग्रमक्षो धूस्तु दृढा यदि ॥ ७७ ॥
2.3.77 · p. 261
अनुष्टुप्
तदा दृढधुराथाक्षो दृढधूरेव सम्मतः ।रथपादौ रथ्यमरि रथाङ्गं चक्रमस्त्रियाम् ॥ ७८ ॥
2.3.78 · p. 261
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
चक्रधारा तु नेमिः स्त्री प्रधिर्द्वंद्वेऽथ पिण्डिका ।* * * * * नाभिर्ना मणिराणिरणिर्द्वयोः ॥ ७९ ॥
2.3.79 · p. 261
अनुष्टुप्metre not read in every line
अक्षाग्रकीलकेऽथास्त्री वरूथो रथगुप्तिका ।युगंधरः कूबरोऽस्त्री वरूथश्च निषङ्गथिः ॥ ८० ॥
2.3.80 · p. 261
अनुष्टुप्
युगं द्वितीयं प्रासङ्गो युगं त्वीशान्तबन्धनम् ।अनुकर्षो दार्वधःस्थं शम्या स्त्री युगकीलकः ॥ ८१ ॥
2.3.81 · p. 261
अनुष्टुप्
अपस्करो रथाङ्गं स्यान्नभ्योऽक्षो नाभये हितः ।सर्वं स्याद्वाहनं बाह्यं वह्यं पत्रं च धोरणम् ॥ ८२ ॥
2.3.82 · p. 261
अनुष्टुप्
युग्मं यानं तु न स्त्री स्यादथ वै[118b]नीतकोऽस्त्रियाम् ।परंपरावाहनेऽथ राजार्हं राजवाहनम् ॥ ८३ ॥
2.3.83 · p. 261
metre not recognised
पादाति-पत्ति-पदगाः पदिकः पद्ग-पच्चरौ ॥ ८४ ॥
2.3.84 · p. 261
पदातिकः पदाजिश्च पादातश्च पदातिवत् ।पादातिकश्चाथ भवेत्पादातं पत्तिसंहतिः ॥ ८५ ॥
2.3.85 · p. 261
अनुष्टुप्
शस्त्राजीवे काण्डपृष्ठा युधीयायुधिकाः समाः ।भटाः प्राहारिका युध्मा योधा योद्धार इत्यपि ॥ ८६ ॥
2.3.86 · p. 261
अनुष्टुप्
सेनारक्षाः सैनिकास्ते सेनायां मिलिता अमी ।सैन्याश्च सैनिका ये तु राजानं योधयन्त्यमी ॥ ८७ ॥
2.3.87 · p. 261
अनुष्टुप्
राजयुद्ध्वान उद्दिष्टा राजानं रचयन्ति ये ।स्युरे * * * * * * * [ आ ]हस्राः स्युः सहस्रिणः ।ये सहस्रेण युध्यन्ते धनुष्मन्तस्तु धन्विनः ॥ ८८ ॥
2.3.88 · p. 261
अनुष्टुप्metre not read in every line
धानुष्का अस्त्रिणो धन्वधराश्चैव निषङ्गिणः ।तूणिनः कृतहस्तस्तु कृतपुङ्खश्च यः शरम् ॥ ९० ॥
2.3.90 · p. 262
अनुष्टुप्
सुप्रयुङ्क्ते पराद्धेषुः *[पु]नर्लक्ष्य*[च्यु]ताशुगः ।लघुहस्तः शीघ्रवेधी दूरवेधी तु दूरतः ॥ ९१ ॥
2.3.91 · p. 262
अनुष्टुप्
लक्ष्यवेद्धा दूरपाती काण्डीरः काण्डवान्समौ ।प्रासिकः कौन्तिकस्तुल्यौ शाक्ती[119a]कः शक्तिहेतिकः ॥ ९२ ॥
2.3.92 · p. 262
metre not recognised
याष्टीक-पारस्वधिकौ यष्टिस्वधितिहेतिकौ ।नैस्त्रिंशिकस्त्वासिकः स्याच्चाक्रिकश्चक्रहेतिकः ॥ ९३ ॥
2.3.93 · p. 262
अनुष्टुप्
वर्मी फलकपाणिः स्यात्पताकी वैजयन्तिकः ।परिधिस्थः परिचरश्चामरी रौमगुच्छिकः ॥ ९४ ॥
2.3.94 · p. 262
अनुष्टुप्
सहकृत्वा सहायः स्यादनुगाम्यप्यनुप्लवः ।भवेदनुचरश्चाभिसरः पत्त्यादयस्त्रिषु ॥ ९५ ॥
2.3.95 · p. 262
अनुष्टुप्
साहायकं तु साहाय्यं समूहे तु सहायता ।पुरोगमः पुरोगः स्यात्पुरोगामी पुरःसरः ॥ ९६ ॥
2.3.96 · p. 262
अनुष्टुप्
प्रष्ठाग्रतःसरावग्रेसर उक्तः प्रतिष्कशः ।सव्यसाची तु वामेन बाहुनापि शरं क्षिपन् ।आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ॥ ९७ ॥
2.3.97 · p. 262
अनुष्टुप्
स्याद्व्यूढकङ्कटः सज्जो वर्मितौ दंशितश्च सः ।संनद्धश्च पुरोगाद्या एते स्युर्भेद्यलिङ्गकाः ॥ ९८ ॥
2.3.98 · p. 262
अनुष्टुप्
समूहे स्यात्कवचिनां क्लीबे कावचिकं तथा ।अधिकाङ्गोऽस्त्रियां सारसनं हृदि स [119b] कञ्चुकैः ।ध्रियते यत्तनुत्रं तु वर्मं वर्म च दंशनम् ॥ ९९ ॥
2.3.99 · p. 262
अनुष्टुप्metre not read in every line
उरश्छदः कङ्कटको जगरो दंश इत्यपि ।संनाहः कवचो न स्त्री माठिर्माठी स्त्रियामुमे ॥ २०० ॥
2.3.200 · p. 262
अनुष्टुप्
शिरस्त्राणं शिरस्कं च शीर्षण्यं शीर्षकं च तत् ।नागोदमुदरत्राणं जङ्घात्राणं तु मत्कुणम् ॥ १ ॥
2.3.1 · p. 263
अनुष्टुप्
बाहुत्राणं बाहुलं स्याज्जालिका त्वङ्गरक्षिणी ।जालप्रायाऽऽयसी चाथ क्षेयः क्षेतव्यमात्रकः ॥ २ ॥
2.3.2 · p. 263
अनुष्टुप्
क्षय्यस्तु शक्यः क्षेतुं यो जेयो जेतव्यमात्रके ।जय्यस्तु शक्यो जेतुं यो जिष्णुर्जेता च जित्वरः ॥ ३ ॥
2.3.3 · p. 263
अनुष्टुप्
जैत्रोऽथ धर्मविजयी संतुष्येत्सेवयैव यः ।द्रव्येण त्वर्थविजयी स्यात्त्वसुरविजय्यसौ ॥प्राणोपघाती भूकामोऽथोर्जस्व्यूर्जस्वलः समौ ।स्यादुरस्वानुरसिलो यस्य व्यूढमुरो भवेत् ॥ ४ ॥
2.3.4 · p. 263
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 त्त्व (wrong syllable)
शूरः सूरश्चारभटो वीरो विक्रान्त इत्यपि ।भडिलौजसिकौ यस्तु याति विद्विषतः प्रति ॥ ५ ॥
2.3.5 · p. 263
अनुष्टुप्
सोऽभ्यमित्रीयोऽप्यभ्यमि[120a]त्रीण इत्यपि ।सांयुगीनो रणे साधुः संग्रामाय तु यः प्रभुः ॥ ६ ॥
2.3.6 · p. 263
अनुष्टुप्metre not read in every line
भवेत्सांग्रामिकः सोऽथ जितकाशी जिताहवः ।गेहेनर्द्दी गेहेशूरः क्षेपाद्याः स्युस्त्रिलिङ्गकाः ॥ ७ ॥
2.3.7 · p. 263
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 गे (wrong syllable)
ध्वजिनी वाहिनी सेनानीकिनी च पताकिनी ।वरूथिनी च पृतना चमु-चम्वौ स्त्रियौ बलम् ॥ ८ ॥
2.3.8 · p. 263
अनुष्टुप्
तन्त्रं सैन्यं च कटकं चक्रं चाविकमस्त्रियाम् ।स्कन्धावारोऽपि दण्डोऽथ व्यूहो विन्यसनं पृतः ॥ ९ ॥
2.3.9 · p. 263
अनुष्टुप्
दण्डादयो व्यूहभेदाश्चक्रव्यूहादयोऽपरे ।प्रत्यासारो व्यूहपार्ष्णिः सैन्यपृष्ठे प्रतिग्रहः ॥ १० ॥
2.3.10 · p. 263
अनुष्टुप्
एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका ।पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरम् ॥ ११ ॥
2.3.11 · p. 264
अनुष्टुप्
सेनामुखं गुल्म-गणौ वाहिनी पृतना चमुः ।अनीकिनी दशानीकिन्यक्षौहिण्युच्यते बुधैः ॥ १२ ॥
2.3.12 · p. 264
अनुष्टुप्