शबल
śabalaवि · adj.In 15 kośas: 15 synonym verses, 1 as a nānārtha head word, 13 as a meaning of another word.
रक्तश्यामे पुनर्धूम्रधूमलावथ कर्बुरः ।किर्मीर एतः शबलश्चित्रकल्माषचित्रलाः ॥ १३९८ ॥
अनुष्टुप्
genderविadj.
चित्रं किर्मीरकल्माषशबलैताश्च कर्बुरे ।गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
पिङ्गः पिशङ्ग इत्युक्तो बभ्रुः कपिलः पिङ्गलः ।सारङ्गः शबलो वर्णः कल्माषः कृष्णपाण्डुरः ॥ ७३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 लः (wrong syllable)
genderविadj.
चित्रकिर्मीरकल्माषशबलोन्मिश्रकर्बुराः ।करम्बः कवरः शारः सम्पृक्तः खचितः समाः ॥ ७४१ ॥
अनुष्टुप्
genderविadj.
एतकल्माषशबलकिर्मीराश्चित्रलः पुनः ।गुणे शुक्लादिकाः पुंसि गुणिलिङ्गास्तु तद्वति ॥ १६८ ॥
अनुष्टुप्
genderविadj.
चित्रल एतः शबलः कर्बुर-किर्मीर-कल्माषाः ।स्यात्सारङ्गश्चित्रः शार-करम्बौ तथा कबरः ॥ ३९ ॥
metre not recognised
genderविadj.
मण्यं मणिकं शबलमनर्घं जीवरत्नकम् ।दाक्षायणं रत्नवरं तत्तु जम्बूनदीभवम् ॥ २३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 णि (wrong syllable)
genderक्लीneut.
रामायणप्रसिद्धायां पुल्लिँङ्गस्तु महेश्वरे ।नपुंसकं तु सलिले शबलस्तु नृलिङ्गकः ॥ १७६४ ॥
अनुष्टुप्
genderपुंmasc.
कल्माषशबलौ चित्रकिर्मीरौ चित्रलश्च सः ।[49] ध्वनिः स्वानो रवो नादः शब्दो निर्घोषनिःस्वनौ ॥ २९२ ॥
अनुष्टुप्
genderविadj.
स्वरुः शम्भो भिदुर्वज्रं दम्भोलिर्भिदुरं पविः ।पवी झरी गिरी(रि?) कण्ठो(ण्टो?) व्याधावः शबलोऽक्षजः ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
कडारः कपिशः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ।चित्रकिर्मीरकल्माषशबलैतास्तु कर्बुरे ॥ १५५ ॥
अनुष्टुप्
genderविadj.
अपावर्तश्च लुठितः परावृत्ते मुहुर्भुवि ।रथे तु स्यन्दनो रामः शताङ्गः शबलोऽपि च ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
एतः कर्मीरकिर्मीरौ पनश्च शबलो भवेत् ।श्वेताच्छबलपर्यन्तं सर्वे शब्दाश्च पुंसि स्युः ॥ २५३९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 सि (wrong syllable)
genderपुंmasc.
शबलोऽथ गुणाः पुंसि गुणिनस्तद्वति त्रिषु ।एतैनी सैव सारङ्गी कल्माषी कर्बुरा च सा ॥ ८९१ ॥
अनुष्टुप्
genderविadj.
तारावतारकिर्मीरशबलैतास्तु चित्रके ।स चान्योन्यानवष्टंभान्नानावर्णसमुन्नयः ॥ २३ ॥
अनुष्टुप्
genderविadj.
चित्रवर्णवृषे चित्रवर्णे च त्रि तु तद्वति ।शवली तु स्त्रियां चित्रवर्णगव्यामथ द्वयोः ॥ १७६५ ॥
अनुष्टुप्
doubtful
शबल as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् सारङ्गचातके हरिणे पुंसि सारङ्गः शबले त्रिषु ॥ २३ ॥ Amarakośa 3.3.23
- धरणिकोश शारमरू पर्वतधन्वानौ शारौ शबलमारु[77]तौ । खरः स्याद्गर्दभे तीक्ष्णे चौरश्चोरसुगन्धयोः ॥ Dharaṇikośa 26.1.3
- कोषकल्पतरु सारङ्गसारङ्गो नरि हरिणे नभोम्बुपे च । रोलम्बे करिणि खगान्तरे प्रदीपे । त्रय्यां स्यादिह शबले कणारसे तु नारङ्गं त्रिषु यमजे सुखप्रिये ना ॥ २५ ॥ Koṣakalpataru 6.3.25
- कोषकल्पतरु शारअयानयीने च वराटके च स्यात्प्रासकेऽपि द्वितये च शारः । समीरणे ना शबले [बले] च द्रव्ये तु चित्रे परवत्प्रदिष्टः ॥ १२ ॥ Koṣakalpataru 6.27.12
- कोषकल्पतरु शीकरविशेष्यवत्स्याच्छबलेऽथ कीर्ण- पुष्पादिषु स्यात्प्रकरो गणेऽपि । स्याच्चत्वरेऽस्त्री किल जोङ्गकेऽन्त्ये ऽथो विस्तरो विस्तरणे पदानाम् ॥ ९८ ॥ Koṣakalpataru 6.27.98
- कोषकल्पतरु कर्बुरस्त्री कृष्णवृन्तासु जले तु षण्ढे तथा सुवर्णे शबलेऽन्यवत्स्यात् । स्यात्कर्परः शस्त्रविशेषवाची न स्त्री कपालेऽपि[54b]कटाहके च ॥ १९ ॥ Koṣakalpataru 6.27.19
- नानार्थार्णवसंक्षेप रामशुक्ले कृष्णे वररुचिस्त्वाहामुं शबलेऽथ सः । वाच्यलिङ्गः शुक्लकृष्णशबलेषु गुणिष्वसौ ॥ १०९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1098
- नानार्थार्णवसंक्षेप कर्वरसतृणाभ्यवहारी तु रभसः शबले त्रिषु । कर्वरी तु स्त्रियां भूमौ शिवायां चाथ कच्छपः ॥ ३८४ ॥ Nānārthārṇavasaṃkṣepa 4.384
- नानार्थार्णवसंक्षेप कुल्माषसूपभक्ते परेऽन्ये तु विदले क्ली तु काञ्चिके । कुल्माषः पक्कमुद्गादिपिण्डे ना शबलाह्वये ॥ ५२० ॥ Nānārthārṇavasaṃkṣepa 4.520
- शब्दरत्नावली कर्वुरशबले वाच्यलिङ्गं स्यात्कृष्णवृन्तासु स्त्रियाम् । कर्परः स्यात्कटाहे च कपालशस्त्रभेदयोः ॥ कन्धरः स्याज्जलधरे ग्रीवायां कन्धरा स्त्रियाम् । कञ्जारो भास्करे कुक्षौ मुनौ वेधसि वारणे ॥ करीरो ना घटे वृक्षे तथा वंशाङ्कुरेऽस्त्रियाम् । करीरा चीरिकायां स्त्री दन्तमूले च हस्तिनाम् ॥ Śabdaratnāvalī 7.27.60
- त्रिकाण्डशेष कर्बुरभस्मकाचरसाः क्षाराः कारुः कारकशिल्पिनोः । कर्बुरो राक्षसे पापे कर्बुरं शबले जले ॥ ३३६ ॥ Trikāṇḍaśeṣa 3.3.336
- त्रिकाण्डशेष किर्म्मीरकट्वरं कुत्सिते तक्रे किर्म्मीरौ शबलासुरौ । कपाले च कटाहे च शस्त्रभेदे च कर्परः ॥ ३४२ ॥ Trikāṇḍaśeṣa 3.3.342
- वैजयन्ती शारशको विष्ठा पशूनां स्याद्देशे च गवये शकाः । शबले मारुते शारः शुद्धाः पूतार्ककेवलाः ॥ ९१ ॥ Vaijayantī 6.5.91