कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paryāyaśabdaratna

पर्यायशब्दरत्न Paryāyaśabdaratna

981 verses · 5,697 words tagged · 1,066 marked doubtful (dashed)

मध्यमलोकसर्गः (3/7)

लोभान्मिथ्याकल्पनायाश्चर्यायाश्चरणे मता ।कुहनेत्यथ व्रात्यः स्यात्कालसंस्कारवर्जिते ॥ २४१ ॥
2.241 · p. 55
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 थ (wrong syllable)
स्वाध्यायत्यागिनि परं गृहस्थे तु निराकृतिः ।धमध्वजी लिङ्गवृत्तिर्मिथ्यानुष्ठानलक्षणे ॥ २४२ ॥
2.242 · p. 55
अनुष्टुप्
त्यक्तव्रतेऽवकीर्णी स्यादनाचारक्रियापरः ।सूर्यास्तकाले यः सुप्तः सोऽभिनिर्मुक्त इष्यते ॥ २४३ ॥
2.243 · p. 55
अनुष्टुप्
सूर्योदये यः सुप्तस्तस्मिन्नभ्युदितः स्मृतः ।ज्येष्ठेऽकृतविवाहे तु परिवेत्ता विवाहितः ॥ २४४ ॥
2.244 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ये (syllables merged)
परिवृत्तिस्तु तज्ज्येष्ठे विवाहो पाणिपीडनम् ।उपयामश्चोपयमश्चोद्वाहेऽपि विवाहनम् ॥ २४५ ॥
2.245 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चो (wrong syllable)
मैथुने तु व्यवायः स्याद्ग्राम्यधर्म इति द्वयम् ।निर्बन्धवर्तमानोक्तपुरुषार्थचतुष्टये ॥ २४६ ॥
2.246 · p. 56
अनुष्टुप्
चतुर्भद्रमिति प्रोक्तं भाद्रमित्यपि दृश्यते ।वरमित्रेषु जन्याः स्युर्यायजूका इति द्वयम् ॥ २४७ ॥
2.247 · p. 56
अनुष्टुप्
राजन्यः क्षत्रिये प्रोक्तो राज्ञि स्यात्तु महीक्षितः ।प्रणताशेषसामन्तराज्ञि प्रोक्तस्त्वधीश्वरः ॥ २४८ ॥
2.248 · p. 56
अनुष्टुप्
सार्वभौमश्चक्रवर्ती सर्वभूमीश्वरे स्मृतौ ।एकदेशाधिनाथे तु मण्डलेश्वर इष्यते ॥ २४९ ॥
2.249 · p. 56
अनुष्टुप्
राजसूयक्रियायुक्ते सम्राडिति समाहितः ।राजन्यकं क्षत्रियाणां नृपाणां राजकं व्रजे ॥ २५० ॥
2.250 · p. 56
अनुष्टुप्
बुद्धिप्रदायकेऽमात्यो मन्त्री धीसचिवोऽपि च ।स्यात्कर्मसचिवः कार्यव्यापारव्यवहारकः ॥ २५१ ॥
2.251 · p. 56
अनुष्टुप्
मुख्यामात्ये महामात्यः प्रधानीति च(नोऽपि च?) कथ्यते ।व्यापारदर्शके विप्रे प्राड्विवाकोऽक्षदर्शकः ॥ २५२ ॥
2.252 · p. 57
अनुष्टुप्
द्वारपाले प्रतीहारो द्वाःथो द्वाःस्थितदर्शकौ ।रक्षिवर्गोऽप्यनीकस्थो राजरक्षकपूरुषे ॥ २५३ ॥
2.253 · p. 57
अनुष्टुप्
स्थायि(यु?)कः स्थलकश्च स्यादेकग्रामाधिकारिणि ।गोपश्च गोपकश्चापि बहुग्रामाधिकारिणि ॥ २५४ ॥
2.254 · p. 57
अनुष्टुप्
भौरिकः कनकाध्यक्षे रूप्याध्यक्षे तु नैष्किकः ।स्यादन्तर्वंशिकश्चान्तःपुरे चाधिकृतः स्मृतः ॥ २५५ ॥
2.255 · p. 57
अनुष्टुप्
राजस्त्रीरक्षणार्थायाधिकृते राजवेश्मनि ।सौविदल्लः सौविदश्च कञ्चुकी चापि कथ्यते ॥ २५६ ॥
2.256 · p. 57
अनुष्टुप्
नपुंसके सौविदल्ले षण्डो वषवरोऽपि च ।वर्षहारी वर्षधरो धर्षवर्षोऽपि कथ्यते ॥ २५७ ॥
2.257 · p. 57
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 व (wrong syllable)
धर्षमायी धषधरो वर्षधर्षोऽपि सम्मतः ।मन्त्रिमुख्येषु कथितः सेवकोऽप्यनुजीवनः ॥ २५८ ॥
2.258 · p. 57
अनुष्टुप्
स्वदेशानन्तरः शत्रुस्ततो मित्रं ततः परः ।उदासीनः पृष्ठतस्तु पार्ष्णिग्राहीति कथ्यते ॥ २५९ ॥
2.259 · p. 58
अनुष्टुप्
शत्रौ विपक्षो दस्युश्च द्विषन्द्वेषण इत्यपि ।अभियातिः परोऽरिश्च प्रत्यर्थी चाभियातिथिः(भिः?) ॥ २६० ॥
2.260 · p. 58
अनुष्टुप्
मित्रे वयस्यः सवयाः सखा च सुहृदित्यपि ।चारे यथार्हवर्णः स्यात्प्रणिधिः स्पश इत्यपि ॥ २६१ ॥
2.261 · p. 58
अनुष्टुप्
अपसर्पश्चरश्चारोऽगूढचारोऽपि दृश्यते ।आप्ते प्रत्ययितः प्रोक्तो ज्योतिःशास्त्रार्थवेदिनि ॥ २६२ ॥
2.262 · p. 58
अनुष्टुप्
कार्तान्तिको ज्यौतिषिको ज्ञानी सांवत्सरोऽपि च ।लेखके त्वक्षरचणो लिप्यां लेखिरितीष्यते ॥ २६३ ॥
2.263 · p. 58
अनुष्टुप्
पथिके पथिकः(लः?) पान्थोऽध्वनीनोऽध्वन्य इत्यपि ।पुरोहिताद्यभिप्रायपरीक्षकप्रकारके ॥ २६४ ॥
2.264 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्ष (wrong syllable)
धर्मकामभयार्थाद्यैरुपधेति प्रगीयते ।षडिन्द्रियाभावजनेऽषडक्षीण इतीष्यते ॥ २६५ ॥
2.265 · p. 58
अनुष्टुप्
मन्त्रालोचनदेशे तु विविक्तो विजनोऽपि च ।निःशलाकश्च छन्नश्च रहः सान्तोऽप्यलिङ्गकः ॥ २६६ ॥
2.266 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
उपांशु चाव्ययः शब्दो रहस्यं रहसि स्थितम् ।यथोक्तधर्मभ्रंशे तु भ्रेष इत्यभिधीयते ॥ २६७ ॥
2.267 · p. 59
अनुष्टुप्
यथोक्तधर्माभ्रंशे स्यादभ्रेषः सुकलोऽपि च ।न्यायः कल्पो देशरूपं समर्थनं समञ्जसम् ॥ २६८ ॥
2.268 · p. 59
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्थ (wrong syllable)
अभ्रष्टे भजमानं स्यादौपायिकमरन्दकम् ।अभिनीतं च नीतं च लभ्यं न्याय्यं महोत्तमम् ॥ २६९ ॥
2.269 · p. 59
अनुष्टुप्
श्रेयस्करं चेदमेवेत्यर्थसंपादके मता ।साधिता च समर्था च समाना संप्रघारणा ॥ २७० ॥
2.270 · p. 59
अनुष्टुप्
आज्ञायामवधानः(वादः?) स्यान्निर्देशः शिष्ट इत्यपि ।मर्यादायां स्थितिः संस्था धारणाथापराधने ॥ २७१ ॥
2.271 · p. 59
अनुष्टुप्
आगो मन्तुश्च बन्धे तूद्दानं बन्धनसन्धने ।प्रोक्तो द्विगुणदण्डे तु द्विपाद्यो द्विपदीति च ॥ २७२ ॥
2.272 · p. 59
अनुष्टुप्
राज्ञां क्षेत्रादिभागे तु भागधेयं बलिः करः ।नद्यादितरणादौ यद्द्रव्यं शुल्कं तदिष्यते ॥ २७३ ॥
2.273 · p. 59
अनुष्टुप्
नृपादिद्रष्टुकामेन दीयमानसुमादिके ।तत्प्राभृतं चोपग्राह्यमुपदा च प्रदेशनम् ॥ २७४ ॥
2.274 · p. 59
अनुष्टुप्
उपायनमुपालभ्यमुपहार उपालयः ।स्त्रीधने तु सुदायः स्याद्धरणं यौतकं मतम् ॥ २७५ ॥
2.275 · p. 60
अनुष्टुप्
भूतकाले तु भूतं स्यात्तदात्वं प्राकृते स्मृतम् ।भविष्यत्कालभेदे स्यादायतिर्नियतिस्तथा ॥ २७६ ॥
2.276 · p. 60
अनुष्टुप्
सान्दृष्टिकं तु तत्कालफलेऽथोदर्क औत्तरे ।अग्नितोयादिसंभूतभयोऽदृष्टं महीभुजाम् ॥ २७७ ॥
2.277 · p. 60
अनुष्टुप्
दृष्टं स्वस्य च शत्रोश्च सैन्यजातभये स्मृतम् ।स्वपक्षसंभूतभये राज्ञामहिभयं मतम् ॥ २७८ ॥
2.278 · p. 60
अनुष्टुप्
प्रक्रिया त्वधिकारे स्याच्चामरे तु प्रकीर्णकम् ।राजयोग्यं छत्रभेदे नृपलक्ष्म प्रकीर्त्यते ॥ २७९ ॥
2.279 · p. 60
अनुष्टुप्
भद्रकुम्भः पूर्णकुम्भो नृपद्वारपरे घटे ।गलन्तिकायां हैम्यायां भृङ्गारः पूर्णमानसः ॥ २८० ॥
2.280 · p. 60
अनुष्टुप्
संपूर्णसरसा साध्वी भीरा कनकवालुका ।शिबिरे संनिवेशः स्यान्निवेशो वेश इत्यपि ॥ २८१ ॥
2.281 · p. 60
अनुष्टुप्
तद्रक्षणार्थं परितः कृते सज्जनमिष्यते ।किञ्चोपलक्षणं लक्ष्यं लक्षणं रमणं तथा ॥ २८२ ॥
2.282 · p. 60
अनुष्टुप्
गजे स्तम्बेरमः पद्मी कुम्भी सिन्धुरसामजौ ।मदोत्कटे मदकरो यूथनाथे तु यूथपः ॥ २८३ ॥
2.283 · p. 61
अनुष्टुप्
पञ्चवर्षगजो बालः पोतस्तु दशवर्षकः ।त्रिंशद्वर्षस्तु कलभश्चतुर्दश इभेरमः ॥ २८४ ॥
2.284 · p. 61
अनुष्टुप्
स्यात्पञ्चदशवर्षे तु कपोतस्तदनन्तरे ।कुतपस्तत आमोदी ततः सरल इष्यते ॥ २८५ ॥
2.285 · p. 61
अनुष्टुप्
ततस्तु तुण्डी कलमस्तत इत्युच्यते बुधैः ।प्रभिन्नगर्जितौ मत्ते उद्वान्तो निर्मदोऽमदे ॥ २८६ ॥
2.286 · p. 61
अनुष्टुप्
हास्तिकं गजता वृन्दे धेनुका च वशा प्रिया ।कुम्भिमध्ये विदुः प्रोक्तो वमथुः करशीकरे ॥ २८७ ॥
2.287 · p. 61
अनुष्टुप्
विकिरोऽपि विदौ प्रोक्तः कर्णमूले तु चूलिका ।स्यात्कुम्भाधोभागदेशे वाहित्थं वाहनं मतम् ॥ २८८ ॥
2.288 · p. 61
अनुष्टुप्
वाहोत्थमप्यथ क्लीबे करीरं दन्तमूलके ।स्याद्दन्तकुम्भमध्ये तु प्रतिमानं च मानकम् ॥ २८९ ॥
2.289 · p. 61
अनुष्टुप्
करिपार्श्वे पक्षभागः पक्षो भागश्च सम्मतः ।स्यान्मातङ्गपुरोभागे दन्तभागः प्रकीर्तितः ॥ २९० ॥
2.290 · p. 62
अनुष्टुप्
गात्रं पश्चाद्देहभागे त्वपरं परिकीर्तितम् ।गजप्रतोदे तोत्रं स्यात्प्रतोदं वेणुकं तथा ॥ २९१ ॥
2.291 · p. 62
अनुष्टुप्
अङ्कुशे तु सृणिः प्रोक्तः शृङ्खले निगडोऽन्दुकः ।गजस्य सज्जीकरणे सज्जना कल्पना समे ॥ २९२ ॥
2.292 · p. 62
अनुष्टुप्
कुथे प्रवेण्यास्तरणं परिस्तोमः कुथापि च ।स्याद्वि(द्वी?)तं त्वबले दन्तिग्रहगर्ते तु वारि च ॥ २९३ ॥
2.293 · p. 62
अनुष्टुप्
अश्वे तु घोडको वाजी वीतिर्घोटकवाहकौ ।गन्धर्वः सैन्धवः सप्तिः करमः कमलो हरिः ॥ २९४ ॥
2.294 · p. 62
अनुष्टुप्
आनेया आजिनेयाश्च सत्कुलीनतुरंगमे ।देश्येषु बाह्लिकाः कन्दाः पारशीका वनायुजाः ॥ २९५ ॥
2.295 · p. 62
अनुष्टुप्
वानायुजाः पारशिकाः परिकाः कुटमाः समाः ।जवाधिके तु जवनो विनतः सुगुणान्विते ॥ २९६ ॥
2.296 · p. 62
अनुष्टुप्
अतिभारवहे स्थौरी पृष्ठ्यः पटुकलः पटुः ।कर्कः सिताश्वे नीलाश्वे कलमः कन्धरः शरः ॥ २९७ ॥
2.297 · p. 62
अनुष्टुप्
हरिदश्वे कलीनः स्यादरुणे कुटमङ्गलः ।नानावर्णविशिष्टे तु कदलः पनलोऽपि च ॥ २९८ ॥
2.298 · p. 63
अनुष्टुप्
रथ्यो रथवहो वोढा बलीयान्सुषमोऽपि च ।अश्वजातिस्त्रियामश्वा वामी वामा च बाडबा ॥ २९९ ॥
2.299 · p. 63
अनुष्टुप्
निगालस्तु गलोद्देशे कश्यं मध्यम इष्यते ।अश्वस्वने तु हेला च हेषा ह्रेषा च सम्मता ॥ ३०० ॥
2.300 · p. 63
अनुष्टुप्
अश्वानां तु गतिर्धारा विभिन्ना पञ्चधैव सा ।आस्कन्दिते परा प्रोक्ता चतुष्का रेचिते मता ॥ ३०१ ॥
2.301 · p. 63
अनुष्टुप्
पुला तु स्याद्धौरितके पूर्णवेगा प्लुते मता ।वल्गिते स्यान्मध्यजवा पञ्च ते तु नपुंसकाः ॥ ३०२ ॥
2.302 · p. 63
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्म (wrong syllable)
चतुष्का सुवला शाली बलाभा भादिनी तथा ।मालीत्यादिमहावेगगतिभेदा इतीरिताः ॥ ३०३ ॥
2.303 · p. 63
अनुष्टुप्
मुखावर्तो मलानः स्याद्गलावर्तो विचक्षणः ।श्रीवृक्षकी वत्सावर्तः कततः कतमोऽपि च ॥ ३०४ ॥
2.304 · p. 63
अनुष्टुप्
पृष्ठावर्तो जवो नाम्ना पुच्छावर्तोऽथ भासुरः ।पार्श्वावर्तः पादकः स्यात्पादावर्त इति स्मृतः ॥ ३०५ ॥
2.305 · p. 63
अनुष्टुप्
कविका कलिका खाली खलीनो मुखदामनि ।वालहस्ते वालधिश्च लाङ्गूले लोम कथ्यते ॥ ३०६ ॥
2.306 · p. 64
अनुष्टुप्
अपावर्तश्च लुठितः परावृत्ते मुहुर्भुवि ।रथे तु स्यन्दनो रामः शताङ्गः शबलोऽपि च ॥ ३०७ ॥
2.307 · p. 64
अनुष्टुप्
स तु पुष्यरथः प्रोक्तो यात्राद्युत्तमको रथः ।मनुष्यस्कन्धवाह्यो यः स तु कन्धर इष्यते ॥ ३०८ ॥
2.308 · p. 64
अनुष्टुप्
दमनं (डयनं?) स्यात्प्रवहणं तस्मिन्नेव प्रयोगितौ ।अनः क्लीबे तु शकटे चाल्पे तु बलिवाह्यकम् ॥ ३०९ ॥
2.309 · p. 64
अनुष्टुप्
कात्रं कम्बरि(ल?)वाह्यं च गन्त्री कम्बलिवाह्यकम् ।आन्दोलिकायां शिबिका याप्ययानं च सुन्दरम् ॥ ३१० ॥
2.310 · p. 64
अनुष्टुप्
दोला प्रेङ्खा दोलिनी च दोलायां दोलिका मता ।व्याघ्रचर्मावृते याने वय्यौ(या?)घ्रो द्वैप इत्यपि ॥ ३११ ॥
2.311 · p. 64
अनुष्टुप्
काम्बलो वास्त्र इत्यादिस्तदावृतरथे स्मृतः ।रथ्या च रथकट्या च रथबन्धेऽथ धूः स्मृता ॥ ३१२ ॥
2.312 · p. 64
अनुष्टुप्
यानस्थानेऽव(प?)स्करस्तु रथावयव इष्यते ।चक्रान्ते लोहवलये सर्वतो निहिते प्रधिः ॥ ३१३ ॥
2.313 · p. 64
अनुष्टुप्
नेमिश्च स्त्रीपुंसयोः स्यात्प्रधिः क्लीबे क्वचित्स्मृतः ।आरा च पिण्डिका चापि चक्रनाभौ प्रकीर्तितौ ॥ ३१४ ॥
2.314 · p. 65
अनुष्टुप्
चक्रान्तरालकाष्ठस्य त्वन्तरन्ध्रस्थकीलके ।अणिश्चाणिन आणिश्च प्राणिः प्राणश्च सम्मतः ॥ ३१५ ॥
2.315 · p. 65
अनुष्टुप्
वरूथो रथगुप्तिश्च चार्मगुप्तौ प्रकीर्तितौ ।अक्षाधःस्थेऽनुकर्षः स्यात्कूबरे तु युगंधरः ॥ ३१६ ॥
2.316 · p. 65
अनुष्टुप्
बलीवर्दादिकण्ठस्थरज्जौ प्रासङ्ग इष्यते ।यानं युग्यं कलानं च धोरणं धारणं तथा ॥ ३१७ ॥
2.317 · p. 65
अनुष्टुप्
पत्रं मनोज्ञं कालिन्दं कञ्जनं कमलं तथा ।फलदादिकशब्दाः स्युः सर्ववाहनवाचकाः ॥ ३१८ ॥
2.318 · p. 65
अनुष्टुप्
वैनीतकं वैनितकं विनीतहयवृन्दके ।आधोरणे हस्तिपको हस्त्यारोहो निषादकः ॥ ३१९ ॥
2.319 · p. 65
अनुष्टुप्
सारथौ प्राजिता यन्ता नियन्ताशनतापलिः ।सव्येष्ठो दक्षिणस्थश्च क्षत्ता वित्ता च सारथिः ॥ ३२० ॥
2.320 · p. 65
अनुष्टुप्
अश्वारोहे तु सादी स्यात्सादः षद इति त्रयम् ।भटे योद्धा च योधश्च सेनानाथे तु सैनिकः ॥ ३२१ ॥
2.321 · p. 65
अनुष्टुप्
सैनिके सैनिकः सैन्या सैनी सेनीति च स्मृतः ।बलिनो ये सहस्रेण सहस्राश्च सहस्रिणः ॥ ३२२ ॥
2.322 · p. 66
अनुष्टुप्
परिधिस्थः परिचरः सेनाप्रत्यन्तरक्षके ।कूर्पासे वारवाणः स्यात्कञ्चुकः सुपटः परुः ॥ ३२३ ॥
2.323 · p. 66
अनुष्टुप्
कञ्चुकोपरिसंबद्धपट्टसूत्रेऽधिकाङ्गकः ।अधिकाङ्गः सारसनं दृढं प्रबलमित्यपि ॥ ३२४ ॥
2.324 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
कवचे शीषर्कं शीर्षं शीर्षण्यं शीर्षणं तथा ।शिरस्त्रं च शिरस्त्राणं तनुत्रं वर्म शर्म च ॥ ३२५ ॥
2.325 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
दंशनं कङ्कटो भेदी मूलच्छायी पुलातकः ।पिनद्धे प्रतिमुक्तः स्यादामुक्तो मुक्त एव च ॥ ३२६ ॥
2.326 · p. 66
अनुष्टुप्
उरस्त्राणयुते सज्जः संनद्धो दंशितोऽपि च ।विरद्धो बद्धितो लेटी वर्मितो व्यूढकङ्कटः ॥ ३२७ ॥
2.327 · p. 66
अनुष्टुप्
स्मृतं कावचिकं वर्मभृद्वृन्दे परिकीर्तितम् ।पदातौ पत्तिपदगपदातिग(क?)पदाजयः ॥ ३२८ ॥
2.328 · p. 66
अनुष्टुप्
पद्गश्चाप्यथ पादातं पत्तिवृन्दे प्रकीर्तितम् ।स्याच्छस्त्रजीवके घोटी काण्डपृष्ठः प्रतापवान् ॥ ३२९ ॥
2.329 · p. 66
अनुष्टुप्
आयुधीयोऽप्यायुधिकोऽप्यायुधीकश्च सम्मतः ।लब्धलक्षे तु लक्षी स्यात्कृतपुङ्खेः कृताशुगः ॥ ३३० ॥
2.330 · p. 67
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्या (wrong syllable)
सुप्रयोगशरः साटी कृतहस्तो विलक्षणः ।बाणयुक्ते तु काण्डीरः काण्डवान्काण्डिकोऽपि च ॥ ३३१ ॥
2.331 · p. 67
अनुष्टुप्
शक्त्यायुधधरे शक्तिहेतिकः शाक्तिकोऽपि च ।लगुडादिधरे याष्टी याष्टि(ष्टी?)को यष्टिवर्धनः ॥ ३३२ ॥
2.332 · p. 67
अनुष्टुप्
स्यात्पारश्वधिकः पाशी परश्वायुधधारके ।नैस्त्रिंशिकः खड्गधरे प्रासिकः प्राससंयुते ॥ ३३३ ॥
2.333 · p. 67
अनुष्टुप्
कुन्तायुधे कौन्तिकः स्यात्कौन्तेयः कुन्तलोऽपि च ।पताकाधारके सैन्ये वैजयन्तिक इष्यते ॥ ३३४ ॥
2.334 · p. 67
अनुष्टुप्
अथ प्रोक्तस्त्वनुचरेऽभिचरोऽनुप्लवो वशी ।सहायश्च पुरोगे तु प्रतिष्ठश्च पुरःसरः ॥ ३३५ ॥
2.335 · p. 67
अनुष्टुप्
अतिवेगगतौ दीर्घजङ्घालो जाङ्घिकोऽपि च ।केचिच्चारे जाङ्घिकः स्याज्जङ्घाकरिक इत्यपि ॥ ३३६ ॥
2.336 · p. 67
अनुष्टुप्
वेगयुक्ते तु जवनो जवो जवनकोऽपि च ।तरस्वी त्वरितो वेगी प्रजवी च जवीति च ॥ ३३७ ॥
2.337 · p. 68
अनुष्टुप्
अथ जेतरि जैत्रः स्याज्जेतव्ये जेय इष्यते ।शत्रोरभिमुखे तु स्यादभ्यमित्रीण इत्यपि ॥ ३३८ ॥
2.338 · p. 68
अनुष्टुप्
अभ्यमित्र्योऽभ्यमित्रीयो आज्यमित्रोऽपि तादृशः ।ऊर्जस्वलोर्जस्विनौ तौ बलातिशयसंयुते ॥ ३३९ ॥
2.339 · p. 68
अनुष्टुप्
उरोबलयुते तु स्यादुरस्वानुरसी(सि?)लकः ।रथिको रथिरो राथी रथविद्याविशारदे ॥ ३४० ॥
2.340 · p. 68
अनुष्टुप्
युद्धे यथेष्टसंस्थे स्यादनुगामिविशारदौ ।शत्रूनभिमुखो गच्छेत्तस्मिन्नत्यन्तिनः स्मृतः ॥ ३४१ ॥
2.341 · p. 68
अनुष्टुप्
शूरे वी(धी?)रश्च विक्रान्तो वीरवीर(?)ण्यवीरकाः ।जयैकशीले जिष्णुः स्याज्जेता जित्वर इत्यपि ॥ ३४२ ॥
2.342 · p. 68
अनुष्टुप्
सांयुगीनो युद्धशौण्डे शालीनस्तद्विरुद्धके ।हस्तिवृन्दे तु बाडा स्यादनीको हयसंहतौ ॥ ३४३ ॥
2.343 · p. 68
अनुष्टुप्
रथपूगे तु रालः स्यात्पत्तिसङ्घे तु कूटकः ।चतुरङ्गबलौघे तु ध्वजिनी वाहिनी चमूः ॥ ३४४ ॥
2.344 · p. 69
अनुष्टुप्
अनीकिनी बलं सन्यमनीकं च वरूथिनी ।अनेकवस्तुरूपेण विन्यस्ते व्यूह इष्यते ॥ ३४५ ॥
2.345 · p. 69
अनुष्टुप्
एकेभैकरथा त्र्यश्वा पटुपञ्चपदातिगा ।संख्याविद्भिः समाख्याता पत्तिः पत्तीति पत्रिका ॥ ३४६ ॥
2.346 · p. 69
अनुष्टुप्
एकेभैकरथानां च त्रितयं नव वाजिनाम् ।सेनामुखं स्मृतं यत्र भटानां दश पञ्च च ॥ ३४७ ॥
2.347 · p. 69
अनुष्टुप्
नवेभानां रथानां च हयानां सप्तविंशतिः ।गुल्मः प्रोक्तो भटानां तु चत्वारिंशच्च पञ्च च ॥ ३४८ ॥
2.348 · p. 69
अनुष्टुप्
एकाशीतिस्तुरङ्गाणां रथेभाः सप्तविंशतिः ।गणः प्रोक्तो भटानां तु शतं त्रिंशच्च पञ्च च ॥ ३४९ ॥
2.349 · p. 69
अनुष्टुप्
एकाशीतिरथेभाश्च भटाः पञ्च चतुःशतम् ।चत्वारिंशत्त्रयोऽश्वानां द्विशतं वाहिनी मता ॥ ३५० ॥
2.350 · p. 69
अनुष्टुप्
चत्वारिंशत्त्रयो नागाः द्विशतं च रथास्तथा ।पृतना सा सतशतिर्हयानां विंशतिर्नव ॥ ३५१ ॥
2.351 · p. 69
अनुष्टुप्
सहस्रं द्विशतं पञ्च दश पद्गा मनीषिभिः ।शतसंख्या हयादीनां सङ्घे बलमितीष्यते ॥ ३५२ ॥
2.352 · p. 70
अनुष्टुप्
द्विसहस्रं शतं सप्ताशीतिर्वाजिकुलस्य च ।रथाश्वेभाः सप्तशतिर्विंशतिर्नव यत्र सा ॥ ३५३ ॥
2.353 · p. 70
अनुष्टुप्
त्रिसहस्रं षट्शतकं चत्वारिंशच्च पञ्च च ।पदातीनां चमूर्ज्ञेया सैन्यसंख्या विचक्षणैः ॥ ३५४ ॥
2.354 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
एवं बहुविधाः संख्याभेदा ज्ञेया मनीषिभिः ।संपत्तिः सम्पदि ज्ञेया विपत्तिर्विपदि स्मृता ॥ ३५५ ॥
2.355 · p. 70
अनुष्टुप्
आयुधेऽस्त्रं च शस्त्रं च हरं प्रहरणं तथा ।धनुर्धनुश्च चापश्च कथितौ पुंनपुंसकौ ॥ ३५६ ॥
2.356 · p. 70
अनुष्टुप्
धन्व धन्वा धन्वमपि चपं चापि चपोऽपि च ।इष्वासोऽप्यषुक(?)श्चैव चापे धाटनिरिष्यते ॥ ३५७ ॥
2.357 · p. 70
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ध (wrong syllable)
अटनिश्चाटनी चापि मौर्वीबन्धस्थले स्मृताः ।गोधा तलं च ज्याघातवारणे त्वग्विशेषके ॥ ३५८ ॥
2.358 · p. 70
अनुष्टुप्
धनुर्मध्ये लस्तकः स्यान्मौर्व्यां ज्या सिञ्जिनी गुणः ।गुणमध्ये तु जाणिश्च कीलकश्च किदालकः ॥ ३५९ ॥
2.359 · p. 71
अनुष्टुप्
प्रत्यालीढं मण्डलं चाप्यालीढं शाखमित्यपि ।समपादं चेति पञ्च स्थानभेदा इतीरिताः ॥ ३६० ॥
2.360 · p. 71
अनुष्टुप्