कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

राम

rāmaपुं · masc.

In 22 kośas: 53 synonym verses, 14 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवकाण्डः Abhidhānacintāmaṇi 2.138 · p. 13
रामो हली मुसलिसात्त्वतकामपालाः संकर्षणः प्रियमधुर्बलरौहिणेयौ ।रुक्मिप्रलम्बयमुनाभिदनन्तताललक्ष्मैककुण्डलसितासितरेवतीशाः ॥ २२४ ॥बलदेवो बलभद्रो नीलवस्त्रोऽच्युताग्रजः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.698 · p. 29
अचलो विजयो भद्रः सुप्रभश्च सुदर्शनः ।आनन्दो नन्दनः पद्मो रामो विष्णुद्विषस्त्वमी ॥ ६९८ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.703 · p. 29
कौशल्यानन्दनो दाशरथी रामोऽस्य तु प्रिया ।वैदेही मैथिली सीता जानकी धरणीसुता ॥ ७०३ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.848 · p. 34
जामदग्न्यस्तु रामः स्याद्भार्गवो रेणुकासुतः ॥ ८४८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1397 · p. 53
अरुणो बालसंध्याभः पीतरक्तस्तु पिञ्जरः ।कपिलः पिङ्गलः श्यावः पिशङ्गः कपिशो हरिः ॥ १३९६ ॥बभ्रुः कद्रुः कडारश्च पिङ्गे कृष्णस्तु मेचकः ।स्याद्रामः श्यामलः श्यामः कालो नीलोऽसितः शितिः ॥ १३९७ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह स्वर्गवर्गः Amarakośa 1.1.24
बलभद्रः प्रलम्बघ्नो बलदेवोऽच्युताग्रजः ।रेवतीरमणो रामः कामपालो हलायुधः ॥ २३ ॥नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली ।सङ्कर्षणः सीरपाणिः कालिन्दीभेदनो बलः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.11
कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः ।गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः ॥ १० ॥गन्धर्वः शरभो रामः सृमरो गवयः शशः ।इत्यादयो मृगेन्द्राद्या गवाद्याः पशुजातयः ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.29 · p. 4
सङ्कर्षणो रौहिणेयः कालिन्दीकर्षणो बलः ।रेवतीरमणो रामः कामपालो हलायुधः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.734 · p. 84
असितं शिति कृष्णं च कालं नीलं च मेचकम् ।श्यामं तु श्यामलं रामं पालाशं हरितं हरित् ॥ ७३४ ॥
अनुष्टुप्
genderविadj.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 67 · p. 6
आरोहिणी कृशाङ्गीति वरटा गर्भिणी स्मृता ।शुके रामः सुन्दराङ्गः सुनाशीर इतीर्यते ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
गणितनाममाला Gaṇitanāmamālā · हरदत्त एकाद्यङ्कानां सञ्ज्ञा Gaṇitanāmamālā 3.21 · p. 2
कृशानुगुणरामाग्निपावकानलवह्नयः ।हुताशनास्त्रयास्तिस्रः प्रोक्ताश्च शिखिना बुधैः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.12 · p. 9
राघवो जानकीकान्तो रामो रावणसूदनः ।अग्रजन्मा दाशरथिः साकेतनिलयो हरिः ॥ १२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.18 · p. 9
द्युपदः सर्वतोभद्रो रामः परशुभृत्कविः ।रामः सङ्कर्षणः पौरो बलदेवो हलायुधः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.21 · p. 9
शैनिः कंसरिपुः शौरिः सारथिस्त्वस्य दारुकः ।प्रद्युम्नो मन्मथः कामो रामो मनसिजः स्मरः ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.100 · p. 225
सुन्दरं रुचिरं चारु कान्तं वल्गु च पेशलम् ।अभिरामं रामवामे मञ्जुलं मञ्जु पेसलम् ॥ १०० ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.2 · p. 317
लण्डिलश्चोर्ध्वनयनो रामोष्टापद इत्यपि ।महाशृङ्गी मनस्वी च मृगेन्द्रश्चतुरूर्ध्वपात् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.34 · p. 321
तेनासौ शम्बरादन्योऽथो रामः पुरुषप्रभः ।विकटोग्रबद्धशृङ्गो महाशृङ्गो वनप्रियः ॥ ३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग्र (wrong syllable)
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.95 · p. 354
स तु राजीवसंज्ञः स्याद्यस्त्रिरेखासमन्वितः ।शिलीन्ध्रः कचघो रामो दण्डारिः पाकमत्स्यकः ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.163 · p. 435
शितिः कालो मेचकोऽपि रामश्च मिश्रवर्णके ।कपोताभः कपोतोऽथ पीतः पीतल इत्यपि ॥ १६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.13 · p. 452
न्यक्षः परशुरामोऽपि रामः शंकरशैक्षकः ।क्षत्रियारिः पर्शुरामो रामस्तु रघुनन्दनः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव यज्ञादिप्रकाण्डः Kalpadrukośa 3.3.34 · p. 455
कृष्णाग्रजो बलभद्रो बलो रामः सितासितः ।प्रलम्बरुक्मिद्विविदहन्ता कामार्थपालकः ॥ ३४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.39 · p. 11
जामदग्न्यः क्षत्रकालः शम्भुशिष्योऽर्जुनान्तकः ।तक्षः परशुरामश्च रामः स्यात्पर्शुरामवत् ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्वर्गवर्गः Koṣakalpataru 1.2.44 · p. 12
बलि-बल-बलभद्र-कामपाल-प्रियमधु-सात्वत-राम-रेवतीशाः ।मधुमथन-पुरोज-नीलवासो-मुसलि-हलायुध-सीरपाण्यनन्ताः ॥ ४४ ॥
पुष्पिताग्रा
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.30 · p. 56
पालाशो हरित-हरित्-पलाश-पीत-नीलाः स्युः स च हरितालसंनिभोऽपि ।श्या[36b]म-श्यामल-शिति-काल-कृष्ण-रामाःनीलोऽस्त्री त्वसित इहास्ति मेचकोऽपि ॥ ३० ॥
प्रहर्षिणीmetre not read in every linenearly प्रहर्षिणी
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.20 · p. 169
किञ्जल्कं च कुवेरं च रामं वानीरजं च तत् ।त्रायन्ती त्रायमाणार्द्रा पालिनी भयनाशिनी ॥ २० ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.39 · p. 192
सिंहादीनां स्त्रियां जातौ सिंही व्याघ्री च शूकरी ।वानरी हरिणी च स्याच्छम्बरी गवयीति दिक् ॥कडंकरं त्वर्हति यः कडंग(क)र्यः स भेद्यवत् ।पशुः कडंग(क)रोऽपि स्याच्चारिः स्त्री पशुभोजनम् ॥मृगेन्द्राद्या गवाद्याश्च सर्वे स्युः पशुजातयः ।रोमन्थो ना पशूनां यद्भवेच्चर्वितचर्वणम् ॥स रोमन्थायमानो यो हनुना व[67a]र्तयत्यमुम् ।गन्धर्वः शरभो रामः सृमरो गवयः शशः ॥ ३९ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.230 · p. 126
कुष्ठे तु पाकलं रामं वानीरं वाप्यमुत्पलम् ।वानीरजं पारिभव्यं कौरवं व्याधिनामकम् ॥ २३० ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.18 · p. 8
रौहिणेयो बलो रामो रेवतीरमणो हली ।मुशली सात्वतः कामपालः प्रियमधुश्च सः ॥ १८ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.288 · p. 88
कापोतस्तु कपोताभः कालः कृष्णोऽसितः शितिः ।श्याममेचकरामास्तु नीलः श्यामलकः समौ ॥ २८८ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.333 · p. 143
कौशल्यानन्दनो रामस्तथा दाशरथिः स्मृतः ।मैथिली जान[78]की सीता वैदेही धरणीसुता ॥ ३३३ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.172 · p. 47
कम्बले रल्लकः प्रोक्तो रामको राम इत्यपि ।अधोंऽशुकेऽन्तरीयं स्यादुपसंव्यानमित्यपि ॥ १७२ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.307 · p. 64
अपावर्तश्च लुठितः परावृत्ते मुहुर्भुवि ।रथे तु स्यन्दनो रामः शताङ्गः शबलोऽपि च ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.37 · p. 127
अन्तरीपं तदन्तेऽपि द्वीपोऽस्त्री मण्डलं त्रयम् ।सामान्यसैकतखले रम्यं रामं मनोहरम् ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण स्वर्गादिलोकपालाधिकारः प्रथमस्सर्गः Śabdacandrikā 1.22 · p. 35
चन्द्रा हिरण्मयी कान्ता कान्तकान्तारवासिनी ।मदनो मन्मथो वामो रामो रजकवाहनः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.83 · p. 42
नीलो रामोऽञ्जनाभश्च कर्बुराद्यास्तु मिश्रिताः ।युग्मं द्वयं युगं द्वंद्वमुभयं युगलं द्वयी ॥ ८३ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.304 · p. 40
बलदेवो बलो रामः बलभद्रो बली हली ।प्रलापी कामपालश्च सात्वतोऽपि सितासितः ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1133 · p. 176
अचलो विजयो भद्रः सुप्रभोऽपि सुदर्शनः ।आनन्दो नन्दनश्चैव पद्मो रामस्तथा किल ॥ ११३३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1140 · p. 177
अर्जुनो दोः सहस्रभृद् कौशल्यानन्दनस्तु वै ।रामश्च रामचन्द्रश्च रामभद्रोऽपि मन्यते ॥ ११४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्र (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1416 · p. 223
रामः परशुरामश्च पर्शुरामश्च भार्गवः ।जामदग्न्यस्तथा रैणुकेयश्च रेणुकासुतः ॥ १४१६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2537 · p. 411
कृष्णः कालस्तथा नीलः श्यामश्च श्यामलोऽसितः ।शितिश्च मेचको रामो नव नामानि सन्ति वै ॥ २५३७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.44 · p. 4
स्यादेककुण्डलो रामो लाङ्गली मुष्टिकान्तकः ।कामः पञ्चशरो मारः प्रद्युम्नो मदनः स्मरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.60 · p. 5
अथ रामो रामचन्द्रः श्रीरामो रघुनन्दनः ।रामभद्रः खरध्वंसी दूषणारिः सनातनः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.4 · p. 163
रामञ्च रुचिरं रुच्यमभिरामञ्च नन्दितम् ।विज्ञेयमासेचनकमासेचनकमित्यपि ॥यस्य दर्शनतस्तृप्तेरन्तो नास्ति द्वयन्तु तत् ।दयितं वल्लभं हृद्यमभीष्टाभीप्सितप्रियम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.240 · p. 208
सर्वंदमः, सीतापतौ रामः स्याद्रामचन्द्रवत् ।रामभद्रोऽपि, सौमित्रौ लक्ष्मणो लक्षणान्वितः ॥ २४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ता (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.309 · p. 214
मैत्रावरुणिः समैत्रावरुणो, बादरायणे ।वेदव्यासश्च व्यासः, स्याद् रामः परशुरामवत् ॥ ३०९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 रु (wrong syllable); pāda 3, syllable 5 श्च (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.46 · p. 253
रामाऽभिरामे चाऽसारे शक्यं शिक्यं च, रिक्तके ।शून्यं शुन्यं च, प्रत्यग्रे नवीना-ऽभिनवे नवम् ॥ ४६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.29 · p. 4
रामः परशुरामश्च जामदग्न्योऽथ राघवः ।रामो दाशरथिः सीतावल्लभो रावणान्तकः ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण आदिदेवाध्यायः Śabdaratnākara 1.2.31 · p. 4
रामो नीलाम्बरः शेषो रौहिणेयोऽच्युताग्रजः ।संकर्षणः सालकेतुर्मुसली रेवतीपतिः ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.683 · p. 87
स गोकर्णोऽसितो रामो रोहिषो गर्दभाकृतिः ।न्यङ्कुस्तु शम्बराकारस्त्रिकेण विपुलोन्नतः ॥ ६८३ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव क्षत्त्रियवर्गः Trikāṇḍaśeṣa 2.8.3 · p. 61
यौवनाश्वस्तु मान्धाता खट्वाङ्गस्तु दिलीपराट् ।रामो दाशरथिः कौशल्यायनिर्दशकण्ठजित् ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.20 · p. 4
विष्णुश्च जामदग्न्यस्तु रामो दाशरथिः पुनः ।राघवो जानकीकान्तो रामो रावणसूदनः ॥ २० ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश आदिदेवाध्यायः Vaijayantī 1.1.22 · p. 4
पार्थिवेन्द्रो धनुष्पाणिर्बली दशरथात्मजः । ]रामः संकर्षणः पौरो बलदेवो हलायुधः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.32 · p. 67
गन्धर्वः स्याद्गोलपुसो रामस्तु वृकधोरणः ।शरभस्तु गजारातिरुत्पाश्चाष्टपादपि ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.140
वणिक्पथः पुरं वेदो निगमो नागरो वणिक् ।नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु ॥ १४० ॥
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.808 · p. 93
मणिदोषेऽपि त्रासो वत्सः संवत्सरेऽपि निर्दिष्टः ।वामः प्रतिकूलेऽपि प्रोक्तौ शुक्लेऽपि शुचिरामौ ॥ ८०८ ॥
metre not recognised
meanings
धरणिकोश Dharaṇikośa · धरणिदास मश्लोकः Dharaṇikośa 24.3.3 · p. 145
रामा स्त्री जामदग्न्यश्च रामो रामौ सितासितौ ।रामो दाशरथिश्चासौ पशुभेदे हलायुधे ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ मान्ताः Koṣakalpataru 6.25.56 · p. 279
प्रोक्तः किंपुरुषेश्वरे विटपिनि स्यात्पारिजाते द्रुमःकुण्डे वारिविनिर्गमे भ्र[30b]म इति स्यान्मोहवाची द्वयोः ।रामो दाशरथौ बले भृगुपतौ पश्वन्तरे वाच्यवत्त्वेष श्वेतमनोज्ञमेचकगतोऽन्त्ये वास्तुके कुष्टके ॥ ५६ ॥
शार्दूलविक्रीडितम्metre not read in every line
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1097 · p. 136
रामो दाशरथौ विष्णौ रतौ परशुरामके ।बलभद्रे ध्वजे शब्दे मौलौ लक्ष्मणि वर्णयोः ॥ १०९७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1098 · p. 136
शुक्ले कृष्णे वररुचिस्त्वाहामुं शबलेऽथ सः ।वाच्यलिङ्गः शुक्लकृष्णशबलेषु गुणिष्वसौ ॥ १०९८ ॥
अनुष्टुप्
doubtful
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1099 · p. 137
चारुप्रधानयोश्चापि रामा तु स्त्र्यन्तरे स्त्रियाम् ।राकशब्दस्तु पुल्लिँङ्गो ज्ञेय आतपसूर्ययोः ॥ १०९९ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास रकारादयः Paramānandīyanāmamālā 5.22.345 · p. 205
रुमा लवणखानौ स्यात्सुग्रीवस्य प्रियापि सा ।रामो हलायुधे जामदग्न्ये दाशरथावपि ॥ ३४५ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र मद्विः Śivakoṣa 20.1.330 · p. 30
भीमः कुम्भोलुखलके बकपुष्पे च वेतसे ।रामा श्यामा हिङ्गुनाड्योः क्लीबं वास्तूककुष्ठयोः ॥ ३३० ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र मद्विः Śivakoṣa 20.1.331 · p. 30
रामः पुमान् कर्णपूरे रुक्मं काञ्चनलोहयोः ।लक्ष्मीः सक्तुफलापद्मावृद्धिऋद्धिप्रियङ्गुषु ॥ ३३१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.18 · p. 254
रमा लक्ष्म्यां रमः कान्ते कामे च रक्तवञ्जुले ।रामो हलिनि शारङ्गे राघवे वरुणे हये ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शब्दरत्नावली Śabdaratnāvalī · मथुरेश मान्ताः Śabdaratnāvalī 7.25.19 · p. 254
रेणुकातनये पुंसि त्रिषु चारुसितासिते ।वास्तूककुष्ठयोः क्लीबं नारी हिङ्गुलयोः स्त्रियाम् ॥
अनुष्टुप्
doubtful
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.302 · p. 196
यमः संयमकीनाशयुग्मजेष्वथ राघवे ।रामः पशौ भार्गवे च रूक्मं लोहसुवर्णयोः ॥ ३०२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 6.4.14 · p. 229
रथ्यो रथहितेऽमुष्य स्वीयेऽस्याश्वे च वोढरि ।रागवद्रोहितौ रक्तौ रामश्चारौ सितेऽसिते ॥ १४ ॥
अनुष्टुप्

राम as a meaning in nānārtha verses