कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वेल्लित

vellitaवि · adj.

In 14 kośas: 26 synonym verses, 5 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.50 · p. 48
अपावृत्तपरावृत्तलुठितानि तु वेल्लिते ।
अनुष्टुप्
genderक्लीneut.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.108 · p. 55
कुञ्चितं नतमाविद्धं कुटिले वक्रवेल्लिते ॥ १४५६ ॥वृजिनं भङ्गुरं भुग्नमरालं जिह्ममूर्मिमत् ।
अनुष्टुप्
genderविadj.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.133 · p. 56
प्रेङ्खोलितं तरलितं लुलितं प्रेङ्खितं धुतम् ॥ १४८० ॥चलितं कम्पितं धूतं वेल्लितान्दोलिते अपि ।
अनुष्टुप्metre not read in every line
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.71
अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् ।आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ॥ ७१ ॥
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.149
वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.696 · p. 80
वक्रं वृजिनं भङ्गुरमाविद्धं वेल्लितं नतं जिह्मम् ।भुग्नमरालं कुटिलं व्याकुञ्चितमूर्मिमत्कथितम् ॥ ६९६ ॥
आर्या
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.211 · p. 112
अपावृत्तपरावृत्तलुठितानि च वेल्लिते ।न द्वयोरश्ववृन्दे स्यादाश्वमाश्वीयमित्यपि ॥ २११ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.129 · p. 228
स्यादावनतमाविद्धं नम्रं बन्धूरबन्धुरे ।वक्रं वेकं च कुटिलं भुग्नं वेल्लितमित्यपि ॥ १२९ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.147 · p. 230
वेल्लितप्रेङ्खिताधूतविधुतानि प्रकम्पितम् ।आधुतं चाथ निष्ठ्यूतं नुत्तं नुन्नं तथास्तवत् ॥ १४७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.90 · p. 21
भङ्गुरं वेल्लितं जैह्म्यं भावे कौटिल्यमित्यपि ।ऋजावजिह्म-प्रगुण-सरलाः परिकीर्तिताः ॥ ९० ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.30 · p. 25
आन्दोलितं तरलितं लुलितं वेल्लितं तथा ।न्यञ्चितं स्यादधः क्षिप्त[मूर्ध्वक्षिप्त]मुदञ्चितम् ॥ ३० ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.158 · p. 71
अपावृत्तपरावृत्तलुठितानि तु वेल्लिते ।धोरितं वल्गितं प्लुत्पुत्तेजितोत्तरितानि च ॥ १५८ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.344 · p. 94
अवक्रसरलौ तुल्यावृजुः प्रगुणसंगतः ।कुटिलं वेल्लितं वक्रं भङ्गुरवृजिने समे ॥ ३४४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ङ्गु (wrong syllable)
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.360 · p. 96
कम्पितं चलितं ? धूतं लुलितं वेल्लितं समम् ।प्रोङ्खितान्दोलिते चापि देश्ये हिञ्चितमीक्ष्यते ॥ ३६० ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.695 · p. 117
अवाग्रं चाप्यवनतमरालं मण्डलीकृतम् ।भग्नं च वेल्लितं भुग्नमाविद्धं कुटिलं तथा ॥ ६९५ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.705 · p. 118
चलिते प्रेङ्खितं धूतं वेल्लितं परिवेल्लितम् ।प्रेङ्खोल्लितो वेल्लितकोऽऽन्दोलितो लोलिते त्रयम् ॥ ७०५ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.104 · p. 44
वेल्लितं प्रेङ्खितं धूतमान्दोलितं च वीजितम् ।दोला प्रेङ्खोलनं प्रेङ्खा हिन्दोलश्चापहिञ्चितम् (?) ॥ १०४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2252 · p. 367
अपावृत्तं परावृत्तं लुठितं वेल्लितं पुनः ।भूमावलोटनं तस्य श्रमो येन विनश्यति ॥ २२५२ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2 · p. 427
आविद्धं वेल्लितं वक्रं कुञ्चितं कुरिलं नतम् ।अरालं भगुरं भुग्नं वृजिनं जिह्नमूर्मिमत् ॥ २ ॥ २६४८ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2691 · p. 435
कम्पितं चलितं धूतमान्दोलनञ्च वेल्लितम् ॥ २६९१ ॥
metre not recognised
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.266 · p. 129
पर्यायणं पल्ययनं हयजीनाह्वये द्वयम् ।भूमौ मुहुः परावृत्ते हये लुण्ठितवेल्लितौ ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.26 · p. 165
कुटिले वृजिनं जिह्ममरालं कुञ्चितं नतम् ।आविद्धमूर्मिमद्वक्रं भुग्नं वेल्लितमित्यपि ॥
अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.48 · p. 166
कम्पिते चलिताधूतवेल्लितप्रेङ्खिताधुतम् ।व्याधूतं विधुतं धूतमाकम्पितविकम्पितम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1636 · p. 197
न्यङ्नीचौ प्रह्वविनताववाग्रावनतौ समौ ।कुटिलमरालं वक्रं वेल्लितमाविद्धवृजिनभुग्नानि ॥ १६३६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1673 · p. 201
वेल्लितं प्रेङ्खितं धूतं रिङ्गितं त्वङ्गितं धुतम् ।प्रेङ्खोलितं च संतप्तो धूपितस्तापितो धुतः ॥ १६७३ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.95 · p. 208
अनादृते त्ववज्ञातमवतीर्णापहस्तितम् ।चलितप्रेंखिताधूतवेल्लिताकंपिता धुते ॥ ९५ ॥
अनुष्टुप्
genderविadj.
धरणिकोश Dharaṇikośa · धरणिदास तार्धश्लोकः Dharaṇikośa 15.2.29 · p. 71
वेल्लितं कुटिले प्रोक्तं वेल्लतं कलितं प्लुतम् ।अक्षतं चापि लाजेषु चाक्षतं स्यादखण्डितम् ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.88 · p. 217
अर्थे ज्ञाते विदितं भावितमुक्तं च वासिते प्राप्ते ।कुटिले वेल्लितमन्त्ये परलिङ्गं तु प्लुते विधुते ॥ ८८ ॥
आर्या
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् वाच्यलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.4.56 · p. 45
लीनेऽथ वेल्लितं वक्रे कम्पिते स्याद्रथे पुनः ।व्याघ्रचर्मावृते ज्ञेयो वैयाघ्रो व्याघ्रयोगिनि ॥ ५६ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश तान्ताः Śabdaratnāvalī 7.16.141 · p. 222
वेल्लितञ्च गतौ क्लीबं विधूत कुटिले त्रिषु ।शकुन्तो विहगे भासपक्षिकीटभिदोः पुमान् ॥
अनुष्टुप्
meaningsगति
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 7.4.23 · p. 255
विधुतौ त्यक्तकंपितौ विदितौ ज्ञातसंश्रुतौ ।विलीनौ लीनविद्रुतौ वेल्लितौ धूतकुञ्चितौ ॥ २३ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 पि (wrong syllable); pāda 3, syllable 7 द्रु (wrong syllable)