कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Amarakośa

नामलिङ्गानुशासनम् Amarakośa

2,373 verses · 12,470 words tagged · 1,463 marked doubtful (dashed)

द्वितीयं काण्डम् · क्षत्रियवर्गः (1/2)

इति ब्रह्मवर्गः

अथ क्षत्रियवर्गः

मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट् ।राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः ॥ १ ॥
2.8.1
अनुष्टुप्
राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः ।
2.8.2
अनुष्टुप्
चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः ॥ २ ॥
2.8.2
अनुष्टुप्
येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ।
2.8.4
अनुष्टुप्
शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥ ३ ॥राजन्यकं च नृपतिक्षत्रियाणां गणे क्रमात् ।
2.8.5
अनुष्टुप्
मन्त्री धीसचिवोऽमात्योऽन्ये कर्मसचिवास्ततः ॥ ४ ॥
2.8.4
अनुष्टुप्
महामात्राः प्रधानानि पुरोधास्तु पुरोहितः ।
2.8.7
अनुष्टुप्
द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ ॥ ५ ॥
2.8.5
अनुष्टुप्
प्रतीहारो द्वारपालद्वास्थद्वास्थितदर्शकाः ।
2.8.9
अनुष्टुप्
रक्षिवर्गस्त्वनीकस्थोऽथाध्यक्षाधिकृतौ समौ ॥ ६ ॥
2.8.6
अनुष्टुप्
स्थायुकोऽधिकृतो ग्रामे गोपो ग्रामेषु भूरिषु ।
2.8.11
अनुष्टुप्
भौरिकः कनकाध्यक्षो रूप्याध्यक्षस्तु नैष्किकः ॥ ७ ॥
2.8.7
अनुष्टुप्
अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः ।
2.8.13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते ॥ ८ ॥
2.8.8
अनुष्टुप्metre not read in every line
शण्ढो वर्षवरस्तुल्यौ सेवकार्थ्यनुजीविनः ।
2.8.15
अनुष्टुप्
विषयानन्तरो राजा शत्रुर्मित्रमतः परम् ॥ ९ ॥
2.8.9
अनुष्टुप्
उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः ।
2.8.17
अनुष्टुप्
रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः ॥ १० ॥द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः ।अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥ ११ ॥
2.8.11
अनुष्टुप्
वयस्यः स्निग्धः सवया अथ मित्रं सखा सुहृत् ।
2.8.19
अनुष्टुप्
सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् ॥ १२ ॥
2.8.12
अनुष्टुप्
यथार्हवर्णः प्रणिधिरपसर्पश्चरः स्पशः ।चारश्च गूढपुरुषश्चाप्तप्रत्ययितौ समौ ॥ १३ ॥
2.8.13
अनुष्टुप्
सांवत्सरो ज्यौतिषिको दैवज्ञगणकावपि ।स्युर्मौहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि ॥ १४ ॥
2.8.14
अनुष्टुप्
तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ ।
2.8.23
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 क्षर (syllable split)
लिपिकारोऽक्षरचरणोऽक्षरचुञ्चुश्च लेखके ॥ १५ ॥
2.8.15
अनुष्टुप्metre not read in every line
लिखिताक्षरविन्यासे लिपिर्लिबिरुभे स्त्रियौ ।
2.8.25
अनुष्टुप्
स्यात्सन्देशहरो दूतो दूत्यं तद्भावकर्मणी ॥ १६ ॥
2.8.16
अनुष्टुप्
अध्वनीनोऽध्वगोऽध्वन्यः पान्थः पथिक इत्यपि ।
2.8.27
अनुष्टुप्
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ॥ १७ ॥राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ।
2.8.28
अनुष्टुप्
सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥ १८ ॥षड्गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः ।
2.8.29
अनुष्टुप्
क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ १९ ॥
2.8.19
अनुष्टुप्
स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् ।
2.8.31
अनुष्टुप्
भेदो दण्डः साम दानमित्युपायचतुष्टयम् ॥ २० ॥
2.8.20
अनुष्टुप्
साहसं तु दमो दण्डः साम सान्त्वमथो समौ ।
2.8.33
अनुष्टुप्
भेदोपजापावुपधा धर्माद्यैर्यत्परीक्षणम् ॥ २१ ॥
2.8.21
अनुष्टुप्
पञ्च त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः ।
2.8.35
अनुष्टुप्
विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥ २२ ॥रहश्चोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु ।
2.8.36
अनुष्टुप्
समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात् ॥ २३ ॥
2.8.23
अनुष्टुप्
अभ्रेषन्यायकल्पास्तु देशरूपं समञ्जसम् ।
2.8.38
अनुष्टुप्
युक्तमौपयिकं लभ्यं भजमानाभिनीतवत् ॥ २४ ॥न्याय्यं च त्रिषु षट्संप्रधारणा तु समर्थनम् ।
2.8.39
अनुष्टुप्
अववादस्तु निर्देशो निदेशः शासनं च सः ॥ २५ ॥
2.8.25
अनुष्टुप्
शिष्टिश्चाज्ञा च संस्था तु मर्यादा धारणा स्थितिः ।
2.8.41
अनुष्टुप्
आगोऽपराधो मन्तुश्च समे तूद्दानबन्धने ॥ २६ ॥
2.8.26
अनुष्टुप्
द्विपाद्यो द्विगुणो दण्डो भागधेयः करो बलिः ।
2.8.43
अनुष्टुप्
घट्टादिदेयं शुल्कोऽस्त्री प्राभृतं तु प्रदेशनम् ॥ २७ ॥
2.8.27
अनुष्टुप्
उपायनमुपग्राह्यमुपहारस्तथोपदा ।
2.8.45
अनुष्टुप्
यौतकादि तु यद्देयं सुदायो हरणं च तत् ॥ २८ ॥
2.8.28
अनुष्टुप्
तत्कालस्तु तदात्वं स्यादुत्तरः काल आयतिः ।
2.8.47
अनुष्टुप्
सांदृष्टिकं फलं सद्य उदर्कः फलमुत्तरम् ॥ २९ ॥
2.8.29
अनुष्टुप्
अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम् ।
2.8.49
अनुष्टुप्
महीभुजामहिभयं स्वपक्षप्रभवं भयम् ॥ ३० ॥
2.8.30
अनुष्टुप्
प्रक्रिया त्वधिकारः स्याच्चामरं तु प्रकीर्णकम् ।
2.8.51
अनुष्टुप्
नृपासनं यत्तद्भद्रासनं सिंहासनं तु तत् ॥ ३१ ॥
2.8.31
अनुष्टुप्
हैमं छत्रं त्वातपत्रं राज्ञस्तु नृपलक्ष्म तत् ।
2.8.53
अनुष्टुप्
भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका ॥ ३२ ॥
2.8.32
अनुष्टुप्
निवेशः शिबिरं षण्ढे सज्जनं तूपरक्षणम् ।
2.8.55
अनुष्टुप्
हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम् ॥ ३३ ॥
2.8.33
अनुष्टुप्
दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ।मतङ्गजो गजो नागः कुञ्जरो वारणः करी ॥ ३४ ॥इभः स्तम्बेरमः पद्मी यूथनाथस्तु यूथपः ।
2.8.57
अनुष्टुप्
मदोत्कटो मदकलः कलभः करिशावकः ॥ ३५ ॥
2.8.35
अनुष्टुप्
प्रभिन्नो गर्जितो मत्तः समावुद्वान्तनिर्मदौ ।
2.8.59
अनुष्टुप्
हास्तिकं गजता वृन्दे करिणी धेनुका वशा ॥ ३६ ॥
2.8.36
अनुष्टुप्
गण्डः कटो मदो दानं वमथुः करशीकरः ।
2.8.61
अनुष्टुप्
कुम्भौ तु पिण्डौ शिरसस्तयोर्मध्ये विदुः पुमान् ॥ ३७ ॥
2.8.37
अनुष्टुप्
अवग्रहो ललाटं स्यादीषिका त्वक्षिकूटकम् ।
2.8.63
अनुष्टुप्
अपाङ्गदेशो निर्याणं कर्णमूलं तु चूलिका ॥ ३८ ॥
2.8.38
अनुष्टुप्
अधः कुम्भस्य वाहित्थं प्रतिमानमधोऽस्य यत् ।
2.8.65
अनुष्टुप्
आसनं स्कन्धदेशः स्यात्पद्मकं बिन्दुजालकम् ॥ ३९ ॥
2.8.39
अनुष्टुप्
पार्श्वभागः पक्षभागो दन्तभागस्तु योऽग्रतः ।
2.8.67
अनुष्टुप्
द्वौ पूर्वपश्चाज्जङ्घादिदेशौ गात्रावरे क्रमात् ॥ ४० ॥
2.8.40
अनुष्टुप्
तोत्रं वेणुकमालानं बन्धस्तम्भेऽथ शृङ्खले ।अन्दुको निगडोऽस्त्री स्यादङ्कुशोऽस्त्री सृणिः स्त्रियाम् ॥ ४१ ॥
2.8.41
अनुष्टुप्
दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे ।
2.8.70
अनुष्टुप्
प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः ॥ ४२ ॥
2.8.42
अनुष्टुप्
वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी ।
2.8.72
अनुष्टुप्
घोटके वीतितुरगतुरङ्गाश्वतुरङ्गमाः ॥ ४३ ॥वाजिवाहार्वगन्धर्वहयसैन्धवसप्तयः ।
2.8.73
अनुष्टुप्
आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः ॥ ४४ ॥
2.8.44
अनुष्टुप्
वनायुजाः पारसीकाः काम्बोजाः बाह्लिका हयाः ।ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः ॥ ४५ ॥
2.8.45
अनुष्टुप्
पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः ।
2.8.76
अनुष्टुप्
बालः किशोरो वाम्यश्वा वडवा वाडवं गणे ॥ ४६ ॥
2.8.46
अनुष्टुप्
त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते ।
2.8.78
अनुष्टुप्
कश्यं तु मध्यमश्वानां हेषा ह्रेषा च निस्वनः ॥ ४७ ॥
2.8.47
अनुष्टुप्
निगालस्तु गलोद्देशो वृन्दे त्वश्वीयमश्ववत् ।
2.8.80
अनुष्टुप्
आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥ ४८ ॥
2.8.48
अनुष्टुप्
गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम् ।
2.8.82
अनुष्टुप्
कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान् ॥ ४९ ॥
2.8.49
अनुष्टुप्
पुच्छोऽस्त्री लूमलाङ्गूले वालहस्तश्च वालधिः ।
2.8.84
अनुष्टुप्
त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥ ५० ॥
2.8.50
अनुष्टुप्
याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः ।
2.8.86
अनुष्टुप्
असौ पुष्परथश्चक्रयानं न समराय यत् ॥ ५१ ॥
2.8.51
अनुष्टुप्
कर्णीरथः प्रवहणं डयनं च समं त्रयम् ।
2.8.88
अनुष्टुप्
क्लीबेऽनः शकटोऽस्त्री स्याद्गन्त्री कम्बलिवाह्यकम् ॥ ५२ ॥
2.8.52
अनुष्टुप्
शिबिका याप्ययानं स्याद्दोला प्रेङ्खादिका स्त्रियाम् ।
2.8.90
अनुष्टुप्
उभौ तु द्वैपवैयाघ्रौ द्वीपिचर्मावृते रथे ॥ ५३ ॥
2.8.53
अनुष्टुप्
पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली ।
2.8.92
अनुष्टुप्
रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते ॥ ५४ ॥
2.8.54
अनुष्टुप्
त्रिषु द्वैपादयो रथ्या रथकट्या रथव्रजे ।
2.8.94
अनुष्टुप्
धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः ॥ ५५ ॥
2.8.55
अनुष्टुप्
चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् ।
2.8.96
अनुष्टुप्
पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः ॥ ५६ ॥
2.8.56
अनुष्टुप्
रथगुप्तिर्वरूथो ना कूबरस्तु युगन्धरः ।
2.8.98
अनुष्टुप्
अनुकर्षो दार्वधःस्थं प्रासङ्गो ना युगाद्युगः ॥ ५७ ॥
2.8.57
अनुष्टुप्
सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् ।
2.8.100
अनुष्टुप्
परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ ५८ ॥
2.8.58
अनुष्टुप्
आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।
2.8.102
अनुष्टुप्
नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः ॥ ५९ ॥सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः ।
2.8.103
अनुष्टुप्
रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः ॥ ६० ॥
2.8.60
अनुष्टुप्
भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः ।
2.8.105
अनुष्टुप्
सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते ॥ ६१ ॥
2.8.61
अनुष्टुप्
बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः ।
2.8.107
अनुष्टुप्
परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः ॥ ६२ ॥
2.8.62
अनुष्टुप्
कञ्चुको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चुकाः ।
2.8.109
अनुष्टुप्
बध्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् ॥ ६३ ॥
2.8.63
अनुष्टुप्
शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् ।उरश्छदः कङ्कटको जागरः कवचोऽस्त्रियाम् ॥ ६४ ॥
2.8.64
अनुष्टुप्
आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् ।
2.8.112
अनुष्टुप्
संनद्धो वर्मितः सज्जो दंशितो व्युढकङ्कटः ॥ ६५ ॥
2.8.65
अनुष्टुप्
त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे ।
2.8.114
अनुष्टुप्
पदातिपत्तिपदगपादातिकपदाजयः ॥ ६६ ॥पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः ।
2.8.115
अनुष्टुप्
शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः ॥ ६७ ॥
2.8.67
अनुष्टुप्
कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत् ।
2.8.117
अनुष्टुप्
अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः ॥ ६८ ॥
2.8.68
अनुष्टुप्
धन्वी धनुष्मान्धानुष्को निषङ्ग्यस्त्री धनुर्धरः ।
2.8.119
अनुष्टुप्
स्यात्काण्डवांस्तु काण्डीरः शाक्तीकः शक्तिहेतिकः ॥ ६९ ॥
2.8.69
अनुष्टुप्