शताङ्ग
śatāṅgaपुं · masc.In 16 kośas: 15 synonym verses, 1 as a nānārtha head word.
genderपुंmasc.
genderपुंmasc.
अनः शताङ्गः शकटः स्यन्दनः कथ्यते रथः ।गन्त्री कम्बलिवाह्यस्तु कूवरी च निगद्यते ॥ ४४४ ॥
अनुष्टुप्
genderपुंmasc.
महापद्मः सहस्राङ्गः शताङ्गः पद्मनामकः ।मुक्तार्णवः शंखनिधिः मकरो रत्नसन्ततिः ॥ १२७ ॥
अनुष्टुप्
genderपुंmasc.
रथो गजोऽश्वः पादातः सेनाङ्गं स्याच्चतुर्विधम् ।युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥ १२९ ॥
अनुष्टुप्
genderपुंmasc.
आश्वर्कस्त्वथ चारः स्यात्तुरगी सादि-सादिनौ ।अश्वस्य विक्रयी यः स्यात्स हेलारुक उच्यते ।द्वयो रथः स्यन्दनोऽस्त्री शताङ्गश्चङ्कुरस्तथा ।पद्वः सांग्रामिके याने[117b] चक्रशालिन्यथेतरत् ॥ ६७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अस्मिंश्चक्रयुते गन्धः शताङ्गः स्यन्दनो रथः ।वहित्रं वाहनं चास्मिंश्चतुरस्रे सकूबरे ॥ १८५ ॥
अनुष्टुप्
genderपुंmasc.
युद्धार्थं चक्रवद्यानं विशेषोऽयं विभाव्यताम् ।स्यन्दनस्तु शताङ्गः स्यात्कर्णीरथरथावपि ॥ ३६८ ॥
अनुष्टुप्
genderपुंmasc.
अपावर्तश्च लुठितः परावृत्ते मुहुर्भुवि ।रथे तु स्यन्दनो रामः शताङ्गः शबलोऽपि च ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
योग्यं चास्मिन् चक्रयुते शताङ्गः स्यन्दनो रथः ।वहित्रं वहिनं चास्मिन् चतुरश्रे सकूबरे ॥ ३५ ॥
अनुष्टुप्
genderपुंmasc.
अश्वा वामी च वडवा किशोरो बालघोटकः ।अनश्च शकटो गन्त्री शताङ्गः स्यन्दनो रथः ॥ १५७ ॥
अनुष्टुप्
genderपुंmasc.
युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनस्तथा ।रथश्चाथ पुष्परथः क्रीडार्थो यश्च क्रियते ॥ १२२५ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
उपावृत्तश्च त्रिष्वेते समे लुठनवेल्लने ।शताङ्गस्यन्दनरथा युद्धमाने तु चक्रिणि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
genderपुंmasc.
रथनिकुरुम्बे रथ्या रथकट्या स्यन्दनः शताङ्गरथौ ।पुष्परथः क्रीडार्थः समरार्थः सांपरायिकोऽसौ स्यात् ॥ १३१३ ॥
गीतिः
genderपुंmasc.
योग्यं चास्मिंश्चक्रयुते शतांगः स्यन्दनो रथः ।वहित्रं वहनं चास्मिंश्चतुरश्रे सकूबरे ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.doubtful
आरभ्य पञ्चमे भागे शकुटाथ शकोटवाक् ।बाहौ ना भेद्यवच्छक्ते शताङ्गस्तु रथे पुमान् ॥ १७८५ ॥
अनुष्टुप्
meaningsरथ