कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वारला

vāralāस्त्री · fem.

In 7 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1327 · p. 51
वारला वरला हंसी वारटा वरटा च सा ॥ १३२७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.251 · p. 31
हंसाः श्वेतच्छदाः प्रोक्ताश्चक्राङ्गा मानसौकसः ।वारला हंसकान्ता स्याद्वरला वरटा तथा ॥ २५१ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.126 · p. 331
तद्वद्धंसी च चक्राङ्गी चक्राङ्की मृदुगामिनी ।गन्धोलिरपि गन्धाली वराला वारलापि च ॥ १२६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.88 · p. 353
स्यान्नन्दी वारला सैव समुद्राद्भङ्गिकाऽप्यथ ।सकण्टकश्चन्द्रिकः स्यात्पार्श्वे वर्त्तुल इत्यथ ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.71 · p. 195
वारला बरला हंसी वारटा बरटा[69b]पि सा ।रक्तमूर्धा पुष्कराह्वः सारसो लक्ष्मणोऽपि सः ॥ ७१ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.229 · p. 80
धार्तराष्ट्रास्तु ते चञ्चुचरणैः श्यामवर्णकैः ।वरला वारला हंसी वारटा वरटा पुनः ॥ २२९ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2405 · p. 387
वरटा वारटा हंसी वरला वारला च सा ॥ २४०५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.352 · p. 247
धृतराष्ट्रो भवेद्, हंस्यां वारला वरला तथा ।वारटा वरटा तद्वत् वरटी , खञ्जनः पुनः ॥ ३५२ ॥
अनुष्टुप्
genderस्त्रीfem.