सारस
sārasaपुं · masc.In 17 kośas: 21 synonym verses, 8 as a nānārtha head word, 9 as a meaning of another word.
सारसस्तु लक्ष्मणः स्यात्पुष्कराख्यः कुरंकरः ॥ १३२८ ॥
metre not recognised
genderपुंmasc.
वा पुंसि पद्मं नलिनमरविन्दं महोत्पलम् ॥ ३९ ॥सहस्रपत्रं कमलं शतपत्रं कुशेशयम् ।पङ्केरुहं तामरसं सारसं सरसीरुहम् ॥ ४० ॥बिसप्रसूनराजीवपुष्कराम्भोरुहाणि च ।
अनुष्टुप्
genderपुंक्लीm. n.
क्रुङ्क्रौञ्चोऽथ बकः कह्वः पुष्कराह्वस्तु सारसः ।
अनुष्टुप्
genderपुंmasc.
क्रौञ्चः क्रुङ् स्यात्खञ्जनः खञ्जरीटःकोकश्चक्रश्चक्रवाको रथाङ्गः ।दार्वाघाटः सारसः पुष्कराख्यः,प्रोक्ता सद्भिः सारसी लक्ष्मणा च ॥ २४४ ॥
शालिनी
genderपुंmasc.
सारसे शतपत्रः स्याल्लक्ष्मणा सारसप्रिया ।चकोरस्तु चलच्चञ्चुः कपिबश्चन्द्रिकाप्रियः ॥ ३०२ ॥
अनुष्टुप्
genderपुंmasc.
अभव्यः स च हंसः स्यादथ लक्ष्मणसारसौ ।लक्ष्मणो रसिकः कामी काकुवाक्कामिवल्लभः ॥ १२४ ॥
अनुष्टुप्
genderपुंmasc.
छायाङ्क-रत्नकर-दर्शविपच्छुभाङ्ग-लक्ष्मीसगर्भ्य-खिदिरामति-सारसोर्णाः ।राकापतिर्ग्रहपतिस्तिजिलश्च सृप्रोगौरो नभश्चमस एणविशेषकश्च ॥ ५९ ॥
वसन्ततिलका
genderपुंmasc.
स्त्री नोत्पलं तामरसं च सारसंबिसप्रसूनं सरसीरुहं च ।प्रोक्तं तु पद्मं नलिनं च न स्त्रियांश्रीवासमत्राम्बुजमस्त्रियां च ॥ ९ ॥
upajati mixed
genderपुंक्लीm. n.
वारला बरला हंसी वारटा बरटा[69b]पि सा ।रक्तमूर्धा पुष्कराह्वः सारसो लक्ष्मणोऽपि सः ॥ ७१ ॥
metre not recognised
genderपुंmasc.
भिषग्माता सिंहमुखः सिंहिका सिंहपर्णका ।तुम्बरौ सानुजः सौरः सारसो वनजोऽग्निकः ॥ १६० ॥
अनुष्टुप्
genderपुंmasc.
सारसः पुष्कराख्यः स्यात्कुरंकरकलक्ष्मणौ ।क्रौञ्चे क्रुङ् चातको बप्पीहः स्तोकः स्यान्नभोऽम्बुपः ॥ २३० ॥
अनुष्टुप्
genderपुंmasc.
पङ्कजं कमलं पद्मं नलिनं सरसीरुहम् ।पङ्केरुहं तामरसं सारसं पुष्करं कजम् ॥ २९५ ॥
अनुष्टुप्
genderक्लीneut.
सारसो लक्ष्मणः कामी मैथुनी रक्तमस्तकः ।श्येनाक्षश्चापि श्येनास्यो गोनर्दो दीर्घजानुकः ॥ २४०७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
genderपुंmasc.
दीर्घजङ्घो वटोकश्च कह्वो गृहबलिप्रियः ।अथ सारसो गोनर्द-पुष्कराह्व-कलाङ्कुराः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सो (wrong syllable)
genderपुंmasc.
सरसीरुहतामरसे सारसमम्भोरुहं कमलम् ।सहस्रपत्रं राजीवं नालीकं बिसनाभिजम् ॥ ३५८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
कुलालकुक्कुटश्चाथ पुष्कराह्वस्तु सारसः ।हंसो मरालश्चक्राङ्गो जालपादः सितच्छदः ॥ ८०६ ॥
अनुष्टुप्
genderपुंmasc.
प्रतुदा अथ कादम्बहंसकारण्डवप्लवाः ।बलाका सारसोत्क्रोशकोकक्रौञ्चादयोऽप्सराः ॥ ८१५ ॥
अनुष्टुप्
genderपुंmasc.
चक्राङ्गः सारसो हंसः ॥ १३२ ॥
genderपुंmasc.
बकेरुका बलाका स्यात्कुररो मत्स्यनाशनः ।द्वन्द्वचारी चक्रवाकः सारसस्तु कलाङ्कुरः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः ।दार्वाघाटे शतपत्रो लक्ष्मणा सारसप्रिया ॥ ३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
genderपुंmasc.
सरसीजं सरसिजं सारसं सरसीरुहम् ।सरोजमब्जमप्पुष्पमरविन्दम्महोत्पलम् ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
द्वे तु पुष्करसंज्ञे स्यात् पक्षिभेदेऽथ सात्त्विकम् ।त्रिषु सत्त्वेन निवृत्ते सात्त्विकी तु स्त्रियामियम् ॥ १९४० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
doubtful
षण्डे शमीफलेऽथ स्यात् सारसं सरसीरुहे ।जलपक्षिविशेषे ना सरःसंबन्धिनि त्रिषु ॥ २१८५ ॥
अनुष्टुप्
सारस as a meaning in nānārtha verses
- कोषकल्पतरु लक्ष्मणसेके प्रोक्षणमीरितं च हननेऽथो लक्षणो लक्ष्म[281b]णः सौमित्रौ नरि सारसे च चरमेत्याख्यासु चिह्नेष्वपि । सारस्यौषधिभेदगौ तु वनिते स्तो दक्षिणस्त्वन्यव- त्प्रोक्तो दक्षिणजे वदान्यसरलान्यच्छन्दवर्तिष्वपि ॥ २४ ॥ Koṣakalpataru 6.15.24
- नानार्थार्णवसंक्षेप पद्ममाक्षिके क्ली स्त्रियो लक्ष्म्यां नरः पद्मस्य सारसे । अथार्कशब्दो ना सूर्ये वह्नाविन्दौ पुरन्दरे ॥ १४ ॥ Nānārthārṇavasaṃkṣepa 2.5.14
- नानार्थार्णवसंक्षेप प्लवश्वेतवारलपर्यन्तहंससारसकादिषु । सौश्रुतोक्तेषु कैवर्तीमुस्तके तु नपुंसकम् ॥ ७०६ ॥ Nānārthārṇavasaṃkṣepa 2.5.706
- नानार्थार्णवसंक्षेप गोनर्दगोनर्दस्तु पुमान् देशविशेषे द्वे तु पक्षिणि । सारसाख्ये नपि त्वेतज्जलमुस्तेऽपरः पुनः ॥ ६९३ ॥ Nānārthārṇavasaṃkṣepa 4.693
- नानार्थार्णवसंक्षेप लक्ष्मणदर्शने च विजानीयादङ्कने चाथ लक्ष्मणः । रामानुजे पुमान् द्वे तु सारसाभिख्यपक्षिणि ॥ १५५२ ॥ Nānārthārṇavasaṃkṣepa 4.1552
- नानार्थार्णवसंक्षेप शतपत्रक्ली दार्वाघाटशकुनौ पुनर्द्वे अजयः पुनः । मयूरे सारसेऽप्याह समासाद्यत्र पूर्ववत् ॥ ५९४ ॥ Nānārthārṇavasaṃkṣepa 6.594
- शब्दरत्नावली गानर्दगानर्दं सारसे क्लीबं कैवर्तीमुस्तकेऽपि च । जलदो मुस्तके मेघे जीवदो वैरिवैद्ययोः ॥ Śabdaratnāvalī 7.18.14
- शब्दरत्नावली शतपुत्रवातपुत्रो महाधूर्त्ते भीमसेने हनूमति । विश्वम्भरो हरौ शक्ते पृथिव्यामपि च स्त्रियाम् ॥ विश्वकद्रुः खले ध्वाने खेटकुक्कुरयोरपि । विभावरी तु वक्रस्त्री कुट्टानी यामिनीषु च ॥ विवादवस्त्रमुण्ड्याञ्च मौखर्यनिरतस्त्रियाम् । शतपुत्रो मयूरे स्याद्धार्वाघाटे तु सारसे ॥ Śabdaratnāvalī 7.27.144
- वैजयन्ती पद्ममाक्षिके क्ली स्त्रियो लक्ष्म्यां नरः पद्मस्य सारसे । त्वचो लवंगे पर्णस्य पक्षे क्ली किंशुके नरः ॥ १२ ॥ Vaijayantī 8.6.12