All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
भूकाण्डः · वनौषधिवर्गः (7/15)
वैराटः कीटमाणिक्यं तित्तिभोऽप्यथ वृश्चिकः ।द्वयोरालिरलिश्चाली द्रुणो द्रोणोऽप्ययं मतः ॥ ५४ ॥
2.3.54 · p. 194
अनुष्टुप्
अलं वृश्चिकपुच्छस्य कण्टकः प्रणिगद्यते ।नीलोऽसौ शूककीटः स्यान्महांस्तूच्चिण्डको द्रुणः ।ऊणी कर्णजलौका स्याच्छताङ्घ्रिः कर्णकीटिका ॥ ५५ ॥
2.3.55 · p. 194
अनुष्टुप्
भ्रमरो भसलो भृङ्गो मधुपो मधुलोलुपः ।मधुव्रतो मधुकरो मधुलिण्मधुसूदनः ॥ ५६ ॥
2.3.56 · p. 194
अनुष्टुप्
इन्दिन्दिरश्चञ्चरीकः षट्पदश्च शिलीमुखः ।अलिर्द्विरेफो रोलम्ब-घुण्ड-पुष्पंधया[68b]लिनः ॥ ५७ ॥
2.3.57 · p. 194
metre not recognised
मधुद्रोऽपि मिलिन्दश्च शैलेयो मधुकेशटः ।कलानुनादी खद्योतः पुनः स्याज्ज्योतिरिङ्गनः ॥ ५८ ॥
2.3.58 · p. 194
अनुष्टुप्
ध्वान्तोन्मेषस्तमोरत्नं पतङ्गः शलभः शिरिः ।क्षान्तुरप्यथ गन्धोली गन्धाली वरटा द्वयोः ॥ ५९ ॥
2.3.59 · p. 194
अनुष्टुप्
तैलाटी वरटी च स्याद्दंशोऽस्त्री वनमक्षिका ।दंशी तज्जातिरल्पा स्यात्पुत्तिका तु पतङ्गिका ॥ ६० ॥
2.3.60 · p. 194
अनुष्टुप्
वल्मीकगा तु गोद्दाला परोष्णी तैलपायिका ।दम्भरा बम्भराली च मक्षिका चर्वणा तु सा ।नीला क्षुद्रा तु सा पिङ्गा सरघा मधुमक्षिका ॥ ६१ ॥
2.3.61 · p. 194
अनुष्टुप्
मत्सरो मशकस्तुल्यावथ चीरी च चीरुका ।झिल्लिका जिल्लिका वर्षकरी भृङ्गारिका तु सा ॥ ६२ ॥
2.3.62 · p. 194
अनुष्टुप्
खगो विहंगो विहगो विहंगमःपतन्पतंगः पतगः पतंगमः ।पत्री पतत्री पतसो वि-पत्रिणौपित्सन्गरुत्मान्नभसंगमो द्विजः ॥ ६३ ॥
2.3.63 · p. 195
upajati 12
पक्षी पटाको विकिरः खजाकोनीडोद्भवः पत्ररथः सरण्डः ।वाजी शकुन्तः शकुनिः शकुन्तिः[69a]किरो नगौकाः शकुनो विहायाः ॥ ६४ ॥
2.3.64 · p. 195
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 कि (wrong syllable)
पतेरो विष्किरोऽण्डोत्थो वलूकाङ्गः कठाकवः ।वयोऽन्तिमेऽथ तुण्डं स्यात्सृपाटी त्रोटिरित्यपि ।चञ्चू-चञ्च्वौ गरुत्त्वस्त्री पुंसौ पक्ष-च्छदावुभौ ॥ ६५ ॥
2.3.65 · p. 195
अनुष्टुप्
पत्रं पतत्रं च ** पक्ष-पिच्छे तनूरुहम् ।स्त्री पक्षतिः पक्षमूलं कुलायो नीडकस्त्रिषु ॥ ६६ ॥
2.3.66 · p. 195
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्रं (syllables merged)
वर्तरूकं काकनीडं पेशी कोषस्तु पेशिका ।कोषोऽण्डमन्तिमे डीनं डयनं च नभोगतौ ॥ ६७ ॥
2.3.67 · p. 195
अनुष्टुप्
प्रडीनोड्डीन-संडीनान्येताः खगगतिक्रियाः ।तत्स्त्रीजातौ तु विहगी ल्वी विहाया द्विजा खगी ॥ ६८ ॥
2.3.68 · p. 195
अनुष्टुप्
चक्राङ्गो धवलगरुन्मराल-हंस-चक्राङ्का अपि कलकण्ठ-केरवौ च ।आरक्ताननचरणः स राजहंसःश्वेतान्यैर्मुखचरणैः स धार्तराष्ट्रः ॥ ६९ ॥
2.3.69 · p. 195
प्रहर्षिणी
तैर्मल्लिकाक्षो मलिनैरथायं पीतैरिमैः स्यात्कलहंससंज्ञम् ।कादम्बको धूसरपक्ष एष कारण्डवः स्यान्मरुतोऽच्छपक्षः ॥ ७० ॥
2.3.70 · p. 195
इन्द्रवज्रा
वारला बरला हंसी वारटा बरटा[69b]पि सा ।रक्तमूर्धा पुष्कराह्वः सारसो लक्ष्मणोऽपि सः ॥ ७१ ॥
2.3.71 · p. 195
metre not recognised
कुरंकरश्च नीलाङ्गो मुखरश्चित्रमन्यकः ।विलीनाङ्गो दीर्घजङ्घो बन्धुरोऽस्य तु कामिनी ॥ ७२ ॥
2.3.72 · p. 196
अनुष्टुप्
सारसी लक्ष्मणा च स्याल्लक्षणा लक्ष्मणीत्यपि ।कोको द्विकश्चक्रवाकश्चक्रो द्वंद्वचरोऽपि सः ॥ ७३ ॥
2.3.73 · p. 196
अनुष्टुप्
रथाङ्गनामा कामी च चक्रीवांश्च कुरंकरः ।क्रुङ् क्रौञ्चस्तस्य तु स्त्री स्यात्क्रुञ्चाथ स्याद्बकोटकः ॥ ७४ ॥
2.3.74 · p. 196
अनुष्टुप्
स्याद्वारिबलिभुक्कह्वो बकोऽपि स्याद्बलाहकः ।बलाको बिसकण्ठी तु बलाका च बकेरुका ॥ ७५ ॥
2.3.75 · p. 196
अनुष्टुप्
शरारिरातिराटिश्च स्त्रियोऽथ कुररो भवेत् ।उत्क्रोशो मत्स्यभुक्चाथ चातकः स्यान्नभोम्बुपः ॥ ७६ ॥
2.3.76 · p. 196
अनुष्टुप्
घनारावः स्तोककश्च पप्पीहो जलरञ्जकः ।दार्वाघाटः पुष्कराह्वः कर्बुरश्चित्रकन्धरः ॥ ७७ ॥
2.3.77 · p. 196
अनुष्टुप्
* [की]रः शुको रक्ततुण्डो मेधावी च फलादनः ।वचस्तु राजकीरः स्याद्रजकः शतपत्रकः ॥ ७६ ॥
2.3.76 · p. 196
अनुष्टुप्
चित्रपादा सारिका स्याद्वचण्डा चि[70a]त्रलोचना ।गोराटिका गोकिरा * गोरका कलहाकुला ॥ ७७ ॥
2.3.77 · p. 196
metre not recognised
मेधाविनी-राजदूती-प्रियवाग्राजसारिकाः ।कङ्कस्तु लोहपृष्ठः स्यात्कंकरः कमनच्छदः ॥ ७८ ॥
2.3.78 · p. 196
अनुष्टुप्
स्कन्धमल्लो दीर्घपादः कालपुच्छश्च सम्मतः ।चिल्लः शकुनिरातायी शशघा *** [टक इ]त्यपि ॥ ५६ ॥
2.3.56 · p. 196
अनुष्टुप्
दाक्षाय्यो गृध्र-दक्षाय्य-दूरदृग्वक्रचञ्चुकाः ।कूणिताक्षः खगव्याघ्रः कामायुः खगपुष्कसः (?) ॥ ८० ॥
2.3.80 · p. 196
अनुष्टुप्
संपातिः पक्षिराजः स्याज्जटायुस्तु जटायुषि ।पक्षिघाती पक्षिमारी पक्षिग्राहक इत्यपि ॥ ८१ ॥
2.3.81 · p. 196
अनुष्टुप्
श्येन आपतिकः पत्री शशादी प्राचिका स्त्रियाम् ।पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः ॥ ८२ ॥
2.3.82 · p. 196
अनुष्टुप्
दिविः किकी राजपक्षी किकिदीविः किकीदिविः ।चाषश्चासश्चाथ भासो भाषो भासन्त इत्यपि ॥ ८५ ॥
2.3.85 · p. 197
अनुष्टुप्
शकुन्तः श्वेतचूडश्च गृध्राभोगोऽष्टकुक्कुटः ।कुक्कुटोऽस्त्री निशावेदी कृकवाकुरुषःस्वरः ॥ ८६ ॥
2.3.86 · p. 197
अनुष्टुप्
शिखण्डिकस्ताम्रचूडः [70b]कावृकश्चरणायुधः ।बह्वपत्यश्च कालज्ञो बोधी स्याद्रणकुक्कुटः ।शौण्डी दक्षो विवृत्ताक्षो देवट्टी त्वम्बुकुक्कुटी ॥ ८७ ॥
2.3.87 · p. 197
अनुष्टुप्metre not read in every line
गङ्गाचिल्ली च विकषा कुक्कुभः कुहकस्वनः ।मुरः कुलालदक्षश्च स्थूलोऽसौ रक्तवर्त्मकः ॥नीलच्छविः कृष्णगलः कोयष्टिस्तु जलोद्भवः ।पानीयकुक्कुटश्च स्याद्भारद्वाजस्तु हिक्कटः ॥ ८८ ॥
2.3.88 · p. 197
अनुष्टुप्
व्याघ्राटोऽपि भरद्वाजः खञ्जरी*[ट]स्तु खञ्जनः ।चलुपुच्छः कर्कराक्षः कणाटीनोऽपि खञ्जरी ॥ ८९ ॥
2.3.89 · p. 197
अनुष्टुप्
मीनाम्रीणः सूत्रकण्ठः खञ्जलेखो जनेक्षणः ।तडङ्कश्च कलिङ्गस्तु धूमी धूम्याट आटकः ॥ ९० ॥
2.3.90 · p. 197
अनुष्टुप्
भृङ्गोऽथान्यः स गोप्रेरी कृष्णवर्णो वनप्रियः ।कर्करेटुः करेटुः स्यात्करटुः कर्कराटुकः ॥ ९१ ॥
2.3.91 · p. 197
अनुष्टुप्
कृकणः कृकरस्तुल्यावुपचक्रो मदाबिलः ।हारीतो हारितोऽपि स्याद्धरित्पीतक इत्यपि ॥ ९१ ॥
2.3.91 · p. 197
अनुष्टुप्
मृदङ्कुरः प्लवस्तु स्याद्गात्रसंप्लव इत्यपि ।टिट्टिभस्तु कटुक्वाण उत्पादशयनश्च सः ॥ ९२ ॥
2.3.92 · p. 197
अनुष्टुप्
जी[71a]वंजीवस्तु गुन्द्रालो विषदर्शनमूर्छकः ।ज्योत्स्नाप्रियश्चकोरः स्यात्ताम्राक्षो विषसूचकः ॥ ९३ ॥
2.3.93 · p. 197
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वं (syllables merged)
चलचञ्चुस्तथाङ्गारभोजी लट्वा तु पेचकः ।पुच्छाधोभागरक्तोऽथ कामी गृहकपोतकः ॥ ९४ ॥
2.3.94 · p. 197
अनुष्टुप्
पारापतो रञ्जकश्च पारावतक इत्यपि ।प्रासादकुक्कुटो झल्लकण्ठो रक्तान्तलोचनः ॥ ९५ ॥
2.3.95 · p. 197
अनुष्टुप्
मदोत्कटश्चाटुकर्ता भवेत्करलवोऽपि सः ।नीलकण्ठः कपोतः स्याद्वन्योऽप्यथ घुघूत्करः ॥ ९६ ॥
2.3.96 · p. 197
अनुष्टुप्
कपोतकः शृङ्गधूमो भस्माङ्गोऽप्यरुणस्त्वसौ ।भवेत्काणकपोतोऽथ तित्तिरिस्तित्तिरोऽपि च ॥ ९७ ॥
2.3.97 · p. 197
अनुष्टुप्
खरकोणश्चित्रपक्षो गौरस्त्वेष कपिञ्जलः ।वार्त्तिरस्तु सचित्रः स्याद्वर्तकस्तु ततोऽल्पकः ॥ ९८ ॥
2.3.98 · p. 197
अनुष्टुप्
वर्तका वर्तिका च स्त्री गिरीका गिरिवर्तिका ।चटकः कलविङ्कः स्याद्गृहनीडः कुलिङ्गकः ॥ ९९ ॥
2.3.99 · p. 197
अनुष्टुप्
स्याद्गेहबलिभुक्चित्रपृष्ठो ग्राम्यस्तु पुंद्रकः ।योषित्तु तस्य चटका स्त्र्यपत्ये चटका तयोः ॥ १०० ॥
2.3.100 · p. 197
अनुष्टुप्
चाटकैरः सुतश्चित्रयोधी लावो महा[71b]र्घकः ।काकतुण्डो वायसास्यो मधुहा मधुघातकः ॥ १ ॥
2.3.1 · p. 197
metre not recognised
गोनर्दकस्तु गोक्ष्वेडश्चक्रविष्टा तु वल्गुनी ।निशाटवी परा तु स्यादालेया मातृवाहिनी ॥ २ ॥
2.3.2 · p. 197
अनुष्टुप्
घूत्काकरो दिवाभीतो दिवान्धो हृदिलोचनः ।प्रतिसूर्यः काकरूकः काकः पीयुः सकृत्प्रजः ॥ ४ ॥
2.3.4 · p. 197
अनुष्टुप्
मौकुलिः करटोऽरिष्टो बलिपुष्टोऽपि वायसः ।चिरजीवी द्विको घूकवैरी ध्वाङ्क्षश्च शक्रजः ॥ ५ ॥
2.3.5 · p. 197
अनुष्टुप्
आत्मघोषो गूढकामी धूलिजङ्घो निमित्तकृत् ।एकदृक्परभृद्द्रोणो नाडीजङ्घः कणूककः ॥स्त्रियां काकोलूकिका स्याद्वैरे वायसघूकयोः ।झम्पाशी मत्स्यरङ्कुर्वा रञ्जो मद्गुर्मलीरकः ॥कालकण्ठश्च दात्यूहः काकोलस्तु वनोद्भवः ॥ ६ ॥
2.3.6 · p. 199
अनुष्टुप्
वृद्धकाको द्रोणकाकोऽद्रिकाकः कृष्णवायसः ॥ ७ ॥
2.3.7 · p. 199
कोकिलः क[72a]लकण्ठः स्यान्मधुकण्ठः कुहूमुखः ।रसालगाली ताम्राक्षो ध्वाङ्क्षबन्धुश्च वाशरः ॥ ९ ॥
2.3.9 · p. 199
अनुष्टुप्metre not read in every line
वनप्रियः परभृतो रवणो रवथः पिकः ।मयूरो बर्हिणो बर्ही प्रचलाकी च चन्द्रकी ॥ १० ॥
2.3.10 · p. 199
अनुष्टुप्
सितपत्रः सितापाङ्गो नीलकण्ठो भुजङ्गभुक् ।कञ्जार-शिखि-मेनाद-मेघनादानुलासिनः ॥ ११ ॥
2.3.11 · p. 199
अनुष्टुप्
केकी शिखावलश्च स्याच्छिखण्डी च कलापवान् ।केकास्य वाक्चन्द्रकस्तु मेचकोऽस्त्री शिखण्डकः ॥ १२ ॥
2.3.12 · p. 199
अनुष्टुप्
कलापः प्रचलाकश्च पिच्छं बर्हस्तु न स्त्रियाम् ।शिखा चूडा पक्षिभेदाः कोकवञ्जुलकादयः ॥ १३ ॥
2.3.13 · p. 199
अनुष्टुप्
गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च तौ ।मृगा महामृगा मत्स्याः प्रतुदा विष्किरास्तथा ॥ १४ ॥
2.3.14 · p. 199
अनुष्टुप्
प्रसहा अप्चरा रन्ध्रेशयाः पिशितमष्टधा ।महामृगैरप्चरैश्च मत्स्यैश्चानूपमुच्यते ॥ १५ ॥
2.3.15 · p. 199
अनुष्टुप्
साधारणं तु मांसं स्यात्प्रसहैश्च बिलेशयैः ।जाङ्गलं तु भवेन्मांसं प्रतुदैर्विष्किरैर्मृगैः ॥ १६ ॥
2.3.16 · p. 199
अनुष्टुप्
शिशौ शावः कुमारोऽर्भोऽर्भकः पा[72b]कः स्तनंधयः ।बाल-डिम्भोत्तानशय-क्षीरकण्ठ-मृडंकणाः ॥ १७ ॥
2.3.17 · p. 199
metre not recognised
पृथुको रुदथः पोतो गर्भो मुष्टिंधयश्च सः ।स्तनंधयी शिशुर्बाला पाका मुष्टिंधयी स्त्रियाम् ॥ १८ ॥
2.3.18 · p. 199
अनुष्टुप्
स्त्रीपुंसौ मिथुनं द्वंद्वेऽपत्ययुग्मं च युग्युगम् ।युगलं यमलं द्वंद्वं यमं संघाटिका द्वयम् ॥ १९ ॥
2.3.19 · p. 200
अनुष्टुप्
समूहो निवहो व्यूहः संदोहः प्रकरो गणः ।ओघ-व्रज-व्रात-वार-विसर-व्रज-संचयाः ॥ २० ॥
2.3.20 · p. 200
अनुष्टुप्
समुदायः समुदयः समवायश्चयः स्तमः ।स्तोमः कलापः कूटोऽस्त्री संहतिः स्त्री कदम्बकम् ॥ २१ ॥
2.3.21 · p. 200
अनुष्टुप्
निकुरम्बं वृन्द-जाल-जात-पेटकमन्तिमे ।चक्रमस्त्री चक्रवालं मण्डलं पटलं न ना ॥ २३ ॥
2.3.23 · p. 200
अनुष्टुप्
ग्रामो विषयशब्दास्त्रभूतेन्द्रियगुणोत्तरः ।वृन्दभेदाः समैर्वर्गः संघ-सार्थौ तु जन्तुभिः ॥ २३ ॥
2.3.23 · p. 200
अनुष्टुप्
कुलं सजातिभिर्यूथं तिरश्चां पुंनपुंसकम् ।समजस्तु पशूनां स्यात्समाजस्त्वन्यदेहिनाम् ॥ २५ ॥
2.3.25 · p. 200
अनुष्टुप्
सधर्मणामेष निकाय उक्तःस्कन्धो नराणां करिणां हयानाम् ।पु[73a]ञ्जोत्करौ राशिरिमे समार्थाःकूटोऽस्त्रियां धान्यसमुच्छ्रयार्थः ॥ २६ ॥
2.3.26 · p. 200
उपजातिःmetre not read in every line
सैहं मार्गं काकं काङ्कं बाकं शौकं कापोतं च ।अप्यौलूकं मायूरं स्यात्सिंहादीनां संघातार्थे ॥ २७ ॥
2.3.27 · p. 200
metre not recognised
॥ इति सिंहादिवर्गः ॥
स्यान्मानवो मानुष-भूस्पृशौ विट् ।नरः पुमान्पञ्चजनोऽङ्गनेष्टःस्यात्पूरुषो ना पुरुषैधतू च ॥ १ ॥
2.3.1 · p. 200
उपजातिः
मानुष्यकं स्याच्चरमे नृवृन्देस्त्रियां तु चञ्चा तृणपूरुषः स्यात् ।चञ्चा स्त्रियामेव हि तत्सदृक्षेस्यात्पौरुषेयस्त्रिषु तत्कृतादौ ॥ २ ॥
2.3.2 · p. 201
उपजातिः
पौस्नं पुंस्त्वं स्त्रियां पुंस्ता पुंसो भावे समीरयेत् ।स्त्रियास्तु भावे स्त्रीता स्त्री स्त्रैणं स्त्रीत्वमिमे समे ॥ ३ ॥
2.3.3 · p. 201
अनुष्टुप्
भवेत्कापुरुषो निन्द्यो नरः कुपुरुषोऽपि सः ।निष्कामभोगे पुंसिद्धौ वहीनर-विहीनरौ ॥ ४ ॥
2.3.4 · p. 201
अनुष्टुप्
स्त्रैणं च पौंस्नं त्रिषु तद्भवादौस्त्रीवच्च पुंवत्सदृशेऽव्ययं स्यात् ।जातौ स्त्रियां स्यान्मनुषी च मर्त्यास्यान्मानवी सा कि[73b]ल मानुषी च ॥ ३ ॥
2.3.3 · p. 201
इन्द्रवज्राmetre not read in every line
सीमन्तिनी स्त्री वनिता च वामानारी वधूः स्यादपि वर्णिनी च ।योषा च जोषा पुरुषी च योषीदशाऽबला स्यान्महिला महेला ॥ ४ ॥
2.3.4 · p. 201
उपजातिः
प्रतीपदर्शिन्यपि वासिता चस्याद्योषिता सा दयिता प्रिया च ।सा स्त्रीतमापि स्त्रितमा स्त्रिरूपास्यात्स्त्रीतरापि स्त्रितरा प्रशस्ता ॥ ५ ॥
2.3.5 · p. 201
उपजातिः
स्त्रीमन्या तु स्त्रियंमन्या स्त्रिब्रुवा स्त्रीब्रुवा त्रिषु ।स्त्रीकल्पापि स्त्रिकल्पा * [स्या] त्स्त्रीपाशा चातिनिन्दिता ॥ ६ ॥
2.3.6 · p. 201
अनुष्टुप्
तद्विशेषा स्वनामानुरूपार्था भीरुरङ्गना ।कामिनी मानिनी कान्ता ललना वामलोचना ॥ ७ ॥
2.3.7 · p. 201
अनुष्टुप्
प्रमदा सुन्दरी रामा रमणी वरवर्णिनी ।नितम्बिनी वरारोहा सुत्तमा मत्तकाशिनी ॥ ८ ॥
2.3.8 · p. 202
अनुष्टुप्
वलजा चाथ सा चण्डी कोपना भामिनी च सा ।भाविनी मूढभावा सा मदिराक्षी मदोद्धता ।मत्ता छेका वाणिनीयं च धीरा सा गूढमानयुक् ।अधीरा व्यक्तकोपा स्याद्धीराधीरा[74a] तु मिश्रिता ॥ ९ ॥
2.3.9 · p. 202
अनुष्टुप्metre not read in every line
सुभ्रूर्नतभ्रूर्मत्तेभगामिनी मन्दगामिनी ।भवेच्चक्रनितम्बा सा चक्रतुल्यनितम्बिका ॥ १० ॥
2.3.10 · p. 202
अनुष्टुप्
युवखलतिर्या युवतिः खलतिर्जातैवमेवामी ।युवजरती युवपलिता युववलिनामूर्विशेष्यघ्नाः ।एवं चन्द्रमुखी पद्ममुखीत्याद्या विनिर्दिशेत् ।उक्ताप्सरायमाणा सा याचरत्यप्सरा इव ॥रूप्या च रूपिणी रूपवती सा रूपिकेत्यपि ।स्वङ्गी स्वङ्गा सुगात्री च सुगात्रेति समार्थकाः ॥सुकण्ठी च सुकण्ठा च सुन्दरी सुन्दरापि च ।स्यात्तुङ्गनासिकी चापि तथा स्यात्तुङ्गनासिका ॥नागी त्विभीया स्थूला * * * [स्यान्नागा] त्वन्यत्र कीर्तिता ।सादृश्ये करभोरूः स्याद्वामोरूः कर्म धारयेत् ।अप्रसूताङ्गना श्यामा सुविदल्ला विवाहिता ।पद्मिन्याद्यास्तु तद्भेदा ज्ञेया वात्स्यायनोदितात् ॥ ११ ॥
2.3.11 · p. 202
अनुष्टुप्metre not read in every line
युवखलतिस्त्रीयुवजरतीस्त्रीयुवपलितास्त्रीयुववलिनास्त्रीचन्द्रमुखीस्त्रीपद्ममुखीस्त्रीअप्सरायमाणास्त्रीरूप्यास्त्रीरूपिणीस्त्रीरूपवतीस्त्रीरूपिकास्त्रीस्वङ्गीस्त्रीस्वङ्गास्त्रीसुगात्रीस्त्रीसुगात्रास्त्रीसुकण्ठीस्त्रीसुकण्ठास्त्रीसुन्दरीस्त्रीसुन्दरास्त्रीतुङ्गनासिकीस्त्रीतुङ्गनासिकास्त्रीनागीस्त्रीनागास्त्रीकरभोरूस्त्रीवामोरूस्त्रीश्यामास्त्रीसुविदल्लास्त्रीपद्मिनीस्त्री
ध्रुवाभिषिक्ता महिषी महादेवी नृपाङ्गना ।भवेदसूर्यंपश्येति तदादौ गोपिते त्रिषु ।[74b]पत्नी पाणिगृहीती च वामाङ्गं सहधर्मिणी ॥ १२ ॥
2.3.12 · p. 202
अनुष्टुप्
भार्या जाया च गृहिणी द्वितीयोढा जनी वधूः ।क्षेत्रं परिग्रहो भूम्नि दाराः पुंसि गृहा गृहम् ॥ १३ ॥
2.3.13 · p. 203
अनुष्टुप्
कलत्रं दं सहचरी पुरन्ध्री तु कुटुम्बिनी ।पुरन्ध्रिरपि साध्वी तु सुचरित्रा पतिव्रता ॥ १४ ॥
2.3.14 · p. 203
अनुष्टुप्
सतां देवी चैकपत्नी सती चाथ कुलाङ्गना ।स्याद्वंशपालिका चाथ प्रेयसी वल्लभा प्रिया ॥ १५ ॥
2.3.15 · p. 203
अनुष्टुप्
प्राणेशा हृदयेशा च कान्ता प्रणयिनी च सा ।कृतसापत्नकाध्यूढाधिविन्नाथ स्वयंवरा ॥ १६ ॥
2.3.16 · p. 203
अनुष्टुप्
खरुः पतिंवरा वर्या कनी कन्या कुमारिका ।तामपूर्वपतिं पाणौ गृह्णन्कौमार उच्यते ॥ १७ ॥
2.3.17 · p. 203
अनुष्टुप्
तस्य भार्यापि कौमारी नग्निकानागतार्तवा ।गौरी स्यादष्टवर्षाथ मध्यमा प्रकटार्तवा ॥ १८ ॥
2.3.18 · p. 203
अनुष्टुप्
राकाथ तरुणी तल्ली तरुणी युवतीश्वरी ।दिक्करी काहली चाथ वधूटी वर्वटी जनी ॥ १९ ॥
2.3.19 · p. 203
अनुष्टुप्
वधूः स्नुषा सुतस्त्री स्याच्चिरण्टी तु स्ववासिनी ।पतिप्रिया वधूटी च सुभगा च सुवासि[75a]नी ॥ २० ॥
2.3.20 · p. 203
अनुष्टुप्metre not read in every line
विलेपनी रोचना च चक्षुष्या च सुवेषिणी ।पतिवत्नी जीवदीशा जीवतोका तु जीवसुः ॥वीरपत्नी वीरभार्या वीरमाता तु वीरसूः ।बहुप्रसूः स्यात्कृमिला काकवन्ध्या सकृत्प्रसूः ॥वृद्धपत्नी वृद्धपतिः सपत्नी तुल्यभर्तृका ।नश्यत्प्रसूतिका निन्दुः जीर्णर्त्तुर्निष्कला भवेत् ॥ २१ ॥
2.3.21 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वृ (wrong syllable)
विलेपनीस्त्रीरोचनास्त्रीचक्षुष्यास्त्रीसुवेषिणीस्त्रीपतिवत्नीस्त्रीजीवदीशास्त्रीजीवतोकास्त्रीजीवसूस्त्रीवीरपत्नीस्त्रीवीरभार्यास्त्रीवीरमातृस्त्रीवीरसूस्त्रीबहुप्रसूस्त्रीकृमिलास्त्रीकाकवन्ध्यास्त्रीसकृत्प्रसूस्त्रीवृद्धपत्नीस्त्रीवृद्धपतिस्त्रीसपत्नीस्त्रीतुल्यभर्तृकास्त्रीनश्यत्प्रसूतिकास्त्रीनिन्दुस्त्रीजीर्णर्तुस्त्रीनिष्कलास्त्री
अवीरा निष्पतिसुता विश्वस्ता-विधवे समे ।रण्डा च ताडपत्री च भवेदनलकापि सा ॥छत्रभङ्गस्तु वैधव्यं सौभाग्यं जीवभर्तृता ।कामुकी तु वृषस्यन्ती त्रिगर्ता कामुका परा ॥ २२ ॥
2.3.22 · p. 203
अनुष्टुप्
ज्येष्ठा तु ज्यायसी नारी कनिष्ठा तु यवीयसी ।प्रवत्स्यत्पतिका सा स्यात्प्रवत्स्यति यदीश्वरः ॥ २३ ॥
2.3.23 · p. 204
अनुष्टुप्
भर्तरि प्रोषिते देशान्तरे प्रोषितभर्तृका ।अन्योपभुक्तपतिका खण्डिता साभिधीयते ॥ २४ ॥
2.3.24 · p. 204
अनुष्टुप्
कलहान्तरिता तु स्यात्तप्ता भर्त्रवमानने ।विप्रलब्धां तु संकेतस्थले भर्तर्यनागते ॥ २५ ॥
2.3.25 · p. 204
अनुष्टुप्
उत्का ध्यायति[75b] या तत्र भर्त्रनागमकारणम् ।भवेद्वासकसज्जा या तत्परा वासके स्वके ॥ २६ ॥
2.3.26 · p. 204
अनुष्टुप्metre not read in every line
स्वाधीनपतिका तु स्याद्वशे यस्याः पतिः सदा ।कामार्ताभिसरेत्कान्तं सारयेद्वाभिसारिका ॥ २७ ॥
2.3.27 · p. 204
अनुष्टुप्
अनुरागवती स्वीया निजपाणिग्रहीतरि ।किंचित्कामा रतौ वामा मुग्धा लज्जातिशायिनी ॥ २८ ॥
2.3.28 · p. 204
अनुष्टुप्
लज्जास्मरान्तरालस्था मध्याथ कुशला रते ।प्रगल्भा साथ गुप्ता सा सर्वथा रतगोपिनी ॥ २९ ॥
2.3.29 · p. 204
अनुष्टुप्
बालहीना त्वशिश्वी स्यात्पालिस्तु नरमालिनी ।सश्मश्रुर्याथ पोटा स्यान्नारी स्त्रीपुंसलक्षणा ॥ ३० ॥
2.3.30 · p. 204
अनुष्टुप्
इभपोटा त्विभी तादृग्द्विजपोटा द्विजा तथा ।आलिर्वयस्या सध्रीची सखी दासी तु चेटिका ॥ ३१ ॥
2.3.31 · p. 204
अनुष्टुप्
पोटा चेटा तथा कुट्टहारिका कुट्टिनी पुनः ।चुण्टी चुन्दी शम्भली स्यात्कर्णिका माधवी च सा ॥ ३२ ॥
2.3.32 · p. 204
अनुष्टुप्
दूतिर्दूती रुण्डिका च तथा सुरततालिका ।संघाटिका मता सा च तथा संचारिकेत्यपि ॥ ३३ ॥
2.3.33 · p. 204
अनुष्टुप्
पुंश्च[76a]ली धर्षणी बन्धक्यसती कुलटेत्वरी ।अविनीता पांसुला च स्वैरिणी लाञ्छनी व(म)ता ॥ ३५ ॥
2.3.35 · p. 205
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 णी (syllables merged)
वेश्या साधारणी पण्या पण्यस्त्री वर्वटी च सा ॥ ३७ ॥
2.3.37 · p. 205
गणिका लञ्जिका रूपाजीवा क्षुद्रा गवेधुकाऋछरा वारयोषा च शूरा दासी धराप्सराः ॥ ३८ ॥
2.3.38 · p. 205
अनुष्टुप्
यामस्त्री सा यामकिनी भुजिष्या कारकामिनी ।कामकूटा विभ्रमोऽस्याः वारमुख्या तु सत्कृता ॥ ३९ ॥
2.3.39 · p. 205
अनुष्टुप्
तद्वृन्दे वैश्य-गाणिक्ये सैरन्ध्री त्वन्यगेहगा ।अलंकारादिचतुरा स्वाधीना गन्धकारिका ॥ ४० ॥
2.3.40 · p. 205
अनुष्टुप्
असिक्न्यन्तःपुरे प्रेष्या तरुणी याथ कोटवी ।नग्निका या वस्त्रहीना मुक्तकेशी च कामिनी ॥ ४१ ॥
2.3.41 · p. 205
अनुष्टुप्
कात्यायन्यर्द्धवृद्धा या काषायवसनाधवा ।श्रवणा श्रमणा मुण्डा भिक्षुकी कुलटासती ॥ ४२ ॥
2.3.42 · p. 205
अनुष्टुप्
सुतः कौलटिनेयोऽस्याः कौलटेयोऽपि सम्मतः ।वृद्धा पलिक्नी जरती प्रज्ञा प्राज्ञीप्रजानती ॥ ४३ ॥
2.3.43 · p. 205
अनुष्टुप्
प्राज्ञा तु प्रज्ञया युक्ता या[76b]त्वन्तःपुरगामिनी ।विप्रश्निका चेक्षणिका दैवज्ञा सा च कथ्यते ॥ ४४ ॥
2.3.44 · p. 205
अनुष्टुप्metre not read in every line
कारीषगन्ध्या कारीषगन्धेर्गोत्रप्रजा हि सा ।शूद्रा तु शूद्रजातिः स्त्री शूद्री शूद्राङ्गना भवेत् ।आभीरी तु महाशूद्री जातिपुंयोगयोः समा ॥ ४५ ॥
2.3.45 · p. 205
अनुष्टुप्