All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · सरभादिप्रकाण्डः (2/2)
अथ हंसस्तु चक्राङ्कश्चक्राङ्गो वरटश्च सः ।श्वेतपक्षो मानसौका मोक्तिकाशन इत्यपि ॥ १२१ ॥
1.12.121 · p. 331
अनुष्टुप्
राजहंसः सितो रक्तैरक्षिचञ्चुपदैः पुनः ।मलिकाक्षो मल्लिकाक्षो मल्लिको पिचधूसरैः ॥ १२२ ॥
1.12.122 · p. 331
अनुष्टुप्
सितेतरैर्धार्तराष्ट्रा मरालो धूसरच्छदः ।कादम्बः कलहंसः स श्यामधूसरपक्षकः ॥ १२३ ॥
1.12.123 · p. 331
अनुष्टुप्
अभव्यः स च हंसः स्यादथ लक्ष्मणसारसौ ।लक्ष्मणो रसिकः कामी काकुवाक्कामिवल्लभः ॥ १२४ ॥
1.12.124 · p. 331
अनुष्टुप्
नीलकण्ठः पुष्कराह्वो लक्ष्मणा लक्षणापि च ।लक्षणी लक्ष्मणी च स्याद्गन्धोली वरटा द्वयोः ॥ १२५ ॥
1.12.125 · p. 331
अनुष्टुप्
तद्वद्धंसी च चक्राङ्गी चक्राङ्की मृदुगामिनी ।गन्धोलिरपि गन्धाली वराला वारलापि च ॥ १२६ ॥
1.12.126 · p. 331
अनुष्टुप्
वरला वारटी चापि वरटी च स्त्रियामिमाः ।ये प्लवा एव ते सर्वे विज्ञेयाः क्षुद्रसारसाः ॥ १२७ ॥
1.12.127 · p. 331
अनुष्टुप्
ते श्वेतचित्रधूम्राद्यनामान्त्याः स्युरनेकशः ।सरावान् पद्मनेत्रश्च पद्मकन्दाद इत्यपि ॥ १२८ ॥
1.12.128 · p. 331
अनुष्टुप्
श्वेतोदरः श्यामपृष्ठः कोनीलो जलवर्त्रिका ।पुष्कराच्छायिका पद्मशायिन्यथ च विष्किराः ॥ १२९ ॥
1.12.129 · p. 332
अनुष्टुप्
ताम्रचूडो विवृत्ताक्षः कुक्कुटश्चरणायुधः ।कालज्ञः कृकवाकुः स्यान्नियोद्धा नखरायुधः ॥ १३० ॥
1.12.130 · p. 332
अनुष्टुप्
बहुप्रजः शिखण्डी च विष्किरः स्यादुषःकलः ।कामकाकुरवो झिल्लीकण्ठोऽपि गुणलोचनः ॥ १३१ ॥
1.12.131 · p. 332
अनुष्टुप्
वतः पतः परापारापारेभ्यश्चातिमानवान् ।स्यान्मदनमोहनवाग्विलासी रक्तनेत्रवान् ॥ १३२ ॥
1.12.132 · p. 332
अनुष्टुप्metre not read in every line
कण्ठारवो गृहार्थेभ्यः कपोतोऽप्यथ कामुकः ।अंह्रिपिच्छः कलरवो वग्देशी छुल्छुलारवः ॥ १३३ ॥
1.12.133 · p. 332
अनुष्टुप्
कोकथुस्तु वनोद्भूते धूसरो धूम्रलोचनः ।भीषणोऽग्निसहायः स्याद्दहनो गृहनाशनः ॥ १३४ ॥
1.12.134 · p. 332
अनुष्टुप्
भेदा एषां बहुविधा गृह्याणां वनचारिणाम् ।पुंस्कोकिलः कलरवः पिको मदनपाठकः ॥ १३५ ॥
1.12.135 · p. 332
अनुष्टुप्
वसन्तदूतो वासन्तः कोकिलो मधुगायनः ।कुहूरवः परभृतः सुधाकण्ठो वनप्रियः ॥ १३६ ॥
1.12.136 · p. 332
अनुष्टुप्
घोषयित्नुः कामतालो मदोल्लापी रतोद्वहः ।सुतर्दनोऽपि ताम्राक्षः कलकण्ठा कुनालिकः ॥ १३७ ॥
1.12.137 · p. 332
अनुष्टुप्
मत्तः कालोऽपि कामान्धो गन्धर्वश्चास्य तु प्रिया ।कोकिला मधुरालापा कामगा वनभूषणा ॥ १३८ ॥
1.12.138 · p. 333
अनुष्टुप्
अन्यपुष्टाऽप्येवमेवमुन्नेया अथ कीरके ।शुको मेधातिथिर्मञ्जुपाठकः प्रियदर्शनः ॥ १३९ ॥
1.12.139 · p. 333
अनुष्टुप्
मेधावी रक्तचञ्च्वर्थः श्रीमान्वाग्मी फलाशनः ।नृपप्रियो राजशुकः शतपत्रश्चमर्यपि ॥ १४० ॥
1.12.140 · p. 333
अनुष्टुप्
काष्ठपर्णशुकास्ते स्युर्गुरुमध्याल्पविग्रहाः ।रक्तकृष्णोत्तमाङ्गास्ते रक्तपीतादिचञ्चवः ॥ १४१ ॥
1.12.141 · p. 333
अनुष्टुप्
नीलपीतश्यामरक्तचित्रवर्णा अनेकशः ।सारिका मधुरालापा दूती मेधाविनीति सा ॥ १४२ ॥
1.12.142 · p. 333
अनुष्टुप्
गोराटी गोरिका मूली शरभी गोकिराटिका ।हहोलिका चित्रपादा चित्राङ्गी कलहप्रिया ॥ १४३ ॥
1.12.143 · p. 333
अनुष्टुप्
पीतपादा वङ्गकुला हट्टली प्रियवादिनी ।जीवंजीवस्तु रक्ताक्षश्चकोरो विषसूचकः ॥ १४४ ॥
1.12.144 · p. 333
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
कौमुदीजीवनो जीवजीवकश्चन्द्रिकाशनः ।कौमुदीजीवनोऽङ्गारभक्षोऽप्यथ च चातकः ॥ १४५ ॥
1.12.145 · p. 333
अनुष्टुप्
घनारवश्च वापीहः सारङ्गो मेघजीवनः ।वर्षप्रियस्त्रिशंखः स्यात्स्तोको बभ्रुर्हरीतकः ॥ १४६ ॥
1.12.146 · p. 333
अनुष्टुप्
कपिञ्जलोऽपि हारीतस्तञ्जलो जिनपत्रिका ।जतूका जतुकापि स्यात्परोष्णी तैलपाऽप्यथ ॥ १४७ ॥
1.12.147 · p. 334
अनुष्टुप्
गोप्रेरको भृङ्गराजो द्विपुच्छाग्रो वनप्रियः ।सुचूडशीर्षो वाचालः सत्यवाक् स्यादथापरः ॥ १४८ ॥
1.12.148 · p. 334
अनुष्टुप्
भृङ्गः कलिङ्गो धूम्याटोऽप्यथ स्याद्दारुणोऽस्त्रियाम् ।काष्ठकूटः कर्वुराङ्गो दार्वाघाटोऽथ खञ्जनः ॥ १४९ ॥
1.12.149 · p. 334
अनुष्टुप्
खञ्जरीटः कणाटीनो मुनिपुत्रश्च तातलः ।काकच्छदः कणाटीरः शिखादृश्यस्त्रिशङ्कुकः ॥ १५० ॥
1.12.150 · p. 334
अनुष्टुप्
शेवधिस्थानसुरतो भद्रार्थः खण्डलेखकः ।व्याघ्राटस्तु भरद्वाजो दीदिविस्तु किकीविकः ॥ १५१ ॥
1.12.151 · p. 334
अनुष्टुप्
किकीदिविः स्वर्णचूडो नन्दिवर्द्धन इत्यपि ।विशोकः स्वस्तिकश्चाषश्चित्रवाजोऽपराजितः ॥ १५२ ॥
1.12.152 · p. 334
अनुष्टुप्
मणिकण्ठो महायोगी नीलाङ्गः पुण्यदर्शनः ।कलविङ्कस्तु चटकः कामुको नीलकण्ठकः ॥ १५३ ॥
1.12.153 · p. 334
अनुष्टुप्
कुलिङ्गश्चटका तत्स्त्री पुमपत्ये तु तद्भवे ।चाटकैरस्त्र्यपत्ये तु चटकाऽप्यथ वर्त्तिका ॥ १५४ ॥
1.12.154 · p. 334
अनुष्टुप्
गाञ्जीकायो वर्त्तकोऽपि वर्त्ती कुब्जस्तु धूसरः ।अरण्यचटको भूमीशयस्तु स्वल्पसंचरः ॥ १५५ ॥
1.12.155 · p. 334
अनुष्टुप्
भोरिटः श्यामचटकः शैशिरः कणभक्षकः ।गृहकर्त्तृक्षमो भीरुः कृषिद्विष्टः कणप्रियः ॥ १५६ ॥
1.12.156 · p. 335
अनुष्टुप्
नीलग्रीवो रक्तशिराः शुक्लपक्षो वनेचरः ।कुरुबाहुः कुरुकुरुः स च वाध्रीणसोऽथ च ॥ १५७ ॥
1.12.157 · p. 335
अनुष्टुप्
स स्यात्कृष्णोदरशिरा वर्णतः कृष्णकर्बुरः ।पन्थालकः पुंसि भवेत् स्त्रियां स्याद्यवगण्डिका ॥ १५८ ॥
1.12.158 · p. 335
अनुष्टुप्
सारङ्गश्चटकाकारः कृशकण्ठोऽथ हंसका ।हुंकारकारका पाण्डुरोदरापि गुरूडुका ॥ १५९ ॥
1.12.159 · p. 335
अनुष्टुप्
नीलच्छविः कृष्णगलः स ग्रामचटकाकृतिः ।ककुभः ककुभाकारः स्थलजो रक्तपर्णकः ॥ १६० ॥
1.12.160 · p. 335
अनुष्टुप्
चटहा चटघातिन्यां चिरीटी तु चिरण्टिका ।फाशब्दकारी फाकारो दुन्दुभिर्दुन्दुभिध्वनिः ॥ १६१ ॥
1.12.161 · p. 335
अनुष्टुप्
गोपपुत्रस्तु लोपाको दात्यूहः कालकण्ठकः ।अत्यूहोऽपि च दात्यौहो मासज्ञोऽपि च सः स्मृतः ॥ १६२ ॥
1.12.162 · p. 335
अनुष्टुप्
क्रतुयष्टिस्तु यज्ञार्हो गिरिशा गिरिशाविका ।गोक्षेडः स्यात्तु खदिरवर्णपक्षोऽप्यथापरः ॥ १६३ ॥
1.12.163 · p. 335
अनुष्टुप्
डिण्डिमाणो डिण्डिमवच्छब्दोऽथ मञ्जुलीयकः ।मञ्जुनादोऽथ त्रपुषो रञ्जकस्तु प्रियात्मजः ॥ १६४ ॥
1.12.164 · p. 335
metre not recognised
सूचीचञ्चुः पीतशीर्षः सुगृहश्चाथ सर्षपा ।खण्डालिका हालिपुत्रा तुच्छिका स्फोटिकाऽप्यथ ॥ १६५ ॥
1.12.165 · p. 336
अनुष्टुप्
कुमारी पोतकी श्यामा ब्रह्मपुत्री धनुर्धरी ।पाण्डवी पुत्रिका मोहा चटिका विष्णुलिङ्ग्यपि ॥ १६६ ॥
1.12.166 · p. 336
अनुष्टुप्
दुर्गोमाऽप्यथ गोवत्सा पुच्छाधोरक्तवर्णका ।पर्यंटिका कर्णिकिका रलालट्वापरा च सा ॥ १६७ ॥
1.12.167 · p. 336
अनुष्टुप्
पुच्छाधःपीतवर्णाऽथ फेञ्चः पोटियकः पुनः ।श्रीकर्णो नीलचटक इत्याद्या अथ तित्तिरिः ॥ १६८ ॥
1.12.168 · p. 336
अनुष्टुप्
तित्तिरस्तैत्तिरोऽपि स्याद्याजुषश्चापि कञ्जुलः ।लघुमांसोऽथ गौरो यः स कपिञ्जल ईरितः ॥ १६९ ॥
1.12.169 · p. 336
अनुष्टुप्
यस्तु स्यात्पाण्डुकपिलः स कुतित्तिर इत्युत ।चित्रवर्णस्तु ककुभो वर्त्तीरोऽल्पकपिञ्जलः ॥ १७० ॥
1.12.170 · p. 336
अनुष्टुप्
वर्त्तिका वर्त्तकावर्तो वर्त्तकोऽपि च शब्दितः ।तस्मिंल्लघुतरे पुंसि लवी लावो लवः पुनः ॥ १७१ ॥
1.12.171 · p. 336
अनुष्टुप्
तत्ररक्ते रक्तवर्त्मा वागुदस्तु गणाधिपः ।करढो व्याधनः कर्चूर्नरः कूणिः कुमारकः ॥ १७२ ॥
1.12.172 · p. 336
अनुष्टुप्
वर्त्तिका शाकुनेयस्तु क्षुडो वृक्षाश्रयी पुनः ।भयंकरो विशालाक्षो बृहद्रावी ततः पुनः ॥ १७३ ॥
1.12.173 · p. 336
अनुष्टुप्
डुण्डुलः पिङ्गलोऽथ स्युः कीटास्तत्र तमोमणिः ।प्रभाकीटः कीटमणिः खद्योतो द्योत इत्यपि ॥ १७४ ॥
1.12.174 · p. 337
अनुष्टुप्
ज्योतिषोपीङ्गिणो माली वीजः स्यादुपसूर्यगः ।पतङ्गः शलभोऽपि स्याद्धान्तचित्रो निमेषरुक् ॥ १७५ ॥
1.12.175 · p. 337
अनुष्टुप्
तैलकीटस्तु षड्बिन्दुस्तैलिनी द्रुनाशिनी ।शक्रगोपस्तु वैराटिर्वर्षाभूस्तिन्तिभोग्निकः ॥ १७६ ॥
1.12.176 · p. 337
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रक्तवर्णश्चाग्निरजो भ्रमरस्तु शिलीमुखः ।रोलम्बः षट्पदो भृङ्गो मधुकृन्मधुपश्च सः ॥ १७७ ॥
1.12.177 · p. 337
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
पुष्पंधयः कलालापो द्विरेफो मधुलोलुपः ।इन्दिन्दिरोऽलिर्झङ्कारी भसलो भ्रमरोऽपि च ॥ १७८ ॥
1.12.178 · p. 337
अनुष्टुप्
अली च चञ्चरीकः स्यात्पर्यायान्मधुपुष्पयोः ।लिट्पः कीटः पालिपालौ पालितः सूदनः पुनः ॥ १७९ ॥
1.12.179 · p. 337
अनुष्टुप्
भृङ्गराजश्चालिमको मधुलेही मधुव्रतः ।वेणुपर्यायवासी स्याद् भ्रमरी कोशकारिका ॥ १८० ॥
1.12.180 · p. 337
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चा (wrong syllable)
पेशस्करी कीटयोनिर्मक्षिका कीटसम्भवा ।कीटमाता वान्तिकरा वर्वणा नीलमक्षिका ॥ १८१ ॥
1.12.181 · p. 337
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 वा (wrong syllable)
भम्भरीली कर्वुराङ्गा जीवत्कृमिपुरीषका ।पायला त्वमृतोत्पन्ना वमनी सरघा सरट् ॥ १८२ ॥
1.12.182 · p. 337
अनुष्टुप्
मध्वर्थमक्षिकाऽपि स्यात्तद्भेदाः क्षुद्रवर्वणा ।गान्धारी वरदा क्षुद्रा क्रूरा सा स्वल्पपिङ्गला ॥ १८३ ॥
1.12.183 · p. 338
अनुष्टुप्
अथ स्युः पुत्तिकाः कृष्णवर्णा मशकसन्निभाः ।वृक्षकोटरगाः स्थूलपिण्डिका अथ पातकाः ॥ १८४ ॥
1.12.184 · p. 338
अनुष्टुप्
बृहत्यो मक्षिकाः पीता भ्रमर्योऽल्पा इतोऽप्यथ ।तीक्ष्णास्या मक्षिकाः पीतवर्णा अर्घा अथापराः ॥ १८५ ॥
1.12.185 · p. 338
अनुष्टुप्
वर्णतः पीतकपिला गन्धोली वरटा द्वयोः ।अथ दालाः पीतवर्णास्ताश्च वृक्षदलाश्रयाः ॥ १८६ ॥
1.12.186 · p. 338
अनुष्टुप्
दंशो दुष्टमुखः क्रूरो रुरुत्वक्सम्भवः स च ।दंशी तज्जातिरल्पा सा क्षुद्रिका वनमक्षिका ॥ १८७ ॥
1.12.187 · p. 338
अनुष्टुप्
मशको वज्रतुण्डः स्यात्सूच्यास्यः सूक्ष्ममक्षिकः ।नीलाभः स्याद्रणरणो धूमलो रात्रिजागरः ॥ १८८ ॥
1.12.188 · p. 338
अनुष्टुप्
झिल्ली चिल्ली चिरी चीरी झिल्लिकाचिल्लिके समे ।चीरिका चीरुकी चीरुर्झिरुका झीरुकापि च ॥ १८९ ॥
1.12.189 · p. 338
अनुष्टुप्
झिरी झीरी चाथ जर्त्ती पुनश्चर्मचटी च सा ।जिनपत्रा तु जतुका जतूकाऽप्यथ पूर्णिका ॥ १९० ॥
1.12.190 · p. 338
अनुष्टुप्
नासाच्छिन्दी च वरटी परोष्णी तैलपायिका ।स्याद्वरोल्यथ पत्राण्डसम्भवा तु बकेरुका ॥ १९१ ॥
1.12.191 · p. 338
अनुष्टुप्
गोमक्षिकाऽथ यूका स्यात्षट्पदी स्वेदसम्भवा ।उकण्योकोदनी वालकीट ओकोरणीति च ॥ १९२ ॥
1.12.192 · p. 339
अनुष्टुप्
गोपालिका केशटीका पक्ष्मजा पक्ष्मषट्पदी ।श्वेतयूकाऽङ्गवस्त्रोत्था पशुयूका पशूद्भवा ॥ १९३ ॥
1.12.193 · p. 339
अनुष्टुप्
महिषस्था महद्यूका लिक्षा यूकाण्डमित्यथ ।गर्दभी तु गोमयोत्था महाभीरुरितीरिता ॥ १९४ ॥
1.12.194 · p. 339
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
विलोमगतिरित्याद्या विज्ञेयाः कीटजातयः ।तृणादिना स्वकौशल्याच्छाखिशाखासु निर्मिते ॥ १९५ ॥
1.12.195 · p. 339
अनुष्टुप्
स्थानेऽथवा कोटरादौ भृग्वादीनां दरादिषु ।शाखान्ते वा लम्बमाने कुलायस्तु पुमानयम् ॥ १९६ ॥
1.12.196 · p. 339
अनुष्टुप्
त्रिषु नीडं पक्षिगृहं स्यात् क्लीबेऽथाण्डमस्त्रियाम् ।कोशोऽस्त्रियां स्त्रियां पेशिः पेशी कोषोऽपि वा स्त्रियाम् ॥ १९७ ॥
1.12.197 · p. 339
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
स्त्रियां चञ्चुश्च चञ्चूश्च त्रोटिस्त्रोटी सृपाटिका ।स्त्री पक्षतिः पक्षती द्वे पक्षमूले छदोऽस्त्रियाम् ॥ १९८ ॥
1.12.198 · p. 339
अनुष्टुप्
वाजः पक्षः पतत्रं स्यात्पिच्छं पत्रं तनूरुहम् ।गरुत्स्यादथ संप्रोद्भ्यो डीनान्येषां गतिक्रिया ॥ १९९ ॥
1.12.199 · p. 339
अनुष्टुप्
निचयः प्रचयश्चैव प्रकरश्चाकरः पुनः ।समुदायः समुदयः समवायो गणश्च यः ॥ २०१ ॥
1.12.201 · p. 340
अनुष्टुप्
जातं चापि च जालं च पेटकं काण्डमस्त्रियाम् ।पटली संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ २०२ ॥
1.12.202 · p. 340
अनुष्टुप्
राशिर्द्वयोः स्त्रियां राशी पुञ्जी पुञ्जश्च पुञ्जकः ।पुंसि क्लीबे च कूटं स्यादुत्करोऽपि च पुंस्ययम् ॥ २०३ ॥
1.12.203 · p. 340
अनुष्टुप्
पशूनां समजोन्येषां समाजः स्यात्सधर्मिणाम् ।ये विश्वस्ताः पक्षिमृगास्ते छेका गृह्यकास्त्रिषु ॥ २०४ ॥
1.12.204 · p. 340
अनुष्टुप्
पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः ।कापोतशौकमायूरतैत्तिरादीनि तद्गणे ॥ २०५ ॥
1.12.205 · p. 340
अनुष्टुप्
स्त्री द्वयी द्वितयं द्वन्द्वे युगलं यमलं युगम् ।स्त्रीपुंसौ मिथुनं युग्मं द्वैतं च युतकं मिथु ॥ २०६ ॥
1.12.206 · p. 340
अनुष्टुप्
यमलं त्रितयं जातं समस्तं स्त्री त्रयी त्रयम् ।कल्पद्रौ केशवकृते फलिते नामसत्फलैः ।एकादशः सरभादिः प्रकाण्डः सिद्धिमागतः ॥ २०७ ॥
1.12.207 · p. 340
अनुष्टुप्metre not read in every line