कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विधिदर्शिन्

vidhidarśinपुं · masc.

In 5 kośas: 5 synonym verses.

कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.71 · p. 76
आस्थानी सदसी क्लीबे स्त्रियां च समितिः स्त्रियाम् ।सभासदः सभास्ताराः सदस्या विधिदर्शिनः ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.46 · p. 236
पर्षद्वलाः सभासूराः सदस्या विधिदर्शिनः ।सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते ॥ ४६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.215 · p. 52
आस्थानी च समज्या चाप्यास्थानं सद इत्यपि ।क्रियाकलापबोद्धारः सदस्या विधिदर्शिनः ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.32 · p. 112
विधिदर्शी सदस्यस्तु विधिदेशक इत्यपि ।अथ सभ्यः सभास्तारः सभासत् परिषद्बलः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1229 · p. 150
गोष्ठी समज्या परिषत् सभासमितिसंसदः ।स्त्रियां वा स्थानसदसी सदस्या विधिदर्शिनः ॥ १२२९ ॥
अनुष्टुप्
genderपुंmasc.