परिषद्
pariṣadस्त्री · fem.In 17 kośas: 18 synonym verses.
सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः ॥ ४८० ॥सामाजिकाः सभा संसत्समाजः परिषत्सदः ।पर्षत्समज्यागोष्ठ्यास्था आस्थानं समितिर्घटा ॥ ४८१ ॥
अनुष्टुप्
genderस्त्रीfem.
समज्या परिषद्गोष्ठी सभासमितिसंसदः ।आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
समाजः संसदास्थानी सभा स्यात्परिषत्सदः ।चित्रमद्भुतमाश्चर्यं विस्मयश्चोद्यमुच्यते ॥ ७४५ ॥
अनुष्टुप्
genderस्त्रीfem.
तुल्यौ प्राज्ञो भवेत् प्रज्ञः प्रज्ञानप्रज्ञिनौ समौ ।अन्तेवासी अन्तवासी स्यात् पर्षत् परिषत् समे ॥ १९८ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री समज्या समाज्या स्यात्पर्षत्परिषदौ न ना ।गोष्ठी सभा समित्संसन्न नास्थानं सदः सदाः ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
आस्थाऽऽस्थानी-परिषदः समज्या गोष्टिका च सा ।आस्थानं च सदः पुंसि स्त्रीनपुंसकयोः सदः ॥ ४५ ॥
अनुष्टुप्
genderस्त्रीfem.
एते शब्दाः पुंसि स्युः । अयं पुञ्जः सङ्घातः । अद्रिः पर्वतः । कोणो गृहादीनाम् । करीषो गोमयविकारः । [रत्नपिण्याकव्याख्यानं नास्ति] ।गर्भ औदर्यः । दर्भः कुशः । अर्भो बालः । पत्तनादीनां ये पर्यायाः शब्दास्तेषां नपुंसकता । इदं पत्तनं नगरं पुरमित्यादि । शुल्बं म्लेच्छमुखम् । ताम्रमुदुम्बरमित्यादि । चापं धनुः कार्मुकमित्यादि ।विडव[बिट्व]र्णा स्त्री ज्ञेया सा[स]स्नावीथ्यौ च नीविभेर्यौ च ।मञ्जूषा गण्डूषा मूषा परिषद्गुहा चैव ॥ ६६ ॥
metre not recognised
genderस्त्रीfem.
परिषत्कर्दमः पङ्कः तज्जम् तामरसं विदुः ।कमलं नलिनं पदम् सरोजं सरसीरुहम् ॥ २० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प (wrong syllable)
genderपुंmasc.
पारिषद्यो बुधः सभ्यः सदः संसत्सभोचितः ।परिषत्सभाऽस्थानपती राजसूयो नृपक्रतुः ॥ ११२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
सदस्यास्तु सभास्ताराः सभ्याः पार्षद्यनामकाः ।सामाजिकास्तथा प्रोक्ताः परिषत्सदसी समे ॥ १४५ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चमो बलिहरणमिति यज्ञाः प्रकीर्तिताः ।सभायां समितिः संस्था परिषत्संसदित्यपि ॥ २१४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable)
genderस्त्रीfem.
सभा समज्या परिषत्संसच्च समितिः सदः ।गोष्ठ्यास्थानी समाजश्च पर्षत्सभ्याः समाजिकाः ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
सभा संसत् समाजश्च समज्या समितिः सदः ।आस्थाऽऽस्थानं तथाऽऽस्थानी पर्षत् च परिषद्घटा ॥ ७४३ ॥
अनुष्टुप्
genderस्त्रीfem.
गोष्ठी परिषदास्थानमास्थानी संसदित्यपि ।हविर्गेहात्तु यः पूर्वः प्राग्वंशः सोऽभिधीयते ॥
अनुष्टुप्
genderस्त्रीfem.
सदस्ये तु पारिषद्य-पार्षद्यावथ संसदि ।परिषत्-पर्षदौ तुल्ये समज्या च समाजयुक् ॥ ९६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderस्त्रीfem.
गोष्ठी समज्या परिषत् सभासमितिसंसदः ।स्त्रियां वा स्थानसदसी सदस्या विधिदर्शिनः ॥ १२२९ ॥
अनुष्टुप्
genderस्त्रीfem.
क्रियाकरो नवच्छात्रः कार्पटिकः स मर्मवित् ।पर्षत्परिषदी गोष्टी राजसूयो नृपाध्वरः ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 टि (wrong syllable)
genderस्त्रीfem.
सदस्या देशिकाः स्थेयाः सभास्ताराः सभासदः ।सभ्याः सामाजिकाश्चाथ गोष्ठ्यास्था परिषत् सभा ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.