All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
भूमिकाण्डः · ब्रह्मवर्गप्रकाशः (1/4)
इति महाराज श्रीयुतमुछाखान मशलन्दएल्लि विरचितायां शब्दरत्नावल्यां मनुष्यवर्गप्रकाशः ॥
वंशाभिजननसन्ताना अन्ववायोऽन्वयः कुलम् ।सन्ततिर्जननं गोत्रं नवैते वंशमात्रके ॥
3.6.1 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कुलं गोत्रं सगोत्रञ्च तुल्यगोत्रे निगद्यते ।ब्राह्मणो क्षत्रियो वैश्यः शूद्रो वर्णश्चतुष्टयः ।वंशो वीज्यः कौलकेयः कुलजः कुलसम्भवः ॥
3.6.2 · p. 111
अनुष्टुप्metre not read in every line
स्यादामुष्यायणस्त्वार्योऽमूष्यपुत्रः माहाकुलः ।आर्यसत्त्वः सज्जनः स्यात् साधुः साधुज इत्यपि ॥
3.6.4 · p. 111
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 मा (wrong syllable)
कुलकः कुलिकश्चेति कुलश्रेष्ठे निगद्यते ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरमी पुनः ।चत्वार आश्रमोऽस्त्री तु तस्मिन्नाश्रमिकः स्मृतः ॥
3.6.5 · p. 111
अनुष्टुप्
ब्राह्मणो विप्रभूदेवद्विजातिद्विजवाडवाः ।अग्रजन्मा सूत्रकण्ठो ज्येष्ठवर्णोऽग्रजातकः ॥
3.6.6 · p. 111
अनुष्टुप्
द्विजन्मा वक्रजो मैत्रः वेदवासो नयो गुरुः ।ब्राह्मणे शुद्धसन्ताने ब्राह्मणायन उच्चते ॥
3.6.7 · p. 111
अनुष्टुप्
अथ श्रोत्रियता श्रोत्रं द्वयं श्रोत्रियधर्मके ।यजनं याजनं दानाध्ययनञ्च प्रतिग्रहः ॥
3.6.8 · p. 111
अनुष्टुप्
अध्यापनश्चेति षड्भिः षट्कर्मा ब्राह्मणः युतः ।पण्डितः कोविदो विद्वान् विदग्धो दूरदृग्बुधः ॥
3.6.9 · p. 111
अनुष्टुप्
धीरो विपश्चित् संख्यावान् सूरिः सूरी विचक्षणः ।दूरदर्शी लब्धवर्णो दीर्घदर्शी कविः कृती ॥
3.6.10 · p. 111
अनुष्टुप्
मनीषी सन् सुधीर्वेदी बुद्धो बृद्धो विधानगः ।दोषज्ञः प्रज्ञिलो धीमान् ज्ञः प्राज्ञः कृष्णिरित्यपि ॥
3.6.11 · p. 111
अनुष्टुप्
श्रोत्रियश्च्छान्दसश्चेति वेदाध्येतृजने द्वयम् ।उपाध्यायोऽध्यापकश्च तथाध्यायक इत्यपि ॥
3.6.12 · p. 111
अनुष्टुप्
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।जातकर्मादिकञ्चैव यः कुर्यात् स भवेद्गुरुः ॥
3.6.13 · p. 111
अनुष्टुप्
वेदव्याख्यां वेदयिता ह्युपनायनपूर्वकम् ।ग्रन्थतोऽप्यर्थतोऽप्येवमाचार्यः स उदाहृतः ॥
3.6.14 · p. 111
अनुष्टुप्
यष्टा च यजमानश्च व्रती स्यात् यज्ञकर्तरि ।स कर्ता सोमयागे चेत् दीक्षितः परिकीर्तितः ॥
3.6.15 · p. 111
अनुष्टुप्
पुनः पुनः यज्ञकर्ता निष्कामो यजमानकः ।इज्याशीलो यजयूको द्वयं तस्मिन्निगद्यते ॥
3.6.16 · p. 111
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ज (wrong syllable)
इष्टवान् विधिना यन्तु स यज्वा परिकीर्तितः ।इष्टवान् गीष्पतीष्ट्या तु स एव स्थपतिः स्मृतः ॥
3.6.17 · p. 112
अनुष्टुप्
कृतवान् सोमपानं यः सोमपीती च सोमपः ।स सर्ववेदाः सर्वस्वदक्षिणं यागमिष्टवान् ॥
3.6.18 · p. 112
अनुष्टुप्
अनूचानो भवेद्यस्तु साङ्गं वेदमधीतवान् ।गुरोरनुज्ञां लब्ध्वा यो गृहवासं समाचरेत् ॥
3.6.19 · p. 112
अनुष्टुप्
यज्ञान्तस्नानकृद्यस्तु सुत्वा सुस्नातकोऽपि च ।शिष्यान्तेवासिनौ छात्रे शैक्षाः प्राथमकल्पिकाः ॥
3.6.21 · p. 112
अनुष्टुप्
एकब्रह्मव्रताचारा ये भवेयुर्नियोगतः ।ते यज्ञाध्ययनादौ तु मिथः सब्रह्मचारिणः ॥
3.6.22 · p. 112
अनुष्टुप्
स्यात् सतीर्थः सतीर्थ्योऽपि तथैकगुरुरित्यपि ।अथाग्निचयनं यस्तु कृतवान् सोऽग्निचिद्भवेत् ॥
3.6.23 · p. 112
अनुष्टुप्
अव्ययन्त्विति हैतिह्यं परस्परोपदेशके ।आद्यज्ञानमुपज्ञा तु ज्ञात्वारम्भ उपक्रमः ॥
3.6.24 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्प (wrong syllable)
यज्ञो यागः सप्ततन्तुरिष्टिरिष्टं मखः क्रतुः ।वितानमध्वरो मन्युराहवः सवनं सवः ॥
3.6.25 · p. 112
अनुष्टुप्
वाजपेयो वाजभोजी वाजपेयक्रतौ द्वयम् ।अग्निष्टोमाश्वमेधाद्या यज्ञभेदास्तथापरे ॥
3.6.27 · p. 112
अनुष्टुप्
हवनी होमकुण्डोऽस्त्री महावीरो मखाग्निषु ।होमधूमो निगरणो वैष्णवं होमभस्मनि ॥
3.6.28 · p. 112
अनुष्टुप्
पित्रर्थं पिण्डपातादिक्रिया आर्यक उच्यते ।पाठो होमस्तर्पणञ्च वलिश्चातिथिपूजनम् ॥
3.6.29 · p. 112
अनुष्टुप्
उक्ताः पञ्चमहायज्ञा ब्रह्मयज्ञादिनामभिः ।सभा समज्या समितिः स्त्रीनपुंसकयोः सदः ॥
3.6.30 · p. 112
अनुष्टुप्
गोष्ठी परिषदास्थानमास्थानी संसदित्यपि ।हविर्गेहात्तु यः पूर्वः प्राग्वंशः सोऽभिधीयते ॥
3.6.31 · p. 112
अनुष्टुप्
विधिदर्शी सदस्यस्तु विधिदेशक इत्यपि ।अथ सभ्यः सभास्तारः सभासत् परिषद्बलः ॥
3.6.32 · p. 112
अनुष्टुप्
पर्षद्बलं पारिषदः पारिषद्यश्च पार्षदः ।यजुर्वेदविदध्वर्युरुद्गाता सामवेदवित् ॥
3.6.33 · p. 112
अनुष्टुप्
ऋग्वेदवेदिता होता सिंहकः स्यादथर्ववित् ।ऋत्विक् स्याद्याजकोऽग्नीध्रः धनैर्वार्या इमे त्रयः ॥
3.6.34 · p. 113
अनुष्टुप्
वेदिर्वेदी वेदिका च स्यात् परिष्कृतभूमिषु ।यज्ञे परिष्कृतस्थाने स्थातां स्थण्डिलचत्वरे ॥
3.6.35 · p. 113
अनुष्टुप्
गहनावरणं यज्ञभूमौ कुम्वा समीरिता ।यूपाग्रं तर्सतन्तुश्च वा क्लीबे क्वचिदिष्यते ॥
3.6.37 · p. 113
अनुष्टुप्
यत् काष्ठं घृष्यते वह्निर्ज्वालनायारणिद्वयोः ।सोऽयमाहवनीयाग्निर्यः स्यादरणिसम्भवः ॥
3.6.38 · p. 113
अनुष्टुप्
तन्वोनिवल्ययोनिश्च (?) दक्षिणाग्निः समीरितः ।गृहाग्नौ गार्हपत्यः स्यादेतेषु स्युरग्नयस्त्रयः ॥
3.6.39 · p. 113
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इदमग्नित्रयं त्रेता युगपत्तु निगद्यते ।संस्कृताग्निः प्रणीतः स्यान्मन्त्रसंस्कृतवह्निषु ॥
3.6.40 · p. 113
अनुष्टुप्
आनीय गार्हपत्याग्नेर्मन्त्राद्यैर्यः प्रणीयते ।दक्षिणाग्निः स एवास्मिन् आनाय्य इति कथ्यते ॥
3.6.42 · p. 113
अनुष्टुप्
अथ वह्निवधूः स्वाहा त्वग्नायी हुतभुक्प्रिया ।सैवधाय्या सामधेनी याऋग्वह्निसमिन्धने ॥
3.6.43 · p. 113
अनुष्टुप्
गायत्री जगती त्रिष्टुवनुष्टुवुष्णिगादिकम् ।च्छन्दश्च्छन्दोविशेषाः स्युरुक्थ उक्थादयः परे ॥
3.6.44 · p. 113
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्टु (wrong syllable)
तथा स्कन्धः स्कन्धकोऽपि क्वचित् कैश्चित् प्रयुज्यते ।आख्यायिका परिच्छेदे उच्छासाश्वासकौ मतौ ॥
3.6.45 · p. 113
अनुष्टुप्
वेदार्थपल्ल(?)पाके तु प्रोक्षणाद्यैश्चरुः पुमान् ।क्षीरे शृतोष्णे त्वामिक्षा चामीक्षा दधियोगतः ॥
3.6.46 · p. 113
अनुष्टुप्
धवित्रञ्च धुरित्रञ्च व्यजनं मृगचर्मणा ।दधियुक्ते घृते शुद्धे पृषदाज्यं निगद्यते ॥
3.6.47 · p. 113
अनुष्टुप्
परमान्नं पायसः स्यात् क्षीरतण्डुलपाकजम् ।पयोविकारमात्रेषु क्लीबे पायसमिष्यते ॥
3.6.48 · p. 113
अनुष्टुप्
स्रूवादिकन्तु यज्ञादौ पात्रमित्यभिधीयते ।स्रूवः पुमानेकहस्तो वाहुमात्रा स्रूगीरिता ॥
3.6.49 · p. 113
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 स्रू (wrong syllable)
तद्विशेषाः शरावाग्राः स्त्रीजुहूरुपभृत् ध्रुवा ।यज्ञवस्तुनि पात्रीरः चमसं सोमपात्रके ॥
3.6.50 · p. 114
अनुष्टुप्
दैवमन्नन्तु हव्यं स्यात् पैत्रं कव्यमिति स्मृतम् ।यज्ञेऽभिममन्त्रय निहतो योऽसौ पशुरुपाकृतः ।परम्पराकं शमनं प्रोक्षणं घातनं वधे ॥
3.6.51 · p. 114
अनुष्टुप्metre not read in every line
हते वाच्याः प्रमीतोपसम्पन्नप्रोक्षिताः पशौ ।हविर्हविष्यं सान्नाय्यं होत्रञ्च हव्यवस्तुनि ॥
3.6.52 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ञ्च (wrong syllable)
अग्नौ हुतन्तु यत् हव्यं तत्स्यात्त्रिषु वषट्कृतम् ।क्रियते कर्मसाङ्गार्थ होमं शाट्यायनादिकम् ॥
3.6.53 · p. 114
अनुष्टुप्
.....................स स्यादवभृथो यज्ञकर्मार्हं त्रिषु यज्ञियम् ।अथेष्टं क्रतुकर्म स्यात् क्रतौ दानादिकर्म च ॥
3.6.54 · p. 114
अनुष्टुप्metre not read in every line
वा पुंसि पूर्तं खातादिकर्माणि प्राह माधवः ।इष्टापूर्तमेकयोक्त्या यज्ञखातादिकर्मणि ॥
3.6.55 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्त (wrong syllable)
अमृतं यज्ञशेषे स्यात् विघसो भुक्तशेषके ।दानं प्रदानं ददनं दायस्त्यागो विसर्जनम् ॥
3.6.56 · p. 114
अनुष्टुप्
विश्राणनं विश्रणनं दत्तिरंहतिरंहती ।उत्सर्जनं निर्वपणमुत्सर्गः प्रतिपादनम् ॥
3.6.57 · p. 114
अनुष्टुप्
प्रादेशनं वितरणं स्पर्शनञ्चातिसर्जनम् ।स्पर्शो विसर्गः क्षणनं प्रदेशननं विहापितम् ॥
3.6.58 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 शन (syllable split)
मृतेषु तदहर्दानं स्यादौर्ध्वदेहिकं त्रिषु ।पितृदानं निवपनं निवापः पितृदानकम् ॥
3.6.59 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ध्व (wrong syllable)
शास्त्रतः पितृकर्मेह श्राद्धं निगदितं बुधैः ।अथ श्राद्धमासिके स्यादन्वाहार्यमुदीरितम् ॥
3.6.60 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 द्ध (wrong syllable)
दिनेऽष्टममुहूर्तस्तु कुतुपः कुतपोऽस्त्रियाम् ।पर्येषणान्वेषणा च परीष्टिः स्याद्गवेषणा ॥
3.6.61 · p. 114
अनुष्टुप्
सत्कारपूर्वकेकर्मण्यध्येषणा सनिः सनी ।अथ याच्ञाऽभिशस्तिश्च प्रार्थना याचनार्थना ॥
3.6.62 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)
त्रिषु चागस्तु पर्यन्तमर्घ्यमर्घ्यार्थवस्तुनि ।पाद्यं पादार्थनीरे स्यादतिथ्यर्थेऽत्र साधुनि ॥
3.6.63 · p. 114
अनुष्टुप्
आतिथ्यमातिथेयञ्च जने चैव गृहागते ।आवेशिकः प्राघुनः स्यादागन्तुरतिथिः पुमान् ॥
3.6.64 · p. 114
अनुष्टुप्
अभागतश्च तत्रैवेत्याह श्रीमधुमाधवः ।पूज्या सपर्यापचितिर्नमस्यार्चर्हना नुतिः ॥
3.6.65 · p. 115
अनुष्टुप्
शुश्रूषणोपासनञ्च सेवीपास्तिकीपासना ॥
3.6.66 · p. 115
पाथेयं शम्बलं पान्थब्ययितव्येषु वस्तुषु ।अट्टाटट्टा पर्यटनं व्रज्या पुनःपुनर्गतौ ॥
3.6.67 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पु (wrong syllable)
ईर्यापथस्थितिश्चर्या व्रतिध्यानादिधर्मके ।आचामः स्यादाचमनमुपस्पर्शः शुचिप्रणीः ॥
3.6.68 · p. 115
अनुष्टुप्
अथाव्यये द्वे तूष्णीकां तूष्णीं मौनमभाषणम् ।पर्यायः परिपाट्यावृत् परिपाटिरनुक्रमः ॥
3.6.69 · p. 115
अनुष्टुप्
आनुपूर्व्यमानपूर्वी सप्तैते कथिताः क्रमे ।विपर्ययः पर्ययः स्यादतिपात उपात्ययः ॥
3.6.70 · p. 115
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 र्व्य (wrong syllable)
अत्ययश्वातिपतनं व्यत्ययः स्यादतिक्रमे ।अस्त्री व्रतन्तु नियमो नियामः संयमोऽपि च ॥
3.6.71 · p. 115
अनुष्टुप्
प्रायोपवेशनञ्चापि रोगाद्यैर्लङ्घनन्तु तत् ।अर्धाशनं त्वर्धशनं द्वयं स्यादर्धभोजने ॥
3.6.73 · p. 115
अनुष्टुप्
विवेचनं नपुंसि स्याद् विवेकः पृथगात्मता ।अथ वृत्ताध्ययनर्धि ब्रह्मवर्चसमुच्यते ॥
3.6.74 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
अथ पाठे त्वञ्जलिः स्याद् ब्रह्माञ्जलिरुदाहृतः ।अथ पाठे विप्रूषस्तु ब्रह्मविन्दव ईरिताः ॥
3.6.75 · p. 115
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 वि (wrong syllable)
अथ ब्रह्मासनं प्रोक्तमासने ध्यानयोगयोः ।विधिकल्पक्रमा एते त्रयो निगदिता विधौ ॥
3.6.76 · p. 115
अनुष्टुप्
मुख्यः प्रथमः कल्पः स्यादनुकल्पस्ततोऽधमः ।संस्कारवेदग्रहणे उपाकरणमीरितम् ॥
3.6.77 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मः (wrong syllable)
अथाभिवादनं पदग्रहणं चरणानतौ ।स्यात् परिव्राजको भिक्षुः परिव्राट् च पराशरी ॥
3.6.78 · p. 115
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प (wrong syllable)
पाराशरी च कर्मन्दी मस्करी व्राजकोऽपि च ।तपस्वी पारिकाङ्क्षी च तापसः परिकाङ्क्षिकः ॥
3.6.79 · p. 115
अनुष्टुप्
वाचंयमो मुनिर्दान्तः तपःक्लेशसहे स्मृतः ।वटुर्वर्णी ब्रह्मचारी शापास्त्रः सत्यवागृषिः ॥
3.6.80 · p. 116
अनुष्टुप्
यतिनो यतयश्चैते निर्जितेन्द्रियसञ्चयाः ।असौ स्थण्डिलशायी च स्थण्डिलः स्थण्डिलेशयः ॥
3.6.82 · p. 116
अनुष्टुप्
नियतं स्थण्डिले शुद्धे शेते व्रतवशात्तु यः ।रजस्तमो विरहितः पुरुषोऽयं द्वयासिगः ॥
3.6.83 · p. 116
अनुष्टुप्
पवित्रः प्रयतः पूतः शुचिः शुद्धः पवित्रिनः ।पाषण्डः कौलिकः सर्वलिङ्गी पाषण्डिकोऽपि च ॥
3.6.84 · p. 116
अनुष्टुप्
स्यात् कर्पटी कर्पटिको द्वयं कर्पटधारिणि ।जटालो जटिलश्चेति स्याज्जटीधारिणि द्वयम् ॥
3.6.85 · p. 116
अनुष्टुप्
पलाशदण्डो व्रतिनामाषाढः परिकीर्तितः ।व्रते तु वैणवो दण्डो राम्भ इत्यभिधीयते ॥
3.6.87 · p. 116
अनुष्टुप्
अस्त्री कमण्डलुः कुण्डी स्याच्चैत्यमुखमेव च ।यज्ञादौ व्रतिनामेवमासनन्तु स्त्रियां वृष ॥
3.6.88 · p. 116
अनुष्टुप्
अजिनं चर्म कृत्तिः स्त्री व्रतचर्म निगद्यते ।भैक्ष्यं भिक्षासमूहे स्याद् भैक्षमित्यपि कुत्रचित् ॥
3.6.89 · p. 116
अनुष्टुप्
स्वाध्यायो जप इत्युक्तः वेदाध्ययनकर्मणि ।यज्ञस्नाने त्वषिसवः सुत्या सवनमित्यपि ॥
3.6.90 · p. 116
अनुष्टुप्
सर्वपापध्वंसिजप्यं तिषु स्यादघमर्षणम् ।सावित्री स्यात्तु गायत्री ब्रह्मारण्यन्तु पाठभूः ॥
3.6.91 · p. 116
अनुष्टुप्
उपवीतं पवित्रं स्याद् ब्रह्मसूत्रं द्विजायनी ।यज्ञोपवीतं सावित्रं सावित्रीसूत्रमित्यपि ॥
3.6.92 · p. 116
अनुष्टुप्
अथ कक्षा कच्छटिका कच्छा कच्छाटिकापि च ।भस्मरेखात्रयं भाले त्रिपुण्ड्रकमिति स्मृतम् ॥
3.6.93 · p. 116
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
अथ व्यासादयः पूर्वे सद्भिरुक्तामहर्षयः ।ब्रह्मर्षयो वशिष्ठाद्याः सुश्रुताद्याः श्रतर्षयः ॥
3.6.94 · p. 117
अनुष्टुप्
राजर्षयस्तु विख्याता ऋतुपर्णादयो नृपाः ।स्याज्जैमिनिप्रभृतयः काण्डर्षय उदीरिताः ॥
3.6.95 · p. 117
अनुष्टुप्
देवर्षयो नारदाद्या उक्ताः शास्त्रानुसारतः ।कृष्णद्वैपायनो व्यासो माठरो वादरायणिः ।वेदव्यासः सत्यरतस्तथा सत्यवतीसुतः ॥
3.6.96 · p. 117
अनुष्टुप्metre not read in every line
कृष्णो द्वैपायनश्चापि शाश्वतः सत्यभारतः ।तथा पाराशरः पाराशर्यश्च वादरायणः ॥
3.6.97 · p. 117
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
नारदः कपिवक्त्रः स्यात् पिशुनश्च विधातृभूः ।तपस्वी गायको ब्राह्मो वेदब्रह्मा च देवलः ॥
3.6.98 · p. 117
अनुष्टुप्
प्राचेतसस्तु वाल्मीको वाल्मीक्याद्यकवी कविः ।कविरामायणोऽपि स्यात् कविवाल्मीकिरित्यपि ॥
3.6.99 · p. 117
अनुष्टुप्
कुशारणिस्तु दुर्वासाः कृतकोटिस्तु काश्यपः ।वशिष्ठोऽरुन्धतीनाथो वसिष्ठोऽपि निगद्यते ॥
3.6.100 · p. 117
अनुष्टुप्
गौतमश्च शतानन्दस्त्वहल्यातनयोऽपि च ।विश्वामित्रो गाधिजः स्यात् कौशिको गाधिभूरपि ॥
3.6.101 · p. 117
अनुष्टुप्
शालातुलीयशालाङ्किदाक्षिपुत्राश्च पाणिनौ ।कात्यायनो वररुचिः कात्य इत्यपि सम्मतः ॥
3.6.102 · p. 117
अनुष्टुप्
अथ व्याडिश्च मेधावी विन्ध्यस्थो नन्दिनीसुतः ।कणादोऽपि च काणादः काश्यपोऽपि च स स्मृतः ॥
3.6.103 · p. 117
अनुष्टुप्
विष्णुगुप्तश्च कौण्डिल्यश्चाणक्यो द्रोमिनोंऽशुलः ।वात्स्यायनो मल्लनागः कामी पङ्किल इत्यपि ॥
3.6.104 · p. 117
अनुष्टुप्
द्रोणस्तु गुरुराचार्यो द्रोणाचार्यश्च कीर्तिभाक् ।भारद्वाजः कुण्डयोणिर्द्रोणाचार्यक इत्यपि ॥
3.6.105 · p. 117
अनुष्टुप्
द्रोणिर्द्रोणायनश्चापि अश्वत्थामा कृपीसुतः ।धन्वन्तरिर्दिवोदासः दिवोदाशः सुधोद्भवः ॥
3.6.106 · p. 117
अनुष्टुप्
काशीराजः काशिराजः काशिकाप्रिय इत्यपि ।मार्कण्डेयोऽपि मार्कण्डः मृकुण्डुश्च मृकण्डुवत् ॥
3.6.107 · p. 118
अनुष्टुप्
आस्तिकः स्यात्तथास्तीको जरुत्कारुमुनेः सुते ।जामदग्न्यः पर्शुरामस्तथा परशुरामकः ॥भार्गवः स्याद्भृगुपतिर्भृगूनां पतिरित्यपि ।अर्हणोऽर्हन् क्षीपनके शम्बूकः शम्बुके नृपे ॥
3.6.108 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षी (wrong syllable)
पुनर्वसुर्वररुचिर्गोनर्दीयः पतञ्जलिः ।चूर्णिकृद्भाष्यकारः स्यात् हरिर्भर्तृहरिः स्मृतः ॥
3.6.109 · p. 118
अनुष्टुप्
भवभूतिश्च भूगर्भो रघुकृत् कालिदासकः ।स सुगृहीतनामा स्याद् यः प्रतिस्मर्यते जनैः ॥
3.6.110 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गृ (wrong syllable)
अभावादङ्गनात्यागस्तुरगब्रह्मचर्यकम् ।अमावस्याकृतो यागो दर्श इत्यभिधीयते ॥
3.6.111 · p. 118
अनुष्टुप्
पौर्णमास्यान्तु यो यागः पौर्णमास इति स्मृतः ।शरीरसाधनापेक्षं नित्यकर्म भवेद्यमः ।आगन्तु साधनं कर्म नियमः परिकीर्तितः ॥
3.6.112 · p. 118
अनुष्टुप्
वामस्कन्धे यज्ञसूत्रमुपवीतमुदाहृतम् ।तदेव दक्षिणे स्कन्धे प्राचीनावीतमीरितम् ॥
3.6.113 · p. 118
अनुष्टुप्
मालाकारं निवीतं स्यात् यद्भवेत् कण्ठलम्बितम् ।सर्वाङ्गुल्यग्रतीर्थन्तु दैवमित्यभिधीयते ।स्वल्पाङ्गुलिद्वयोर्मध्ये कायतीर्थमुदाहृतम् ॥
3.6.114 · p. 118
अनुष्टुप्
अङ्गुष्ठतर्जनीमध्ये पैत्रं तीर्थमिह स्मृतम् ।चान्द्रायण-सान्तपन-प्राजापत्यादि यद्व्रतम् ॥
3.6.115 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ण (wrong syllable)
सर्वं कृच्छमिति ख्यातं तद्भेदा बहवोऽपि च ।प्रायः पुमानशने सन्न्यासवति कथ्यते ॥
3.6.116 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुत्रादौ गार्हपत्याग्निं समर्प्य वर्षमेककम् ।वनप्रवासी यस्तु स्यात् नष्टाग्निर्वीरहा च सः ॥
3.6.117 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्प्य (wrong syllable)
अर्थलोभेन या मिथ्या ध्यानमौनादिकल्पना ।कुहना कुहनोऽपि स्यात् भवेत् कुहनिकापि च ॥
3.6.118 · p. 119
अनुष्टुप्
संस्कारहीनो व्रात्यः स्यादवकीर्णी क्षतव्रते ।जीविकादिनिमित्तन्तु यो विभर्ति जदादिकम् ।धर्मध्वजी लिङ्गवृत्तिर्द्वयं तत्र निगद्यते ॥
3.6.119 · p. 119
अनुष्टुप्metre not read in every line
अथानध्ययनेऽपि स्यादस्वाध्यायो निवाकृतिः ।सुप्ते यस्मिन्नसौ भानुरुदिते दिवसोदये ॥
3.6.120 · p. 119
अनुष्टुप्