कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

संसद्

saṃsadस्त्री · fem.

In 14 kośas: 13 synonym verses, 2 as a nānārtha head word, 8 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.481 · p. 22
सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः ॥ ४८० ॥सामाजिकाः सभा संसत्समाजः परिषत्सदः ।पर्षत्समज्यागोष्ठ्यास्था आस्थानं समितिर्घटा ॥ ४८१ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.15
समज्या परिषद्गोष्ठी सभासमितिसंसदः ।आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.745 · p. 85
समाजः संसदास्थानी सभा स्यात्परिषत्सदः ।चित्रमद्भुतमाश्चर्यं विस्मयश्चोद्यमुच्यते ॥ ७४५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.70 · p. 76
स्त्री समज्या समाज्या स्यात्पर्षत्परिषदौ न ना ।गोष्ठी सभा समित्संसन्न नास्थानं सदः सदाः ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.44 · p. 235
दीक्षान्तोऽवभृथो यज्ञे सुत्वा त्वभिषुतस्त्रिषु ।स्वाध्यायः स्या[99b]ज्जपः सुत्याभिषवः सवनं च तत् ।समाजस्तु सभा-संसद्धटा-समिति-पर्षदः ॥ ४४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 112 · p. 56
पारिषद्यो बुधः सभ्यः सदः संसत्सभोचितः ।परिषत्सभाऽस्थानपती राजसूयो नृपक्रतुः ॥ ११२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.146 · p. 119
सभा संसत्समाजश्चास्था गोष्ठी पर्षदा सह ।समितिः स्त्री तथास्थानं दैवज्ञगणकौ समौ ॥ १४६ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.214 · p. 52
पञ्चमो बलिहरणमिति यज्ञाः प्रकीर्तिताः ।सभायां समितिः संस्था परिषत्संसदित्यपि ॥ २१४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ब (wrong syllable)
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.12 · p. 35
सभा समज्या परिषत्संसच्च समितिः सदः ।गोष्ठ्यास्थानी समाजश्च पर्षत्सभ्याः समाजिकाः ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.743 · p. 104
सभा संसत् समाजश्च समज्या समितिः सदः ।आस्थाऽऽस्थानं तथाऽऽस्थानी पर्षत् च परिषद्घटा ॥ ७४३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.31 · p. 112
गोष्ठी परिषदास्थानमास्थानी संसदित्यपि ।हविर्गेहात्तु यः पूर्वः प्राग्वंशः सोऽभिधीयते ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1229 · p. 150
गोष्ठी समज्या परिषत् सभासमितिसंसदः ।स्त्रियां वा स्थानसदसी सदस्या विधिदर्शिनः ॥ १२२९ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.14 · p. 124
समज्या तारणी संसद्घटा स्थानं सदोऽप्यना ।द्रष्टरि व्यवहाराणां प्राड्विवाकोऽक्षदर्शकः ॥ १४ ॥
अनुष्टुप्
genderस्त्रीfem.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.114 · p. 19
संयद्युद्धेऽग्निचित्यायां द्वादशस्विष्टकासु च ।संसत् सदसि सत्राख्यक्रतूनां त्वपि भूमनि ॥ ११४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.115 · p. 19
चतुर्विंशतिरात्रे द्वे तयोः पूर्वत्र संसदः ।संविद्युद्धे प्रतिज्ञायां सङ्केताचारनामसु ॥ ११५ ॥
अनुष्टुप्

संसद् as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् सभासभा संसदि सभ्ये च त्रिष्वध्यक्षेऽपि वल्लभः ॥ १३७ ॥ Amarakośa 3.3.137
  • कोषकल्पतरु गोष्ठीकुष्ठं तु रोगेऽपि सुगन्धभेदे गोष्ठी ********* । संलापसंसत्सु चरमे तु गोस्थले- ऽथाधमेऽप्यसारे च दुष्टः स्यात् । प्रष्ठः पुरोगामिनि च प्रशस्ये चण्डालिकासंज्ञक औषधे स्त्री । ज्येष्ठोऽतिवृद्धे त्रिषु च प्रशस्ये मासे तु ना स्त्री तु भभिन्मुसल्योः ॥ ५७ ॥ Koṣakalpataru 6.11.57
  • कोषकल्पतरु प्रतिश्रयपरिधायोऽम्भःस्थाने परिच्छदे स्यान्नितम्बे च । समुदय आजौ वृन्दे समुपक्रमवाचकश्चापि । प्रतिश्रयस्त्वाश्रयसंसदोः स्या- त्समुच्छ्रयस्तूच्छ्रयके विरोधे । हिरण्मयः स्यादिह लोकधातौ विशेष्यवद्धेममये प्रदिष्टः ॥ ८२ ॥ Koṣakalpataru 6.26.82
  • नानार्थार्णवसंक्षेप समितिसम्मतिस्त्वपि वाञ्छायामनुज्ञापूजयोरपि । समितिः परिषत्स्थाने युद्धे संसदि सङ्गमे ॥ ९९ ॥ Nānārthārṇavasaṃkṣepa 3.1.99
  • शब्दरत्नाकर सभामृतिव्यवस्थयोः संस्था सभा तु द्यूतसंसदोः । संवित् संकेतसमयप्रतिज्ञाचारनामसु ॥ २०२४ ॥ Śabdaratnākara 4.1.2024
  • शब्दरत्नाकर समितिसंभ्रमोऽत्यादरे भीतौ सायकः शरखड्गयोः । सामर्थ्ये शक्तिसंबन्धौ समितिर्युद्धसंसदोः ॥ २१८६ ॥ Śabdaratnākara 4.1.2186
  • वैजयन्ती सभासंभाषणे क्रियाकारे विज्ञाने तोषणेऽपि च । सभा तु संसदि द्यूते गृहे सामाजिकेषु च ॥ ४२ ॥ Vaijayantī 6.2.42
  • वैजयन्ती समितिशर्करावत्प्रदेशेषु सितायां शकले गुडे । समितिः परिषत्स्थाने युद्धे संसदि संगमे ॥ २७ ॥ Vaijayantī 7.2.27