कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

आस्थान

āsthānaक्ली · neut.

In 14 kośas: 15 synonym verses, 1 as a nānārtha head word, 3 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.481 · p. 22
सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः ॥ ४८० ॥सामाजिकाः सभा संसत्समाजः परिषत्सदः ।पर्षत्समज्यागोष्ठ्यास्था आस्थानं समितिर्घटा ॥ ४८१ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.15
समज्या परिषद्गोष्ठी सभासमितिसंसदः ।आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.778 · p. 89
स्वतन्त्रवृत्तिर्व्युत्थानमभ्युत्थानं च गौरवम् ।संस्थानं संनिवेशः स्यादास्थानं नृपतेः सभा ॥ ७७८ ॥
अनुष्टुप्
genderक्लीneut.
भवेदास्थानमास्थानी अरणि अरणी समे ।सनिः सनी च गदिता यती यतिरृषी रिषिः ॥ १९९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र (wrong syllable)
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.51 · p. 14
उपनी नापितगृहमास्थानं गृहभद्रकम् ।कुम्भकारस्य शाला तु बुधैः पाकपुटीरिता ॥ ५१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव ऋषिगोत्रब्रह्मप्रकाण्डः Kalpadrukośa 1.5.70 · p. 76
स्त्री समज्या समाज्या स्यात्पर्षत्परिषदौ न ना ।गोष्ठी सभा समित्संसन्न नास्थानं सदः सदाः ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.342 · p. 170
तत्संधितं तु सन्धानमास्थानं वस्तुनि त्रिषु ।शलाटुभिः फलैः शुष्कैर्मिश्रितैर्मधुरादिभिः ॥ ३४२ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.45 · p. 235
आस्थाऽऽस्थानी-परिषदः समज्या गोष्टिका च सा ।आस्थानं च सदः पुंसि स्त्रीनपुंसकयोः सदः ॥ ४५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.6.77 · p. 116
ल्युडकर्तरि चास्थानमास्थानी च तयब्युतम् ।आबनन्तो द्विगुः पञ्चखट्वी स्यात्पञ्चखट्ववत् ॥ ७७ ॥
अनुष्टुप्
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 112 · p. 56
पारिषद्यो बुधः सभ्यः सदः संसत्सभोचितः ।परिषत्सभाऽस्थानपती राजसूयो नृपक्रतुः ॥ ११२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.146 · p. 119
सभा संसत्समाजश्चास्था गोष्ठी पर्षदा सह ।समितिः स्त्री तथास्थानं दैवज्ञगणकौ समौ ॥ १४६ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.215 · p. 52
आस्थानी च समज्या चाप्यास्थानं सद इत्यपि ।क्रियाकलापबोद्धारः सदस्या विधिदर्शिनः ॥ २१५ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.743 · p. 104
सभा संसत् समाजश्च समज्या समितिः सदः ।आस्थाऽऽस्थानं तथाऽऽस्थानी पर्षत् च परिषद्घटा ॥ ७४३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.31 · p. 112
गोष्ठी परिषदास्थानमास्थानी संसदित्यपि ।हविर्गेहात्तु यः पूर्वः प्राग्वंशः सोऽभिधीयते ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.97 · p. 196
आस्थानमास्था, दैवज्ञे नैमित्तिको निमित्तवित् ।नैमित्तोऽपि च मौहूर्तो मौहूर्तिकेऽथ लेखके ॥ ९७ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 त्ति (wrong syllable); pāda 4, syllable 3 र्ति (wrong syllable)
genderक्लीneut.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.181 · p. 62
गजस्य स्कन्धदेशे च स्यादास्थानी तु नप्स्त्रियोः ।सदस्यथ प्रतिज्ञायां क्लीबमाक्रमणेऽपि च ॥ १८१ ॥
अनुष्टुप्

आस्थान as a meaning in nānārtha verses

  • धरणिकोश आस्थाआस्थामालम्बनं विद्यादास्था चास्थानयत्नयोः । संस्था तु प्रणिधौ नाशे स्थितिसादृश्ययोरपि ॥ Dharaṇikośa 16.2.1
  • नानार्थार्णवसंक्षेप राजसभा(शासे ?)केसरमालाख्ये स्यात् तु राजसभाध्वनिः । राष्ट्रेऽपि राज्ञ आस्थाने व्याख्याकारेण केनचित् ॥ ४६ ॥ Nānārthārṇavasaṃkṣepa 6.46
  • शब्दरत्नावली आस्थाअथोऽर्थने च विषये धने वस्तुनि कारणे ॥ अभिधेये निवृत्तौ च कुशले च प्रयोजने । आस्था चालम्बनास्थानयत्नापेक्षास्वपि स्त्रियाम् ॥ कन्था मृण्मयभित्तौ तु स्त्रियां प्रावरणान्तरे । क्वाथोऽतिदुःखे मूर्छायां निष्काके च द्रवस्य च ॥ कुथो वर्णे कथने स्यान्न क्लीबं पुंसि बर्हिषि । कोथस्तु शाटिते नेत्ररोगभेदे च पुंस्ययम् ॥ Śabdaratnāvalī 7.17.2