गोष्ठी
goṣṭhīस्त्री · fem.In 14 kośas: 14 synonym verses, 5 as a nānārtha head word, 16 as a meaning of another word.
सभ्याः सदस्याः पार्षद्याः सभास्ताराः सभासदः ॥ ४८० ॥सामाजिकाः सभा संसत्समाजः परिषत्सदः ।पर्षत्समज्यागोष्ठ्यास्था आस्थानं समितिर्घटा ॥ ४८१ ॥
अनुष्टुप्
genderस्त्रीfem.
समज्या परिषद्गोष्ठी सभासमितिसंसदः ।आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
स्त्री समज्या समाज्या स्यात्पर्षत्परिषदौ न ना ।गोष्ठी सभा समित्संसन्न नास्थानं सदः सदाः ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
गोष्ठी वानी रसवती मत्स्यण्ड्या सह दामनी ।कस्तूरी सिञ्जिनी मौर्वी क्षैरेय्यपि च देहली ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.
शृङ्गारहासबहुला किल कैशिकीयुग्गर्भावमर्शरहिताप्यनुदात्तवृत्ता ।[53a]यस्यां नराश्च दश वा नव वा स्त्रियः स्युःषट् पञ्च वा विलसदङ्कवरा च गोष्ठी ॥ ६८ ॥
वसन्ततिलका
genderस्त्रीfem.
काष्ठा विष्ठा पाठा मञ्जिष्ठा चुण्ठिवद्गोष्ठी ।शुण्डी शुण्डा जडापि स्याच्चण्डा वेडा तथा पण्डा ॥ ४७ ॥
metre not recognised
genderस्त्रीfem.
सभा संसत्समाजश्चास्था गोष्ठी पर्षदा सह ।समितिः स्त्री तथास्थानं दैवज्ञगणकौ समौ ॥ १४६ ॥
अनुष्टुप्
genderस्त्रीfem.
खल्ली मदी च खण्डाल्यजाजी नध्र्येषणी पुनः ।मत्स्यण्डी शष्कुली गोष्ठी देहलीस्नायुचञ्चवः ॥ ६६ ॥
अनुष्टुप्
genderस्त्रीfem.
सभा समज्या परिषत्संसच्च समितिः सदः ।गोष्ठ्यास्थानी समाजश्च पर्षत्सभ्याः समाजिकाः ॥ १२ ॥
अनुष्टुप्
genderस्त्रीfem.
गोष्ठी त्रयोदशं नाम समितेर्नामसंग्रहे ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 षि (wrong syllable)
genderस्त्रीfem.
गोष्ठी परिषदास्थानमास्थानी संसदित्यपि ।हविर्गेहात्तु यः पूर्वः प्राग्वंशः सोऽभिधीयते ॥
अनुष्टुप्
genderस्त्रीfem.
गोष्ठी समज्या परिषत् सभासमितिसंसदः ।स्त्रियां वा स्थानसदसी सदस्या विधिदर्शिनः ॥ १२२९ ॥
अनुष्टुप्
genderस्त्रीfem.
क्रियाकरो नवच्छात्रः कार्पटिकः स मर्मवित् ।पर्षत्परिषदी गोष्टी राजसूयो नृपाध्वरः ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 टि (wrong syllable)
genderस्त्रीfem.
सदस्या देशिकाः स्थेयाः सभास्ताराः सभासदः ।सभ्याः सामाजिकाश्चाथ गोष्ठ्यास्था परिषत् सभा ॥ १३ ॥
अनुष्टुप्
genderस्त्रीfem.
श्रेष्ठः कुबेरवरयोः कुष्ठं व्याधिसुगन्धयोः ।गोष्ठं व्रजः सभा गोष्ठी शठो धुस्तूरधूर्तयोः ॥
अनुष्टुप्
meaningsसभा
गोदा तु गोदावर्यां स्त्री गोष्ठः सामान्तरे पुमान् ।गोस्थाने तु नृशण्डोऽथ गोष्ठी तु सदसि स्त्रियाम् ॥ ३७५ ॥
अनुष्टुप्
meaningsसदस्
गोष्ठी as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) घटातेजस्यपि धाम स्यादाधारेऽप्याशयो घटा गोष्ठ्याम् । कुल्या कुलस्त्रियामपि तारो मुक्तागुणेऽप्युक्तः ॥ ७९८ ॥ Abhidhānaratnamālā (Halāyudha) 5.798
- धरणिकोश सभानाभी प्राण्यङ्गराजन्यौ चक्रान्तचक्रवर्तिनौ । सभा सभ्याः सभा गोष्ठी सभा द्यूतं सभा गृहम् ॥ Dharaṇikośa 23.2.2
- कोषकल्पतरु घटाघटः समाधौ कुटमौलिकूटयो- र्घटा[तु] गोष्ठ्यां गजसज्जनायाम् । कुटस्तु कूटे च घटे च तद्व- द्वलाङ्गके प्रस्तरकुट्टके स्त्री ॥ ३ ॥ Koṣakalpataru 6.10.3
- कोषकल्पतरु सभावंशे तथा वांशिकदण्डके च स्त्रियां कदल्यां त्रिदिवाङ्गनासु । सभाऽक्षवत्यां सभिके च गोष्ठ्यां गेहेऽथ शोभा द्युतिकाङ्क्षयोश्च ॥ ४३ ॥ Koṣakalpataru 6.24.43
- नानार्थार्णवसंक्षेप आस्थाप्रतिज्ञायत्नतात्पर्यगोष्ठीषु स्यादथापरे । आह्वा कण्ठे कथायां चेत्याहुराह्वा तु नामनि ॥ ७ ॥ Nānārthārṇavasaṃkṣepa 2.1.7
- नानार्थार्णवसंक्षेप घटावाद्यवृत्तिप्रभेदे च लोहे तमरकाह्वये । घटा स्त्री घटने गोष्ठ्यां हस्तिसङ्घटनेऽपि च ॥ ३८४ ॥ Nānārthārṇavasaṃkṣepa 2.5.384
- नानार्थार्णवसंक्षेप षण्डसदो य…?…?…न्द्वयस्य यः । पश्चाद्देशस्तत्र शण्डो गोष्ठ्यां तु स्त्रीनपुंसकम् ॥ १४८० ॥ Nānārthārṇavasaṃkṣepa 2.5.1480
- नानार्थार्णवसंक्षेप तारणतारणी तु स्त्रियां गोष्ठ्यामथ स्यात् तारणा न ना । अर्थे तारयतेस्त्रिस्तु तरणेस्तरणस्य च ॥ ८५२ ॥ Nānārthārṇavasaṃkṣepa 4.852
- नानार्थार्णवसंक्षेप प्रतिश्रयप्रतियत्नस्तु संस्कार उपग्रहणलिप्सयोः । प्रतिश्रयस्तु विज्ञेयः स्थाने गोष्ठ्यां च सूरिभिः ॥ ७२ ॥ Nānārthārṇavasaṃkṣepa 6.72
- परमानन्दीयनाममाला घटाघृतं दीप्तौ जलेऽथाज्ये घृणा निन्दा दया स्मृता । घटा गोष्ठ्यां गजश्रेणौ घृणिर्ज्वालांशुवीचिषु ॥ १७३ ॥ Paramānandīyanāmamālā 5.10.173
- शब्दरत्नावली घटाघटः कुम्भशिरः कूटे समाधिभिदि पुंस्ययम् । घटागोष्ठीभघटनाघटनेष्वपि च स्त्रियाम् ॥ Śabdaratnāvalī 7.11.12
- शब्दरत्नावली सभादम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
- शब्दरत्नावली रसरासे रसस्तु शृङ्गारे गोष्ठामुत्सवरासयोः । राजहंसो नृपश्रेष्ठे कादम्बकलहंसयोः ॥ Śabdaratnāvalī 7.32.52
- शब्दरत्नाकर आस्थाअधिष्ठाने चित्तदुःख आस्था गोष्ठीप्रतिज्ञयोः । तत्परत्वेऽवलम्बेऽथ शुभवाक्याहिदंष्ट्रयोः ॥ १८७३ ॥ Śabdaratnākara 4.1.1873
- वैजयन्ती आस्थाआस्था गोष्ठ्यां प्रतिज्ञायां तत्परत्वेऽवलंबने । आशीरुरगदंष्ट्रायां शुभवाक्याभिलाषयोः ॥ २ ॥ Vaijayantī 6.2.2
- वैजयन्ती प्रतिश्रयप्रतियत्नस्तु संस्कार उपग्रहणलिप्सयोः । स्थाने गोष्ठ्यां सत्रशाले प्रत्याहारे प्रतिश्रयः ॥ ३१ ॥ Vaijayantī 8.1.31