समिता
samitāस्त्री · fem.In 5 kośas: 6 synonym verses.
genderस्त्रीfem.
विकसो वापि गोधूमसम्भवे समिता स्त्रियाम् ।स्फोटे गोधूमजे स्थूली कणिका यावनालजे ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
बाह्योदनो यावकः स्याद्यवैः स्विन्नैश्च निस्तुषैः ।दलितैर्यवगोधूमैः स्थूला सा समिता स्त्रियाम् ॥ २४६ ॥
अनुष्टुप्
genderस्त्रीfem.
गोधूमचूर्णं समिता शुद्धा च कणिका स्त्रियः ।गो[128a]धूम-सुमनौ तुल्यौ भूजम्बूरत्र योषिति ॥ ३२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
चिपिटः पृथुकश्चैव यवचूर्णे तु चिक्कसः ।गोधूमस्य मतं चूर्णं समिता सम्मता स्त्रियाम् ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
गोधूमचूर्णः समिता यवक्षोदस्तु चिक्कसः ।गुड इक्षुरसक्वाथः सितोपला तु शर्करा ॥ ६०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderस्त्रीfem.