चिपिट
cipiṭaपुं · masc.In 17 kośas: 17 synonym verses, 4 as a nānārtha head word, 7 as a meaning of another word.
genderपुंmasc.
genderविadj.
भृष्टं धान्यं लाजाः पृथुकाश्चिपिटाश्च कुट्टितास्ते स्युः ।भृष्टा यवास्तु धाना दरपक्वा कथ्यतेऽभ्यूषः ॥ ५८५ ॥
आर्या
genderपुंmasc.
अभ्यूषः स्यादभ्युषोऽपि अभ्योषोऽपि समा इमाः ।चिपिटः स्याच्चिपिटकः चिपिटश्च (चिपटश्च?) समात्रयः ॥ २३८ ॥
अनुष्टुप्
genderपुंmasc.
धाना आर्द्रा व्रीहयस्तु भ्रष्टा अत्यन्तकण्डिताः ।पृथुकश्चिपिटास्ते स्युर्गोधूमाः स्युस्तथाविधाः ॥ ७८ ॥
अनुष्टुप्
genderपुंmasc.
नासा नर्क्कुटकं नक्रं घ्राणं न स्त्री नासिक्यमन्यवत् ।चिकिनं चिपिटं चिक्क निबिडं निबिरीसवत् ।अवटीटावनाटावभ्रटान्यपि नतेन सः ।ओष्ठाधरौ तु रदनच्छदौ दशनवाससी ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderविadj.
लाजा भूम्नि द्वयोर्भृष्टः शलिखादिक उद्बुसः ।भृष्टार्द्रशूकधान्ये स्यात्पृथुकश्चिपिटः समौ ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
ईषन्निमीलिते क्लीबं चिक्कणस्त्वभिधेयवत् ।मसृणे ना तु कट्वाख्यधान्येऽथ चिपिटः पुमान् ॥ ७४८ ॥
अनुष्टुप्
genderपुंmasc.
चिपिटः पृथुकश्चैव यवचूर्णे तु चिक्कसः ।गोधूमस्य मतं चूर्णं समिता सम्मता स्त्रियाम् ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
चिपिटः पृथुकश्चैव चिपिटकोऽपि कथ्यते ॥ ५९८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अवनाटोऽवटीटश्चाऽवभ्रटो नतनासिके ।चिपिटो नम्रनासिकश्चेति चिपिटनासिके ॥ ६८६ ॥
अनुष्टुप्metre not read in every line
genderविadj.
वटकः पिष्टपूरः स्यात् पृथुकश्चिपिटोऽपि च ।चिपीटकश्चिपिटकः स्यात् धान्यचमसोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
मर्मराले पर्पटश्चपटः पृथुके चेः पुटः ।चिपिटश्चिपिटिका शर्करायामुपला सिता ॥ ४५ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 के (wrong syllable); pāda 3, syllable 6 टि (wrong syllable)
genderपुंmasc.
पृथुकश्चिपिटस्तुल्यौ धाना भृष्टयवे स्त्रियाम् ।पुंसि भूम्नि च लाजाः स्युः पूपापूपौ तु पिष्टकः ॥ १४३६ ॥
अनुष्टुप्
genderपुंmasc.
चिपिटो धान्यचमसश्चित्रापूपश्चरुव्रणः ।आलिम्पना तर्पणा दीपनं मण्डोदकं च तत् ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
गोधूमचूर्णे शमिता चिक्कसो यवचूर्णके ।पृथुकश्चिपिटो लाजाः पुंभूम्नि परिवारकः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
चिपिटः पिच्छितो व्यूढे स्थपुटं विषमोन्नतम् ।आनतं तु नतं नम्रं बन्धुरं तून्नतानतम् ॥ ८३ ॥
अनुष्टुप्
genderविadj.
चिपिटस्त्वथ पिच्चटार्थकःपरवद्भक्ष्यविशेषके नरि ।दमुटः कमठेऽप्यहर्मणा-वथ मत्तेऽप्यतितीव्र उत्कटः ॥ २७ ॥
वियोगिनी
पृथुकाह्वयभक्षे स्यात् त्रि तु पिच्छितविस्तृते ।चित्रकृत् तु पुमानुक्तस्तिमिशाह्वयपादपे ॥ ७४९ ॥
अनुष्टुप्
doubtful
चिपिट as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् पृथुकजम्बुकौ क्रोष्टुवरुणौ पृथुकौ चिपिटार्भकौ । Amarakośa 3.3.3
- धरणिकोश पृथुकनरकौ दैत्यनिरयौ पृथुकौ चिपिटार्भकौ । लासको नर्तके वेष्टे तर्ककौ गृध्रकाङ्क्षिणौ ॥ Dharaṇikośa 1.1.12
- कोषकल्पतरु पृथुकत्रिष्वणुको निपुणेऽल्पे पृथुकश्चिपिटे पुमाञ्शिशौ वसुकः । त्रय्यां स्याच्छिवमल्ल्यां मन्दारे रामके तद्वत् ॥ २८ ॥ Koṣakalpataru 6.1.28
- नानार्थार्णवसंक्षेप पृथुकइत्येव पृथुकस्तु स्यात् पुमांश्चिपिटसंज्ञके । भक्षभेदे द्वे तु बाले पृदाकुस्तु पुमानयम् ॥ १२११ ॥ Nānārthārṇavasaṃkṣepa 4.1211
- परमानन्दीयनाममाला पृथुकपर्यङ्को मञ्चके तन्त्रेऽप्यर्भके पृथुकः पुनः । चिपिटेऽथ प्रमाणं स्यात्सत्ये माने च कारणे ॥ ३०५ ॥ Paramānandīyanāmamālā 5.19.305
- शिवकोष पृथुकपृथुकश्चिपिटे चारुपत्रिकायां तु योषिति । बन्धूकोऽस्त्री बन्धुजीवे बन्धुकः पीतसालके ॥ ३८ ॥ Śivakoṣa 1.3.38
- वैजयन्ती पृथुकपृथुकश्चिपिटे बाले पृदाकुर्व्याघ्रसर्पयोः । भासन्तावर्कनक्षत्रे सूर्यश्चाग्निश्च भास्करौ ॥ ५८ ॥ Vaijayantī 7.1.58