गुड
guḍaपुं · masc.In 18 kośas: 42 synonym verses, 8 as a nānārtha head word, 17 as a meaning of another word.
गुड इक्षुरसक्वाथः शर्करा तु सितोपला ॥ ४०२ ॥सिता च मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः ।मत्स्यण्डी फाणितं चापि रसालायां तु भार्जिता ॥ ४०३ ॥शिखरिण्यथ यूर्यूषो रसो दुग्धं तु सोमजम् ।गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥ ४०४ ॥
अनुष्टुप्
genderपुंmasc.
ग्रासो गुडेरकः पिण्डो गडोलः कवको गुडः ॥ ४२५ ॥गण्डोलः कवलस्तृप्ते त्वाघ्रातसुहिताशिताः ।
अनुष्टुप्
genderपुंmasc.
आलावर्तं तु वस्त्रस्य कङ्कतः केशमार्जनः ।प्रसाधनश्चाथ बालक्रीडनके गुडो गिरिः ॥ ६८८ ॥गिरियको गिरिगुडः समौ कन्दुकगेन्दुकौ ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
genderपुंmasc.
जन्तोरामाशयः पुंसि पुंसि क्लीबेऽपि मध्यमम् ।क्लीबे वलग्नं चाथ स्यात्पृष्ठग्रन्थौ गुडः पुमान् ॥ १९९ ॥
अनुष्टुप्
genderपुंmasc.
गिरियको गिरिगुडो बालक्रीडनको गुडः ।गिरिपर्यायवचनः समौ कन्दुकगन्दुकौ ॥ ४३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
genderपुंmasc.
विकारः फाणितगुडमत्स्यण्डी खण्डशर्करः ।शिशुप्रियोरुणः खण्डो रसजः फाणितं तु षण् ॥ २१४ ॥
अनुष्टुप्
genderपुंmasc.
अपि क्षुद्रगुडोथ स्याद्गुडः स्वादुश्च मोदकी ।मधुरो रसपाकोत्थक्वाथोथ क्षुद्रशर्करा ॥ २१५ ॥
अनुष्टुप्
genderपुंmasc.
ग्रासो गुडेरकः पिण्डो द्वयोर्गण्डोलको गुडः ।क्लीबे स्याद्गिरणं गीर्णिगीर्णी तुल्ये गिरिर्गिटी ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
कर्पासी वदरी वर्च्या समुद्रान्ता मरूद्भवा ।तुला पिचुर्गुडोऽपि स्याद्वादरस्तुण्डकेरिका ॥ ५२६ ॥
अनुष्टुप्
genderपुंmasc.
मुञ्जवाजाजावटानां तथा पट्टप्रकोष्ठयोः ।कोष्ठाङ्गुष्ठघटानां च प्रगण्डस्य गुडस्य च ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.
फडचुडगुडानां च तथैव फणशाणयोः ।वारिपर्णस्य गर्तस्य रथाजमोदयोरपि ॥ ११८ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 चु (wrong syllable); pāda 4, syllable 3 ज (wrong syllable)
genderपुंस्त्रीm. f.
एवं स्यात्संमुखीनेऽथ न स्त्री भ्रमरको गुडः ।गिरिर्गुडेरो गण्डोलो गडोलोऽस्त्री तु कन्दुकः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
गुडः पिण्डो गडोलश्च गण्डोलः कवकोऽपि सः ।कवलोऽस्त्री स्वयं त्वेष बद्धः सिन उदीर्यते ।स्यात्सितोऽन्यस्तर्पणं तु तृप्तिः सौहित्यमित्य[131b]पि ॥ ७६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
विकाराः फाणित-गुड-मत्स्यण्डी-खण्ड-शर्कराः ।गुड इक्षुरसक्वाथो मत्स्यण्डी पल्लिकापि सा ॥ ८३ ॥
अनुष्टुप्
genderपुंmasc.
करण्ड-कूष्माण्ड-वरण्ड-रुण्ड-भारुण्ड-गुण्डा लगुडः शिखण्डः ।गुडः पिचण्डोऽथ जपाप्रसून-निवाप-कोपेषु च पिण्ड उक्तः ॥ १५ ॥
उपजातिः
genderपुंmasc.
ऋष्टिर्यष्टिर्भुष्टि-र्गुडश्च शुण्डो गणे पिण्डः ।अरणिस्तथाणिराणि-र्दरणिः श्रोणिर्मणिः श्रेणिः [230b] ॥ २२ ॥
metre not recognised
genderपुंस्त्रीm. f.
चतुष्पथादीनां नपुंसकत्वं विद्धि जानीहि । इदं चतुष्पथम् । युगलं युग्मम् । छलं व्याजः । चेलं वस्त्रजातिः । खोलं भग्नभाण्ड[ड]म् । धिष्ण्यं गृहम् । अर्गलं द्वारपिधानम् । शफं खुरः । पण्यं विक्रेतव्यम् । पिच्छं मयूरस्य । पलं चतुःपलिपरिमाणम् ।रयमण्डपनरककपालगुडमणिमेढ्रदर्दुरकुसूलाः ।युग्माकाशव्रतशृङ्गवर्जिताः मञ्चः सदा पुंसि ॥ ६९ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चे (wrong syllable)
genderपुंmasc.
लोभाख्यं श्यामवल्ली च त्र्यूषणं कटुकत्रयम् ।क्षारो गुडोऽस्य विकृतौ मत्स्या स्यात्खण्ड [ शर्करा ] ॥ २२२ ॥
अनुष्टुप्
genderपुंmasc.
एकस्यां हारभेदे च द्वात्रिंशद्यष्टिकेऽथ सा ।गुच्छा स्त्री माषधान्ये च गवीथौ च गुडः पुनः ॥ ३५३ ॥
अनुष्टुप्
genderपुंmasc.
गुडक्वाथौ समावीक्षुरसः स्याच्छर्करा पुनः ।सितोपला सिता तुल्ये मधुधूलिस्तु खण्डकः ॥ ७० ॥
अनुष्टुप्
genderपुंmasc.
प्रातराशः कल्यवर्तः सग्धिः स्यात्सहभोजने ।गुडो गुडेरको ग्रासपिण्डौ कवक इत्यपि ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
गेन्दुकः कन्दुको बालक्रीडने तु गुडो गिरिः ।गिरियकौ गिरिगुडो राजा भूभृन्महीपतिः ॥ ३२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 य (wrong syllable)
genderपुंmasc.
किटश्चपेटो गुडशुण्डशाणागर्ताजमोदौ रथवारिपर्णौ ।कुठारहारौ शफरो मसूरोवर्ध्रो विधो मुद्गरनालिकेरौ ॥ १११ ॥
उपजातिः
genderपुंस्त्रीm. f.
मूलपाग्रं शिफाप्रान्तं शिफा शाखावरोहकः ।उत्सेध उच्छ्रय[यः] इध्म दारु काष्ठेन्धनं गुडम् ॥ १५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
व्रीहिः शालिस्तन्दुलिकः कलमः षष्ठिको गुडः ।कङ्गुः प्रियङ्गुर्नीवारो वनशालिर्मुनिप्रियः ॥ २५६ ॥
अनुष्टुप्
genderपुंmasc.
गोमेदजं पल्युलनं? चूर्णं क्षारः सुधाह्वयः ।कृष्णकन्दो गुडो ग्रन्थी शर्करा खण्डकः सिता ॥ २७७ ॥
अनुष्टुप्
genderपुंmasc.
खण्डस्तु मधुधूलिः स्यान्मत्स्यण्डी फाणितं वरा ।सितोपला शर्करा च सिताथेक्षुरसो गुडः ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
गोधूमचूर्णः समिता यवक्षोदस्तु चिक्कसः ।गुड इक्षुरसक्वाथः सितोपला तु शर्करा ॥ ६०० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
genderपुंmasc.
ग्रासो गुडश्च गण्डोलो गडोलश्च गुडेरकः ।कवकः कवलः पिण्डश्चेत्यादि ग्रासनामकाः ॥ ६४२ ॥
अनुष्टुप्
genderपुंmasc.
गिरिगुडो गुडो गिरिः गिरिकश्च गिरीयकः ॥ ११२० ॥
metre not recognised
genderपुंmasc.
गुडो गुलः स्वादुखण्डोऽस्त्रियां गण्डोल इत्यपि ।मृष्टे दध्नि शिखरिणी रसाला मार्जितेत्यपि ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 ध्नि (wrong syllable)
genderपुंmasc.
निघसोऽपि विष्वाणाऽवष्वापौ जमन-जेगने ।ग्रासे गुडेरक-गुडौ गुडेरोऽपि गडोलयुक् ॥ ६२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
genderपुंmasc.
कङ्कती, बालक्रीडने गिरिको गिरिवद्गुडः ।गिरिगुडो गिरियको गिरीयकोऽथ गिन्दुकः ॥ २३६ ॥
metre not recognised
genderपुंmasc.
गुडो गुडा गुडी वज्रो वज्रा वज्री सिहुण्डवत् ।सीहुण्डो पराजितायामास्फोटा स्फोतया समम् ॥ १५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
genderपुंmasc.
नखं कोलदलं शुक्तिः खुरः शङ्ख समार्थकाः ।गुडः क्षारोऽस्य विकृतौ मत्स्यण्डी खण्डशर्करा ॥ १४९० ॥
अनुष्टुप्
genderपुंmasc.
गण्डोलं स्याद्गुडः स्वादुः पिप्यटा गुडशर्करा ।महाश्वेता तु मधुजा प्रयस्तं स्यात्सुसंस्कृतम् ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
द्राक्षाफलो गुडश्चाथ न्यग्रोधो बहुपाद्वटः ।श्रीवृक्षे पिप्पलोऽश्वत्थः प्लक्षश्चलदलोंऽगुलः ॥ २७ ॥
अनुष्टुप्
genderपुंmasc.
कबलः कबतो ग्रासो गुडः पिण्डो गुडेरकः ।गण्डोरश्च गडोलश्च चर्वणं चूषणं रदैः ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
दीपवृक्षस्तदाधारो दशा वर्तिरथ स्त्रियाम् ।वर्तिर्गृहमणिर्दीपो गिरीयकगुडौ गिरिः ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
उक्तद्वयमुपस्थोऽस्त्री गुह्यप्रजनने नपुम् ।सीवन्यस्मादधः सूत्रं गुह्यमध्यं गुडो मणिः ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
तिलकं क्लोम गोर्दं तु मस्तिष्को मस्तुलुङ्गकः ।पेशिर्मांसलताथ द्वौ वृक्यौ पार्श्वगतौ गुडौ ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.
श्लीपदः पदवल्मीको गतिर्नाडीव्रणः पुमान् ।अर्बुदो मांसकीलः स्यात्पृष्ठग्रन्थिर्गुडो गडुः ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
गुडः स्याद्धस्तिसंनाहे गुडो गोलेक्षुपाकयोः ।[26] गुडा तु गुडिका ज्ञेया स्नुही च कथिता गुडा ॥
अनुष्टुप्
पिण्डे चेक्षुविकारे च वकुलाख्यमहीरुहे ।गोले चेत्यपरे स्त्री तु स्नुहीगुलिकयोर्गुडा ॥ ३५४ ॥
अनुष्टुप्
गुडस्तु गोलके हस्तिसंनाहेक्षुविकारयोः ।गोष्ठं वने गवां स्थाने गोष्ठी संलापपर्षदोः ॥ १५१ ॥
अनुष्टुप्
गडो मत्स्यप्रभेदे स्यात्परिखाव्यवधानयोः ।गुडो द्विरदसन्नाहे गोलकेक्षुविकारयोः ॥
अनुष्टुप्
गुडौ पिण्डेशुविकृती स्नुहीगुलिकयोर्गुडा ।गुरुर्गीष्पतिपित्राद्योः पौरोहित्यकरे च ना ॥ २७ ॥
अनुष्टुप्
गुड as a meaning in nānārtha verses
- कोषकल्पतरु गोलकस्यात्पूगकोशे कृमिपर्वते च पाके शिरस्त्रेऽपि च खोलको ना । स्याद्गोलको ना मणिके गुडेऽपि तोयस्थितग्राव्णि तु कूपकः स्यात् ॥ ६५ ॥ Koṣakalpataru 6.1.65
- कोषकल्पतरु वटवटस्तु न स्त्री समतावराट- कपर्दभक्ष्येषु गुडेऽपि तद्वत् । न्यग्रोधशुम्बेषु स तु त्रिलिङ्गो द्वंद्वेन हीनः स फले वटस्य ॥ ५ ॥ Koṣakalpataru 6.10.5
- कोषकल्पतरु फाणिव्यूतौ स्त्री च निषङ्गके त्रिषु भवेत्तूणोऽथ नील्यां स्त्रियां वाणी तु श्रुतिभारतीद्वयगता फाणिस्तु खर्वे गुडे । ऊर्म्यर्चिः किरणेषु पुंसि च घृणिः स्थाणुः पुमाञ्शंकरे न स्त्री स ध्रुवकीलयोरथ नृपे वंशे च वेणुः पुमान् ॥ १६ ॥ Koṣakalpataru 6.15.16
- नानार्थार्णवसंक्षेप क्षारगुडे काचाख्यमृद्भेदे स्वर्जिकाक्षारसंज्ञके । लवणेऽपि यवक्षारे तिक्तस्य लवणस्य च ॥ १९५ ॥ Nānārthārṇavasaṃkṣepa 2.5.195
- नानार्थार्णवसंक्षेप शर्करारोगभेदे सितायां च शकलाल्पकपालयोः । शर्करावत्प्रदेशे च गुडे चाप्याह यादवः ॥ ९० ॥ Nānārthārṇavasaṃkṣepa 3.1.90
- परमानन्दीयनाममाला क्षारमोक्षे च मङ्गले क्षारो रसे काचे गुडादिके । क्षुद्रा वेश्या नटी व्यङ्गी क्षरो मेघे क्षरं जले ॥ ३८१ ॥ Paramānandīyanāmamālā 5.29.381
- शिवकोष क्षारऐन्द्री स्यादिन्द्रवारुण्यां शेफल्यां सारिवैलयोः । क्षारः पाक्ये गुडे काचे यवजे पटुभस्मनोः ॥ ३७२ ॥ Śivakoṣa 22.2.372
- शिवकोष वरवर्यभीरौ वरं धीरकुम्भसिन्धुगुडत्वचि । वरा वन्ध्याचन्द्रहासापौत्रीपाठाफलत्रिके ॥ ३८३ ॥ Śivakoṣa 22.2.383
- शब्दरत्नावली गोलकगुण्डकः स्नेहपात्रे स्याद् धूलौ च मण्डलेऽपि च । गैरिकं कणके धातौ गृह्यकण्ठोकनिघ्नयोः(?) ॥ गोलकस्तु गुडे जारात् विधवातनयेऽपि च । गोरङ्कुः पक्षिभेदे स्यान्नग्नके वन्दितेऽपि च ॥ Śabdaratnāvalī 7.1.69
- शब्दरत्नावली गडुवीथ्यङ्गे पिटके चिहणे ग्रहे वीरे कपोलके । गडुः कुब्जे गले पृष्ठे गुडे शल्ये पुमानयम् ॥ Śabdaratnāvalī 7.13.10
- शब्दरत्नावली फाणिफाणिः करम्भे गुडे च वाणी भारतीभाषयोः ॥ Śabdaratnāvalī 7.15.11
- शब्दरत्नाकर क्षारपेषणे रजसि क्षोदः क्षारस्तु गुडभस्मनोः । काण्डोऽस्त्री दण्डवर्गेषुनालावसरवारिषु ॥ १८८७ ॥ Śabdaratnākara 4.1.1887
- शब्दरत्नाकर पिण्डदेशक्रिमीक्षुतिलकातिमुक्तेषु विशेषके । पुण्ड्रः पिण्डस्तु वपुषि गुडे वृत्ते सुसंहते ॥ १९४९ ॥ Śabdaratnākara 4.1.1949
- वैजयन्ती क्षारकण्ठो गलेऽन्तिके शब्दे कपयोऽर्केभवानराः । गुडभस्मरसाः क्षाराः क्षोदो रजसि पेषणे ॥ १३ ॥ Vaijayantī 6.1.13
- वैजयन्ती पिण्डनाशः पलायने मृत्यौ परिध्वंसेऽप्यदर्शने । नग्ना वैतालिकाद्याश्च पिण्डो वृत्ते तनौ गुडे ॥ ३१ ॥ Vaijayantī 6.1.31
- वैजयन्ती शारिमाल्याक्षतादिदाने स्त्री ना नागेशाप्रधानयोः । ना पर्याणे विहंगे स्त्री शारिर्द्यूते गुडे नषण् ॥ ८८ ॥ Vaijayantī 6.5.88
- वैजयन्ती शर्कराशर्करावत्प्रदेशेषु सितायां शकले गुडे । समितिः परिषत्स्थाने युद्धे संसदि संगमे ॥ २७ ॥ Vaijayantī 7.2.27