All kośas › Paramānandīyanāmamālā
परमानन्दीयनाममाला Paramānandīyanāmamālā
1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)
चतुर्थः परिच्छेदः (1/4)
इति श्रीकायस्थचिरवारीयमाथुरवंशविभूषणमणिश्रीमद्गढमलाङ्गजश्रीमत्परमानन्दनन्दनन्दनविरचितायां परमानन्दियनाममालायां तृतीयः परिच्छेदः समाप्तः ॥
॥ [चतुर्थः परिच्छेदः] ॥
स्थित्युपादविनाशात्मजगतो हेतवे सते ।कूटस्थाय नमस्तस्मै कस्मैचित्परमात्मने ॥ १ ॥
4.1 · p. 101
अनुष्टुप्
मनुष्यो मानवो मर्त्यो मनुजः पुरुषो नरः ।भूस्पृक्पूरुषो विट् स्यात्पुमानन्पञ्चजनो नरि ॥ २ ॥
4.2 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षो (wrong syllable)
बालस्तनंधयौ पोतः पाको डिम्भः कुमारकः ।शिशुः शावोऽर्भकः क्षीरकण्ठोत्तानशयावपि ॥ ३ ॥
4.3 · p. 101
अनुष्टुप्
शैशवं शिशुता बाल्यं युवा स्यात्तरुणः समः ।वयःस्थोऽप्यथ वृद्धे तु स्थविरः प्रवया जरन् ॥ ४ ॥
4.4 · p. 101
अनुष्टुप्
जी[56]नो जीर्णो जरी यातयामो वृद्धत्ववार्द्धके ।विस्रसा स्थाविरं ज्यायान्वर्षीयान्दशमी पुनः ॥ ५ ॥
4.5 · p. 102
अनुष्टुप्
पण्डितः कोविदो विद्वान्कृष्टिर्व्यक्तः कृती कविः ।मेधावी सूरिदोषज्ञा ज्ञः प्राज्ञो निपुणः पटुः ॥ ६ ॥
4.6 · p. 102
अनुष्टुप्
विचक्षणः सुधीर्धीरो विपश्चिच्चतुरोऽपि च ।दक्षोऽभिज्ञो बुधो लब्धवर्णो वैज्ञानिकस्तथा ॥ ७ ॥
4.7 · p. 102
अनुष्टुप्
मनीषी प्राप्तरूपोऽपि निष्णातोऽप्यभिरूपकः ।दक्षः कृतमुखश्चैव कृतहस्तोऽपि दृश्यते ॥ ८ ॥
4.8 · p. 102
अनुष्टुप्
संख्यावान्कृतकर्मापि प्रवीणोऽपि विशारदः ।प्रगल्भः प्रतिभायुक्तो विदग्धः छेक इत्यपि ॥ ९ ॥
4.9 · p. 102
अनुष्टुप्
छइल्लो दृश्यते देश्ये प्रौढो बुद्धिगुणान्विते ।सूक्ष्मदर्शी कुशाग्रीयबुद्धिस्तत्कालबुद्धिदः ॥ १० ॥
4.10 · p. 102
अनुष्टुप्
दूरदर्शी दीर्घदर्शी प्रत्युत्पन्नमतिः पुनः ।चिद्रूपो हृदयालुस्तु हृष्टः सहृदयस्तथा ॥ ११ ॥
4.11 · p. 102
अनुष्टुप्
क्षुण्णे प्रहत इत्येवमन्तर्वाणिस्तु वेत्तरि ।वाग्मिवाक्पतिवागीशा वावदूकः प्रवाक्तु सः ॥ १२ ॥
4.12 · p. 102
अनुष्टुप्
वदावदो वदो वक्ता वाचाटः कद्वदश्च सः ।समौ जल्पाकवाचालौ यद्वदोऽनुत्तरस्तु सः ॥ १३ ॥
4.13 · p. 102
अनुष्टुप्
एडमूकानेडमूकौ हीनवादिनि विश्रुतौ ।शब्दनो रवणस्तुल्यौ कुवादे कुचरो मतः ॥ १४ ॥
4.14 · p. 103
अनुष्टुप्
लोहलोऽव्यक्तवाचि स्यान्मूकोऽवागस्वरः समः ।विदुरो वेदिता विन्दुर्वन्दारुः स्तुतिकर्तरि ॥ १५ ॥
4.15 · p. 103
अनुष्टुप्
आशंसितरि चाशंसुर्दुर्मुखे मुखरः स्मृतः ।तथाबद्धमुखश्चापि शक्तः प्रियंवदे मतः ॥ १६ ॥
4.16 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्रि (wrong syllable)
वदन्यो दानशीले स्याद्वदान्योऽपि च दृश्यते ।मूर्खो बालो जडोऽमेधो विवर्णो मातृशासितः ॥ १७ ॥
4.17 · p. 103
अनुष्टुप्
वैधेयो मूढमन्दौ च यथाजातोऽपि बालिशः ।देवानां वल्लभो जाल्मः क्रियाकुण्ठेऽथ कथ्यते ॥ १८ ॥
4.18 · p. 103
अनुष्टुप्
मन्दश्चिरक्रिये तु स्याद्दीर्घसूत्रोऽन्यलिङ्गवत् ।कर्मोद्यतः क्रियावान्स्यात्कर्मठः कर्मतत्परः ॥ १९ ॥
4.19 · p. 103
अनुष्टुप्
कर्मक्षमः कर्मशीलोऽलंकर्मीणोऽपि कथ्यते ।तीक्ष्णकर्मकरः प्रोक्तः शूलिकः स्वरुचौ पुनः ॥ २० ॥
4.20 · p. 103
अनुष्टुप्
स्वैर्यपावृतस्वच्छन्दौ यथाकामी निरर्गलः ।निर[57]वग्रहः स्वतन्त्रोऽपि स्वेच्छा स्वैरिता च सा ॥ २१ ॥
4.21 · p. 104
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable); pāda 3, syllable 4 ग्र (wrong syllable)
यदृच्छा नाथवान्निघ्नगृह्यकौ श्लीललक्ष्मणौ ।लक्ष्मीवानीश्वरश्चेभ्यो धमाढ्योऽपि विभाव्यते ॥ २२ ॥
4.22 · p. 104
अनुष्टुप्
छन्दाधीनवशायत्ततन्त्राद्यास्तत्र भूरिशः ।संपत्तिः श्रीर्विभूतिस्तु लक्ष्मीः संपत्समा स्त्रियाम् ॥ २३ ॥
4.23 · p. 104
अनुष्टुप्
दरिद्रोऽकिंचनो निःस्वो निर्धनः कीकटश्च सः ।दुर्गतो दुर्विधो दुःस्थो नायकोऽथाधिभूः प्रभुः ॥ २४ ॥
4.24 · p. 104
अनुष्टुप्
विभुः स्वामी पतिर्नाथो नेता भर्तेश्वरः पुनः ।इन्द्रेनावीशितेशश्च आर्यः परिवृढः समः ॥ २५ ॥
4.25 · p. 104
अनुष्टुप्
भृत्यो गोप्यो नियोग्यश्च दासे डिङ्गरकिंकरौ ।चेटः प्रेष्यभुजंगौ च परिस्कन्दपरैधितौ ॥ २६ ॥
4.26 · p. 104
अनुष्टुप्
परिचारपरान्नौ च परपिण्डाद एव च ।भृतिभुग्निर्भृतिः कर्मकरो वैतनिकः पुनः ॥ २७ ॥
4.27 · p. 104
अनुष्टुप्
भृतकः कर्मकारोऽपि खलपूर्बहुकर्मकृत् ।भृतिः पणस्तथा मूल्ये भरणावेतने मते ॥ २८ ॥
4.28 · p. 105
अनुष्टुप्
विधानिर्वेशभर्माणि भोगो वेश्याभृतिर्मतः ।भारिको भारवाहः स्यादथ वैवधिकः स्मृतः ॥ २९ ॥
4.29 · p. 105
अनुष्टुप्
वार्तावहेऽथ भारे स्याद्वीवधो विवधः पुनः ।शिक्यं काचस्तदाधारयष्टिरुक्ता विहङ्गिका ॥ ३० ॥
4.30 · p. 105
अनुष्टुप्
विक्रान्तसुभटौ वीरः शूरचारभटौ स्मृतौ ।कातरो भीरुको भीतश्चकितो भीरुभीलुकौ ॥ ३१ ॥
4.31 · p. 105
अनुष्टुप्
दरितः कान्दिशीकस्तु भयद्रुत उदीरितः ।उत्पिञ्जलपिञ्जलौ तु समुत्पिञ्जल आकुले ॥ ३२ ॥
4.32 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ल (wrong syllable)
व्यग्रे विहस्त इत्युक्त उदीर्णोदारसत्तमाः ।महाशयोद्भटोदात्ता महात्मा च महामनाः ॥ ३३ ॥
4.33 · p. 105
अनुष्टुप्
कृपणः किंपचनोऽपि कदर्यस्तद्धनः पुनः ।बद्धमुष्टिस्तथा क्षुद्रः कीनाशे च मितंपचः ॥ ३४ ॥
4.34 · p. 105
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च (wrong syllable)
दयालुः करुणासक्तः कृपालुः सूरतोऽपि सः ।कृपा दया घृणा शूकोऽनुकम्पा करुणापि च ॥ ३५ ॥
4.35 · p. 105
अनुष्टुप्
अनुक्रोशोऽथ हिंस्रे स्याच्छरारुर्घातकोऽपि सः ।[58]व्यापादनं विशसनं हिंसा निर्वासनं वधः ॥ ३६ ॥
4.36 · p. 106
अनुष्टुप्
निर्ग्रन्थनप्रमथने निस्तर्हणपरासने ।वधोद्यतस्त्वाततायी षड्भेदास्तद्गता मताः ॥ ३७ ॥
4.37 · p. 106
अनुष्टुप्
नामशेषो यशःशेषः परासुः संस्थितश्च सः ।व्यापन्नालेख्यशेषौ चोपगतो मृत इत्यपि ॥ ३८ ॥
4.38 · p. 106
अनुष्टुप्
पितृतर्पणनिवापौ चिता चित्याचितस्तथा ।प्राञ्जलः सरलोदारावञ्जसौ दक्षिणे पुनः ॥ ४० ॥
4.40 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
ऋजूदारावपि प्रोक्तौ निकृतानृजुशठाः समाः ।क्रूरे नृशंसनिस्त्रिंशपापा धूर्तस्तु वञ्जके ॥ ४१ ॥
4.41 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 निकृ (syllable split)
कुहको व्यंसको मायिदाण्डाजिनिकजालिकाः ।मायायां निकृतिः शाठ्यं शठता कपटे तथा ॥ ४२ ॥
4.42 · p. 106
अनुष्टुप्
दम्भः कूटं मिषं व्याजो लक्षं छद्मछले अपि ।कैतवं चोपधिश्चैवं व्यपदेशनिभौ समौ ॥ ४३ ॥
4.43 · p. 106
अनुष्टुप्
कुर्कुटिर्दम्भचर्या च कुहना वञ्जने पुनः ।प्रतारणाभिसंधाने व्यलीकं परवञ्जने ॥ ४४ ॥
4.44 · p. 106
अनुष्टुप्
सभ्यसज्जनसाध्वार्या दुर्जनः पिशुनः समः ।खले नीचो द्विजिह्वोऽपि मत्सरी सूचकस्तथा ॥ ४५ ॥
4.45 · p. 107
अनुष्टुप्
नीचकर्णेजपौ दोषैकदृक् चौरस्तु तस्करः ।पाटच्चरस्तेनदस्युपरिमोषिमलिम्लुचाः ॥ ४६ ॥
4.46 · p. 107
अनुष्टुप्
ऐकागारिकनामानि परिपन्थिक इत्यपि ।परास्कन्दी हरेत्साक्षात्स प्रोक्तः पश्यतोहरः ॥ ४७ ॥
4.47 · p. 107
अनुष्टुप्
स्तेयं चौर्यं चौरिकं तु लोप्त्रं चौर्याहृतं धनम् ।आलसः शीतकालस्यौ मन्दोऽनुष्णोदरस्पृशौ ॥ ४८ ॥
4.48 · p. 107
अनुष्टुप्
यद्भविष्यस्तथा दैवपरो दैवमतिर्मतः ।चतुरः पेशलो दक्षः पटूष्णावुष्णकोऽपि च ॥ ४९ ॥
4.49 · p. 107
अनुष्टुप्
आसक्तः प्रसितश्चैव तत्परः प्रवणः समः ।प्रह्वः परायणस्तुल्यौ स्थूललक्षस्तु दातरि ॥ ५० ॥
4.50 · p. 107
अनुष्टुप्
उदारो दानशौण्डस्तु बहुदः परिकीर्तितः ।स्पर्शनं वित[59]रणं चैव प्रतिपादनमित्यपि ॥ ५१ ॥
4.51 · p. 107
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दानं विसर्जनं त्याग उत्सर्जनविहायिते ।मार्गणो याचकोऽर्थी च तर्कुकोऽपि वनीपकः ॥ ५२ ॥
4.52 · p. 107
अनुष्टुप्
याचना प्रार्थना याच्ञा प्रणयोऽध्येषणैषणे ।अर्दनासनिनाम्नी च मण्डनेऽलंकरिष्णुकः ॥ ५३ ॥
4.53 · p. 108
अनुष्टुप्
प्रसारी तु विसारी स्यात्सृमरः सायाद्विपूर्वकः ।विसृत्वरोऽपि तत्रैव लज्जाशीलस्त्रपिष्णुके ॥ ५४ ॥
4.54 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 त्सृम (syllable split)
क्षमी क्षन्ता सहिष्णुश्च तितिक्षुः सहनः पुनः ।क्षमायां सहनं चैव तितिक्षा च निगद्यते ॥ ५५ ॥
4.55 · p. 108
अनुष्टुप्
ईर्षालुकुहनौ तुल्यौ क्रोधनामर्षणौ समौ ।रोषणः क्रोधवाञ्चैव चण्डः स्याद्बहुकोपनः ॥ ५६ ॥
4.56 · p. 108
अनुष्टुप्
ईर्षाक्षान्ती क्षुधायां तु बुभुक्षाप्यशनायया ।जिघत्सा क्षुधिते चाथ जिघत्सुः स्याद्बुभुक्षितः ॥ ५७ ॥
4.57 · p. 108
अनुष्टुप्
तृष्णक् पिपासितश्चैव पिपासुस्तृषितः समौ ।तृट् पिपासा तृषोदन्या रसादाने च शोषणम् ॥ ५८ ॥
4.58 · p. 108
अनुष्टुप्
भक्षको घस्मरश्चैवाद्मरश्चाशित इत्यपि ।अन्धः सान्तं कूरमन्नं भक्तभिःसे च दीदिविः ॥ ५९ ॥
4.59 · p. 108
अनुष्टुप्
अशनं चोदनं जीवनकं वाजः प्रसादने ।मण्डं तु दग्धिका सर्वरसाग्रं भिः सटापि सा ॥ ६० ॥
4.60 · p. 108
अनुष्टुप्
दधिमण्डं मस्तुसंज्ञं भक्तोद्भूतं यथा हि तत् ।निस्रावमासराचामा यवागूस्तरला स्त्रियाम् ॥ ६१ ॥
4.61 · p. 109
अनुष्टुप्
श्राणा विलेपिनी सा चोष्णिका मुद्गादिसंभवा ।प्रहितं सूपसूदौ च व्यञ्जनं तु घृतादिकम् ॥ ६२ ॥
4.62 · p. 109
अनुष्टुप्
कृसरस्तृसरस्तुल्यौ तिलान्नेऽपूपपिष्टकौ ।पूपोऽथ पोलिकार्थाः स्युः पूलिकापोलिपूपिकाः ॥ ६३ ॥
4.63 · p. 109
अनुष्टुप्
पूपली चाथ पौलिस्तु मनाक्पक्वे स्मृतावुभौ ।अभ्योषश्च तथाभ्यूषो निष्ठानं तेमने मतम् ॥ ६४ ॥
4.64 · p. 109
अनुष्टुप्
करम्बश्च करम्भोऽपि दधिसक्तुसमुद्भवः ।घार्तिको घृतपूरोऽपि पिष्टपूरो[60]ऽपि कथ्यते ॥ ६५ ॥
4.65 · p. 109
अनुष्टुप्
वटकेऽवसेकिमोऽप्युक्तो धाना भ्रष्टयवाः स्मृताः ।धानाचूर्णं सक्तवस्तु लाजाः स्युः पुनरक्षताः ॥ ६६ ॥
4.66 · p. 109
metre not recognisednearly अनुष्टुप्
चिपिटः पृथुकश्चैव यवचूर्णे तु चिक्कसः ।गोधूमस्य मतं चूर्णं समिता सम्मता स्त्रियाम् ॥ ६७ ॥
4.67 · p. 109
अनुष्टुप्
समितां सह ? दुग्धेन मर्दयित्वा सुशोभनम् ।पचेद्धृतोत्तरे खण्डो व्यसेत्पक्वं नवे घटे ॥ ६८ ॥
4.68 · p. 109
अनुष्टुप्
ततो मरिचचूर्णैलाखण्डचूर्णावचूर्णितम् ।कुर्यात्कर्पूसंयुक्तं संयावममृतोपमम् ॥ ६९ ॥
4.69 · p. 110
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्पू (syllables merged)
गुडक्वाथौ समावीक्षुरसः स्याच्छर्करा पुनः ।सितोपला सिता तुल्ये मधुधूलिस्तु खण्डकः ॥ ७० ॥
4.70 · p. 110
अनुष्टुप्
मधुधूलिविकारे च मत्स्यण्डी फाणितं तथा ।मार्जिता तु रसालायां शिखरिण्यपि निगद्यते ॥ ७१ ॥
4.71 · p. 110
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 शिख (syllable split)
यूर्यूषरससंज्ञा हि रससब्दाः प्रकीर्तिताः ।क्षीरदुग्धे पयःपुंसवने सोमजमित्यपि ॥ ७२ ॥
4.72 · p. 110
अनुष्टुप्
ऊधस्यं गोरसः स्तन्यं पेयूषं तन्नवं मतम् ।पयस्यं घृतदध्यादि विकारौ पयसो यथा ॥ ७३ ॥
4.73 · p. 110
अनुष्टुप्
कूर्चिका च किलाटी च परमान्नं तु पायसम् ।क्षैरेयी घृतनामानि तुल्ये द्वे घृतसर्पिषी ॥ ७४ ॥
4.74 · p. 110
अनुष्टुप्
हविष्यं हविराघारमाज्यं क्षीरोद्भवं दधि ।गोरसोऽथाघने तत्र क्लीवे द्वे द्रप्सपत्रले ॥ ७५ ॥
4.75 · p. 110
अनुष्टुप्
नवनीते तक्रसारं दधिसारनवोद्धृते ।घोलारिष्टे कालशेयं दण्डाहतमपि स्मृतम् ॥ ७६ ॥
4.76 · p. 110
अनुष्टुप्
रसायनं गोरसश्चोदश्वित्तक्रे समोदकम् ।श्वेतं पादजलं चैवार्धनीरं तद्भिदा यथा ॥ ७७ ॥
4.77 · p. 111
अनुष्टुप्
मथितं जलहीनं तु सार्पिष्कं दाधिकं मतम् ।घृतेन तु तथा दध्ना संस्कृतं वटकादिकम् ॥ ७८ ॥
4.78 · p. 111
अनुष्टुप्
उखासिद्धे पैठरोख्ये राद्धसिद्धे समे उभे ।जलं विना तु यत्पक्वं भृष्टं धानादिकं विदुः ॥ ७९ ॥
4.79 · p. 111
अनुष्टुप्
भृष्टमांसे भटित्रं तु भूतिर्भरुटकं हि तत् ।शूलाकृते शूल्यमुक्तं निष्क्वाथरसकौ समौ ॥ ८० ॥
4.80 · p. 111
अनुष्टुप्
प्रणीतं तूपसन्नं स्या[61]च्चिक्कणे स्निग्धमसृणे ।पिच्छलं विजिलं चैव स्मृतं विजिविलं तथा ॥ ८१ ॥
4.81 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 म (wrong syllable)
सम्मृष्टशोधिते तुल्ये वासितं भावितं समम् ।काञ्जिके त्वारनालं स्याद्धान्याम्लं काञ्जिकं तथा ॥ ८२ ॥
4.82 · p. 111
अनुष्टुप्
धातुघ्नं चुक्रसौवीरे कुण्डगोलकमित्यपि ।सुवीराम्लं तथोन्नाहं रक्षोघ्नं च महारसम् ॥ ८३ ॥
4.83 · p. 111
अनुष्टुप्
स्नेहे तैलाभ्यञ्जने तु वेषवार उपस्करे ।भोजनं निघसो न्यादः खादनं स्वादनाशने ॥ ८४ ॥
4.84 · p. 111
अनुष्टुप्
आहारो जक्षणं जग्धिर्भक्षणं घसिजेमने ।वल्भनं निघासश्चापि चूर्णनं चर्वणं समम् ॥ ८५ ॥
4.85 · p. 111
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घा (wrong syllable)
प्रातराशः कल्यवर्तः सग्धिः स्यात्सहभोजने ।गुडो गुडेरको ग्रासपिण्डौ कवक इत्यपि ॥ ८६ ॥
4.86 · p. 112
अनुष्टुप्
गडोलकवलौ चापि गण्डोलः सुहितेऽप्यथ ।तृप्ताध्राताशिताश्चैव सौहित्यं तृप्तिरीक्ष्यते ॥ ८७ ॥
4.87 · p. 112
अनुष्टुप्
फेला पिण्डोलिफेली च भुक्तोत्सृष्टे निगद्यते ।आत्मंभरिस्तथा कुक्षिंभरिः स्वोदरपूरकः ॥ ८८ ॥
4.88 · p. 112
अनुष्टुप्
आद्यूनः पेट्टिकश्चापि विजिगीषाविवर्जितः ।सर्वान्नीनः सर्वभक्षी शाष्कुलः पिशितादनः ॥ ८९ ॥
4.89 · p. 112
अनुष्टुप्
उन्मदिष्णून्मादयुक्तौ गृध्नुगर्धननलोभनाः ।लुब्धोऽभिलाषुकश्चैव लोलुभो लोलुपोऽपि च ॥ ९० ॥
4.90 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
लोभः स्पृहा वशो लिप्सा तृष्णा काङ्क्षेच्छया सह ।आशंसा गर्धवाञ्छे चाशेहा तृट् तु मनोरथः ॥ ९१ ॥
4.91 · p. 112
अनुष्टुप्
अभिलाषस्तथा कामोऽभिध्या स्यात्परवस्तुनः ।अविनीतोद्धतौ तुल्यौ विनीते प्रश्रितो मतः ॥ ९२ ॥
4.92 · p. 112
अनुष्टुप्
निभृतोऽपि विधेयः स्याद्विनयस्थोऽपि दृश्यते ।समौ प्रणेयवश्यौ तु वचनस्थ अथाश्रवः ॥ ९३ ॥
4.93 · p. 112
अनुष्टुप्
वियातो धृष्णजो धृष्णुधृष्टौ धृष्टिस्तथा क्वचित् ।वीक्ष्यापन्नविलक्षौ तु शुभंयुः शुभवत्यपि ॥ ९४ ॥
4.94 · p. 113
अनुष्टुप्
शालीनः शारदोऽधृष्टेऽप्यहंयुः स्यादहंकृते ।कामनः कामुकः कामी[62] कमरोऽभीक एव च ॥ ९५ ॥
4.95 · p. 113
अनुष्टुप्
कम्रोऽभिकः कामयिता कमितानुक इत्यपि ।व्यसनी विप्लुतः पञ्चभद्रो हृष्टमना अथ ॥ ९६ ॥
4.96 · p. 113
अनुष्टुप्
विकुर्वाणो हर्षणः स्यात्प्रमना हर्षसंयुतः ।विमना दुर्मनाश्चापि मतश्चान्तर्मनास्तथा ॥ ९७ ॥
4.97 · p. 113
अनुष्टुप्
मत्तोत्कटौ क्षीबशौण्डौ उन्मना उत्सुकः समः ।उत्क उत्कण्ठिस्तुल्यौ विशेषास्तत्र केचन ॥ ९८ ॥
4.98 · p. 113
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 त्क (syllables merged)
दूषितः क्षारितो वाच्यो लक्षणो गुणयुक्स्मृतः ।निर्लक्षणः पाण्डुपृष्ठः कथितो विवशोऽप्यथ ॥ ९९ ॥
4.99 · p. 113
अनुष्टुप्
दुष्टानिष्टमतिः सङ्कसुकस्त्वस्थिर उच्यते ।मौनशीले तु तूष्णीकस्तूष्णींशीलोऽपि कथ्यते ॥ १०० ॥
4.100 · p. 113
अनुष्टुप्
कीलितो यन्त्रितो बद्धो नद्धः संदानितः सितः ।संयतो बन्धनं तु स्यादुद्दानं परिकीर्तितम् ॥ १०१ ॥
4.101 · p. 114
अनुष्टुप्
हतः प्रतिहतो बद्धः प्रतिपूर्वोऽपि दृश्यते ।मनोहतः प्रतिक्षिप्तो [हतः सोऽ?]पि तथोच्यते ॥ १०२ ॥
4.102 · p. 114
अनुष्टुप्
निष्कासितोऽवकृष्टः स्यादात्तगन्धोऽभिभूतकः ? ।निराकृतोऽप्यपध्वस्तो न्यक्कृतो धिक्कृतः समः ॥ १०३ ॥
4.103 · p. 114
अनुष्टुप्
तिरस्क्रिया विप्रकारो न्यक्कारः परितो भवः ।पराभवः परिभावोऽभिभावोऽपि निवेदितः ॥ १०४ ॥
4.104 · p. 114
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 रि (wrong syllable)
अत्याकारनिराकारौ वञ्चितो विप्रलब्धकः ।निद्रालुः स्याच्छयालुस्तु प्रचलायितघूर्णितौ ॥ १०५ ॥
4.105 · p. 114
अनुष्टुप्
सुप्तः शयितनिद्राणौ जागरी जागरूककः ।जागर्या जागरा चैव तथा जागरणं हि तत् ॥ १०६ ॥
4.106 · p. 114
अनुष्टुप्
संशयितृसंशयालू गृहीता गृहयालुकः ।पातुके पतयालुस्तु रोचिष्णौ रोचनो मतः ॥ १०७ ॥
4.107 · p. 114
अनुष्टुप्metre not read in every line
दक्षिणीयो दक्षिणार्हो दक्षिण्योऽपि तथोच्यते ।साधितो दण्डितस्तुल्यौ दापितोऽर्च्ये प्रतीक्ष्यकः ॥ १०८ ॥
4.108 · p. 115
अनुष्टुप्
अर्हितः प्रमहितस्तुल्यावर्चितापचितावपि ।नमस्यितोऽञ्चितश्चैवाचित(वाचितिर?)र्चार्हणापि च ॥ १०९ ॥
4.109 · p. 115
metre not recognisednearly अनुष्टुप्
[63] उपहारः सपर्या च बलिः पूजापि कथ्यते ।पीवरः पीनपीवानौ स्थूलविह्वलविक्लवाः ॥ ११० ॥
4.110 · p. 115
अनुष्टुप्
चक्षुष्योऽक्षिगतो ---------- सुभगो बलिमांसलौ ।निर्दिग्धोपचितावंसलः क्षामः कृशदुर्बलौ ॥ १११ ॥
4.111 · p. 115
अनुष्टुप्metre not read in every line
तनुश्छातस्तथा क्षीणस्तुन्दिको वृद्धकुक्षिकः ।पिचिण्डिलस्तुन्दिलोऽपि उदर्युदरिलौ समौ ॥ ११२ ॥
4.112 · p. 115
अनुष्टुप्
अनासिके विग्रविखौ तथा विखुरपीक्ष्यते ।नतनासोऽवटीटोऽप्यवनाटोऽवभ्रटस्तथा ॥ ११३ ॥
4.113 · p. 115
अनुष्टुप्
क्षुद्रनासिकनःक्षुद्रौ खरणः खरणसः समौ ।खुरणःखुरणसौ चैवाथोन्नसश्चोग्रनासिकः ॥ ११४ ॥
4.114 · p. 115
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 1 खर (syllable split)
पङ्गौ खलतिकश्रोणावेकदृक्कननः समः ।काणोऽथ शिपिविष्टश्च ऐन्द्रलुप्तिकः इत्यपि ॥ ११५ ॥
4.115 · p. 116
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 कः (wrong syllable)
बभ्रुः खल्वाटसंज्ञः स्यात्कुब्जोऽल्पतनुरुच्यते ।कुणिः कुकरनामा स्याद्वामनः खर्वखट्टनौ ॥ ११६ ॥
4.116 · p. 116
अनुष्टुप्
खर्वशाखनिखर्वौ तु बधिरैडावकर्णकः ।दुश्चर्मा शिपिविष्टः स्याण्द्वडस्तत्र द्विनग्नकः ॥ ११७ ॥
4.117 · p. 116
अनुष्टुप्
खञ्जे खोडः खोर उक्तः पोगण्डो विकलाङ्गकः ।ऊर्ध्वजानुरथोर्ध्वज्ञु[रूर्ध्वज्ञ?]स्तु तथैव हि ॥ ११८ ॥
4.118 · p. 116
अनुष्टुप्
युतजानु संज्ञुसंज्ञौ प्रज्ञुर्विरलजानुकः ।वलिनो वलिभ इत्युक्तमुग्रदन्दन्तुरः स्मृतः ॥ ११९ ॥
4.119 · p. 116
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 नु (wrong syllable)
प्रलम्बाण्डो मुष्करः स्यादन्धोत्पश्यगताक्षकाः ।अधोमुखोन्मुखौ चैवोत्पश्यो मुण्डितकेशिनौ ॥ १२० ॥
4.120 · p. 116
अनुष्टुप्